________________
कृंतर्त्यपुण्यानि 'करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ॥ ४ ॥ " तथा - श्रद्धा सम्यग् धर्मेऽस्यास्तीति 'प्रज्ञाश्रद्धाद्वत्तेर्ण:' इति णप्रत्यये श्राद्धइति, श्राद्धशद्वान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवेत्यत्रोक्तं भावश्राद्धेनात्राधिकार इति चतुर्थगाथार्थः ॥ ४ ॥
एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादि कृतषट्के प्रथमं दिनकृत्यविधिमाहनवकारेण विबुद्धो, सरेइ सो ' सकुलधम्मनियमाई ।
पडिकमिअ' सुई' पूइअ, गिहे जिणं कुणइ संवरणं ॥ ५ ॥
T
च
व्याख्या- 'नमो अरिहंताणं ' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् । अयमर्थः, श्रावण तावत् स्वल्पनिद्रेण भाव्यं पाश्चात्य रात्रौ च यामादिसमये सकाले उत्थातव्यं तथा सति यथा विलोक्यमानैहलौकिकपारलौकिक कार्यसिद्ध्यादयोऽनेकगुणा अन्यथा तत्सीदनादयो दोषाः । लोकेऽप्युक्तं - “ कम्मीणां धणसंपडइ, धम्मीणां परलोअजिहिं । सुत्तां रविउग्गमइ, तिहिं नरआओ न ओय ॥ १ ॥ " निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति । तदा पंचदशमुहूर्त्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्मे मुहूर्ते उत्तिष्ठेत्, द्रव्याद्युपयोगं करोति । द्रव्यतः कोऽहं श्राद्धोऽन्यो वा, क्षेत्रतः किं स्वगृहेऽन्यत्र वा उपरितलेऽधस्तले वा, कालतो रात्रिर्दिनं वा, भावतः कायिष्यादिना पीडितोऽहं न वा, एवमुपयोगे दत्ते निद्रानुपरमे नासानिःश्वासं निरुणद्धि । ततो suनिद्रः सन् द्वारं दृष्ट्वा कायिक्यादि चिंतां करोति । उक्तं च साधुमाश्रित्यौघनिर्युक्तौ – “ दव्वाईउन ओगं ऊसासनिरंभणा - लोअंति ” रात्रौ च यदि किंचित् कार्यान्यस्मै ज्ञापयति तदा मंदस्वरादिनैव, उच्चैः स्वरं तु शब्दकासितखुंकारहुंकाराद्यपि न कुर्यात्, रात्रौ तत्करणे' जागरितैर्गृहगोधादिहिंस्रजीवैर्मक्षिकोपद्रवाद्यारंभः, प्रातिवेश्मिकैर्वा स्वस्वारंभः प्रवर्त्स्न्येत पानीयाहारिकारंघनकारिकावाणिज्यकारकशोककारकपथिककर्षकारां मिकार पट्टिकघरट्टादियंत्रमवाहक शिलाकुट्टकचाक्रिकरजककुंभकारलोहकारसूत्रधारद्यूतकारशस्त्रकारमद्यकारमात्स्यिकसौनिकवागुरिकलुब्धकघात कपारदारिकतस्करावस्कंददायकादीनामपि परंपरया कुव्यापारप्रवृत्तिरिति निरर्थकमनेके दोषाः । तदुक्तं श्री भगवत्यंगे – “ जागरिआ धम्मणं, अहम्मीणं तु सुत्तया सेया । वच्छाहिवभइणीए, अकहिंसु जिणो जयंतीए ॥१॥" निद्राच्छेदे च ' तज्ज्ञेन भूजलाग्निवायुव्योमसु किं तत्त्वमित्याद्यन्वेष्यं' यतः- “अंभोभूतत्वयोर्निद्राविच्छेदः शुभहेतवे । व्योमवाय्वग्नितत्वेषु स पुनर्दुःखदायकः ॥ १ ॥ वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानींदुसूर्ययोरुदयः शुभः ॥ २ ॥ शुक्लप्रतिपदो वायुश्चंद्रेऽथार्के त्र्यहं त्र्यहं । वहन् शस्तो नया वृत्त्या' विपर्यासे तु दुःखदः ॥ ३ ॥ शशांकेनोदये वायोः 'सूर्येणास्तं शुभावहम् । उदये रविणा त्वंस्य शशिनांस्तं शुभावहम्। ।। ४ ।। ” केषांचिन्मते वारक्रमेण सूर्यचंद्रोदयौ, तत्र रविभौम गुरुशनिषु सूर्योदयः सोमबुधशुक्रेषु चंद्रोदयः । केषांचित् संक्रांतिक्रमाद्यथा ‘मेसविसे रविचंदा' इत्यादि । केषांचिचंद्रराशिपरावर्त्तक्रमेण - “सार्द्ध घटी द्वयं नाडिरेकैकांकदयाद्वहेत् । अरघट्टभ्रांतिया पुनः पुनः ॥ ५ ॥ षत्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेळा मरुतो नाड्या नाड्यां संचरतो ळगेत् ।। ६ ।। पंचतत्वानि चैवं - " ऊर्ध्वं वह्निरधस्तोयं तिरश्चीनः समीरणः । भूमिर्मध्यपुटे व्योम सर्वगं वहते पुनः ॥ ७ ।। वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्वं 'वहेत्' क्रमात् । वत्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥ ८ ॥ पृथ्व्याः पकानि पंचाशंच्चत्वारिंशत्तथांभसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश ।। ९ ।। तत्वभ्यां ' भूजलाभ्यां स्याच्छति कार्ये फळो - तिः । दीप्ता स्थिरादिके कृत्ये 'तेजोवाय्बंबरैः शुभम् ॥ १० ॥ जीवितव्ये' जये ' लाभे सस्योत्पत्तौ च वर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ ११ ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोर्व्यां तु शीघ्रमंभास निर्दिशेद् ।। १२ ।। युग्मम् ।। पूजाद्रव्यर्जनोद्वाहे दुर्गादिसरिदाक्रमे । गमागमे जीविते च गृहे' क्षेत्रादिसंग्रहे ॥ १३ ॥ क्रयविक्रयणे' दृष्टौ ' सेवा कृषिद्विषज्जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी || १४ || युग्मम् ॥ प्रश्ने प्रारंभणे वापि कार्याणां वामनासिका । पूर्णा वायोः प्रवेशत्तदा सिद्धिरसंशयम् ॥ १५ ॥ बद्धानां रोगितानां च प्रभ्रष्टानां निजात्पदात् । प्रभे युद्धविधौ वैरिसंगमे सहसा भये ॥ १६ ॥ स्नाने पानेऽशमे' नष्टान्वेषे पुत्रार्थमैथुने । विवादे दारुणार्थे च सूर्यनाडिः प्रशस्यते ॥ १७ ॥ युग्मम् ॥ कचित्त्वेवम्–“ विद्यारंभे च ' दीक्षायां शस्त्राभ्यासविवादयोः । राजदर्शनगीतादौ मंत्रयंत्रादिसाधने ॥ १८ ॥ सूर्यनाडी शुभा ।" दक्षिणे' यदि वा वामे यत्र वायुर्निरंतरम् । तं पादमैग्रतः कृत्वा निस्सरेत्' निजमंदिरात् ।। १९ ।। अधमर्णारिचौराद्या षिग्रहोत्पातिनोऽपि च । शून्यांगे स्वस्य कर्त्तव्याः सुखलाभजयार्थिभिः || २० || स्वजनस्वामिगुर्वाद्या' ये चान्ये हितचिंतकाः । जीबांगे' ते 'धुवं' कार्याः कार्यसिद्धिर्मभीप्सुभिः ॥ २१ ॥ प्रविशत्पवनापूर्णनासिकापक्षमाश्रितम् । पादं शय्योत्थितो दद्यात्प्रथमं पृथिवीतले ।। २२ ।।” एवं विधिना त्यक्तनिद्रः श्रावक 'आत्यंतिक बहुमानपरममंगलार्थ नमस्कारं स्मरेंदैव्यक्तवर्ण यदाह – “ परमिद्विचिंतणं माणसंमि सिज्जागरण कायव्वं । सुत्तोऽविणयपवित्ती निवारिआ होइ एवं तु ॥ १ ॥ " अन्ये तु न
"
श्रीश्राद्धविधिप्रकरणम्
31