________________
"
"
99
सा काचिदवस्था यस्यां पंचनमस्कारस्यनिधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाडुः । एतन्मतद्वयमद्यपं - चाशकट्टत्यादावुक्तं । श्राद्धदिनकृत्ये त्वेवमुक्तं – “सिज्जाठाणं पमुत्तूर्णं, चिट्ठिज्जा घरणीयले । भावबंधुं जगन्नाहं, नमोकार तओ पढे ।। १ ।। ” यतिदिनचर्यायां चैवं – “ जामिणिपच्छिमजामे, सव्वे जग्गति' बालबुट्ठाई । परमिद्विपरममंतं भणति' सवाओ || १ | " एवं च नमस्कारपरावर्त्तनविधिरयं हृदि नमस्कारं स्मरन् सुप्तोत्थितः पल्यंकादि मुक्त्वा पवित्रभूमौ' ऊर्ध्व स्थितो निविष्टो वा पद्मासनादिसुखासनासीनः पूर्वस्या उत्तरस्या वा संमुखो जिनप्रतिमाद्यभिमुखो वा चित्तैकाग्रतायर्थं कमळबंधकरजापादिना नमस्कारान् परावर्त्तयेत्, तत्रष्टिदले कमले कर्णिकायामाद्यं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिचतुष्के, शेषाणि चत्वार्याग्नेय्यादिविदिक् चतुष्के न्यसेदित्यादि । उक्तं चाष्टमप्रकाशे श्रीहेमसूरिभिः- “ अष्टपत्रे' सितभोजे कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मंत्रं पवित्रं चिंतयेत्ततः ॥ १ ॥ सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिंतयेत् || २ || त्रिशुद्ध्या चिंतयन्नस्य शतमष्टोत्तरं मुनिः । भुंजानोऽपि लभेतैव चतुर्थतपसः फलम् || ३ ||” करजापो' नंद्यावर्त्तशंखा वर्त्तादिना' इष्टसिद्ध्यादिबहुफलः । प्रोक्तं च- " कर आवत्ते' जो पंचमंगलं साहुपडिमसंखाए । नवबारा 'भावत्तइ छलंति तं नो पिसायाई ॥ १ ॥ " बंधनादिकष्टे तु' विपरीत शंखावर्त्तादिर्नाक्षरैः पदैर्वा विपरीतं नमस्कारं ' लक्षाद्यपि जपेत् क्षिमं क्लेशनाशादि स्यात् । करजापाद्यैशक्तस्तु सूत्ररत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादार्वलगंत्या मेर्वनुल्लंघनादिविधिना जपेत् । यतः - “ अंगुल्यग्रेण यज्जप्तं यज्जतं मेरुलंघने । व्यग्रचित्तेन यज्जप्तं ' तत्मायोऽल्पफलं भवेत् ॥ १ ॥ संकुलाद्विजने भव्यः सशब्दान्मौनवान् शुभः । मौनजन्मानसः श्रेष्ठो' जापः श्लाघ्यः' परः परः ॥ २ ॥ जपश्रांतो विशेद् ध्यानं' ध्यानश्रांतो' विशेज्जपम् । द्वयश्रांतः पठेत् स्तोत्रमित्येवं गुरुभिः स्मृतम् ॥ ३ ॥ श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं, “ जापस्त्रिविधो मानसोपांशुभाष्यभेदात्, तत्र मानसो मनोमात्रप्रवृत्तिनिर्वृत्तः स्वयंवेद्यः, उपांशुस्तु' परैरश्रूयमाणोऽतः संजल्परूपः, यस्तुः परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शांतिपुष्टयंभिचारादिरूपामु नियोज्यः, मानसस्य प्रयत्नसाध्यत्वाद, भाष्यस्यधिमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः इति ।” नमस्कारस्य पंचपदीं नवपदीं वाऽनानुपूर्व्यापि चित्तैकाय्यार्थं गुणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावर्त्य । यदुक्तमष्टृमप्रकाशे -- “ गुरुपंचकनामोत्था 'विद्या' स्यात् ' षोडशाक्षरा । जपन् शतद्वयं तस्यांश्चतुर्थस्यांप्नुयात्फलम् ॥ १ ॥ गुरुपं चकं परमेष्ठिपंचकं, षोडशाक्षरा - “ अरिहंतसिद्ध आयरियउवज्झायसाहु ” रूपा । तथा — “ शतानि त्रीणि षड्वर्ण' चत्वारि चतुरक्षरम् | पंचावर्ण' जपन् योगी चतुर्थफलमश्रुते ॥ २ ॥ " षड्वर्ण ' अरिहंत सिद्ध' इति, चतुरक्षरं 'अरिहंत' इति, अवर्ण 'अकार' मेव मंत्र - " प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गौ तु वदंति परमार्थतः ॥ ३ ॥” तथा “नाभिपद्मे स्थितं ध्यायेदेकारं विश्वतोमुखम् । सिवर्ण मस्तकांभोजे आकारं वदनांबुजे || ४ || उकारं हृदयांभोजे साकारं कंठपंजरे । सर्वकल्याणकारीणि बीजान्येन्यान्यपि स्मरेत् ॥ ५ ॥” 'असिआउसा' इति बीजान्यन्यान्यपि ' नमः सर्वसिद्धेभ्य ' इति । - “मंत्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुमिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकांक्षिभिः || ६ || एवं च मंत्रविद्यानां वर्णेषु च ' पदेषु च । विश्लेषं क्रमशः कुर्या लक्ष्य भावोपपत्तये ॥ ७ ॥" जापादेव बहुफलत्वं, यतः - “ पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः || १ ||” ध्यानसिद्ध्यै च जिनजन्मादिकल्याणक भूम्यादिरूपं ' तीर्थर्मन्यद्वा' स्वास्थ्यतुं विविक्तं स्थानाद्याश्रयेत् । यद्ध्यानशतके – “ निच्चं चित्र जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं विअणं भशिअं, विसेसओ' झाणकालंमि || १ | थिरकयजोगाणं पुण, मुणीण झाणेसु निच्चलमणाणं । गार्ममि जणाइने, सुन्ने रन्ने बन विसेसो || २ || तो जत्थ समाहाणं, होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स || ३ || कालो विचि जहिं जोगसमाहाणमुत्तमं लहइ । नउ दिवस निसावेलाइनियमणं झाइणो भणिअं || ४ || जच्चि 'देहावत्था, जिआणझाणोवरोहिणी होइ । साइज्जा तदवत्थो, ठिओ' निसन्नो निवन्नो वा ॥ ५ ॥ सव्वासु वट्टमाणा' मुणओ 'जं 'देसकालाचेहासु । वरकेवलालाभं, पत्ता बहुसो समिअपावा || ६ || तो देसकालचिट्ठा, निअमो 'झाणस्स नत्थि समयंमि । जोगाणसमाहाणं, जह होइ तहा पयइअव्वं ॥ ७ ॥ " इत्यादि ! | नमस्कारश्रात्रामुत्राप्यत्यंतं गुणकृत् । उक्तं हि महानिशीथे, " नासेइ चोरसावयविसहर जलजलणबंधणभयाई । चिंतिज्जंतो रकसरणरायभयाई 'भावेण ॥ १ ॥ " अन्यत्रापि - “ जाए जो पढिज्जर, जेणं जायस्स होइ ' फलरिद्धि । अवसाणेवि पढिज्जइ, जेण मओ सुग्गई जाइ ॥ १ ॥ आवहिंपि पढिज्जर, जेणय लंघेइ आवइसयाई । रिद्धीएवि पढिज्जर, जेण य सा जाइ वित्थारं ।। २ ।। नवकारइक्क अरकर, पाव फेडेइ सत्त अयराणं । पन्नासं च परणं, पंचसयाई समग्गेणं ॥ ३ ॥ जो गुणइ लरक मेगं, पूएइ विहीर जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधइ नत्थि संदेहो ॥ ४ ॥ अठ्ठेवय अट्ठसया, अट्टसहस्सं च अट्ठको| गुरके, सो तइअभवे लहइ सिद्धिं ॥ ५ ॥ " नमस्कारमाहात्म्ये - इह लोके श्रेष्ठिपुत्रशिवादयो दृष्टांताः, यथा - सधूताद्यासक्तो ' विषमे नमस्कारं स्मरेरिति ' पित्रा शिक्षितः पितरि मृते व्यसनान्निर्धनो धनार्थी दुष्टत्रिदंडिगिरो
32
श्रीश्राद्धविधिप्रकरणम्