________________
परसाधकीभूतः कृष्णचतुर्दशीरात्रौ श्मशाने खड्गपाणिः शवस्यांनी म्रक्षयन् 'भीतो'नमस्कारं सस्मार, त्रिरुत्थितेनापि शबेन तं प्रत्य॑मभूष्णुना त्रिदंड्येव हतः स्वर्णनरः सिद्धस्तस्य ततो महर्दि शिवचैत्याचीकरत् , इत्यादि। परलोकेतु बटशबालिकादयः, यथा सा म्लेच्छवाणविद्धा साधुदत्तनमस्कारात्सिहलेशस्य मान्यपुत्रीत्वेनोत्पमा क्षुतसमयमहेभ्योक्तनमस्काराद्यपद श्रतेर्जातिस्मरापंचशत्या पोतैरागत्य भृगुपुरे शबलिकाविहारोदारमकारयदित्यादि । तस्मात्सुप्तोत्थितेन पूर्व नमस्कारं स्मर्तव्यस्ततो धर्मजागर्या कार्या । यथा-"कोहं का मम जाई, किं च कुलदेवया च के गुरुणो । को मह धम्मो के वा, अभिग्गहा का अवस्था मे॥१॥ किंमेकडं किच्चंमि किच्च सेसं, कि सकणिज्जं न समायरामि । किं मे परोपासइ किं च अप्पा, किं वाहं खलिअं'न विवज्जयामि ॥२॥" एवमद्य का तिथि: १ किं वाईता कल्याणकं ? किं वाद्य मम कृत्यमित्यादि । अत्र स्वकुलधर्मवतादेः स्मरणं भावतः, गुर्वादेस्तु द्रव्यतः, कुत्र देशे पुरे ग्रामे स्थाने वास्मीति क्षेत्रतः, कः कालः प्रभातादिः संप्रतीति च कालतः, इदं च सर्वमादिशद्वेन संगृहीतं । एवं स्मरणे हि जीवसावधानत्वतत्तद्विरुद्धकर्मस्वदोषादिपरिहारस्वनियमनिर्वाहनव्यगुणविशेषधर्मार्जनादयो गुणाः । श्रूयते ह्योनंदकामदेवाचैरपि धर्मजागर्यामतिबुदैः प्रतिमादिविशेषधर्मकरणादि । अथोत्तरार्द्धव्याख्या-"पडिकमिअत्ति" ततश्चेत्पतिक्रामकस्तदा पतिक्रम्य रात्रि प्रतिक्रमणं कृत्वा । तद्विधिरग्रे वक्ष्यते । यो न' प्रतिक्रामति तेनापि रागादिमयकुस्वप्नप्रवेषादिमयदुःस्वप्नयोरनिष्टसूचकताक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलंभेऽष्टोत्तरशतोच्यासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये-"पाणिवह 'मुसीवाए, अदत्त मेहुँण 'परिंगहे सुमिणे। सयमेगं तु अण्णूणं, ऊसासाणं झविजाहि ।।१।। महन्बयाई झाइजा सिलोगे पंचवीसई । इत्थीविष्परिआसे' अ सत्तावीस सिलोइओ ॥२॥" माणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथोत्तरार्दै ष्टोत्तरशतोच्छासोत्सर्गस्योक्तत्वात्कारितेऽनुमोदिते च शतमेकमन्यूनमुनासानां क्षपयेत् पंचविंशत्युच्यासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः १ अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत्तेषामपि प्रायः पंचविंशतिश्लोकमानत्वात् , यदिवा यान् तान् वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेदिति ।२। तद्वत्तौ आद्यपंचाशकवृत्तावपि जातु मोहोदयात् कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्य इति । कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते । जातु दिवापि निद्रायां कुस्वप्नाद्युपलंभे। एवं कायोत्सर्गः कर्तव्यो विभाव्यते, परं तदैव क्रियते । संध्याप्रतिक्रमणावसरे वेति ? निर्णयो बहुश्रुतगम्यः । विवेकविलासादौ त्वेवमुक्तं-“ सुस्वमं प्रेक्ष्य न स्वयं कथ्यमति च सद्गुरोः । दुःस्वमं । पुनरालोक्य' कार्यः प्रोक्तविपर्ययः ॥१॥ समधातोः प्रशांतस्य धार्मिकस्यापि' नीरुजः । स्याता पुंसो जिताक्षस्य स्वमौ सत्यौ 'शुभाशुभौ ॥ २ ॥ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिंतासंततिसंभवः ।।३।। देवताधुपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वमः स्यानवधा नृणाम् ॥४॥युग्मम् ।। प्रकारैरादिमैः पड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वमः सत्यस्तु त्रिभिरुत्तरैः ॥ ५॥ रात्रेश्चतुर्षु यामेषु दृष्टः' स्वप्नः फलप्रदः । मासैदशभिः पदभित्रिभिरेकेन 'चक्रमात् ॥६॥ निशांत(त्य)घटिकायुग्मेदशाहात्फलति 'ध्रुवम् । दृष्टः सूर्योदये स्वमः सद्यः फलति निश्चितम् ।। ७॥ मालास्वमोऽहि दृष्टश्च तथाधिव्याधिसंभवः । मलमूत्रादिपीडोत्यः स्वप्नः ' सर्वो निरर्थकः॥ ८ ॥ अशुभः पोक शुभः पश्चात शुभो वा प्रागथाशुभः । पाश्चात्यः फलदः स्वप्नो दुःस्वप्ने शांतिरिष्यते ॥ ९॥" स्वप्नचिंतामणिशाने ऽपि-"स्वप्नमनिष्टदृष्टा 'सुप्यात्पुनरपि निशामवाथि । न कथं कथमपि'कथयेत्केषांचित् 'फलति 'न'स तस्मात् ॥१०॥ उत्थाय जिनं पातायति यः स्तौति वाऽयवा स्मरति । पंचनमस्कृतिमंत्रं दुःस्वप्नस्तस्य वितथः । स्यात् ॥ ११ ॥ पूजादीन्यपि 'रचयेदेवगुरूणां तपश्च निजशत्था । सततं धर्मरताना 'दुःस्वप्नो भवति सुस्वप्नः ॥ १२॥ देवगुरूणां स्मरणं नामग्रहणं मुतीर्थसूरीणाम् । विरचय्य 'स्वपिति यदा न कदाप्योप्नोति दुःस्वप्नम् ॥ १३ ॥ निष्ठीवनेन दद्रवादेस्ततः कुर्यान्निघर्षणम् । अंगदााय पाणिभ्यां वजीकरणमोचरेत् ॥ १४ ॥ प्रातः 'प्रथममेथि स्वपाणि दक्षिणं 'पुमान् । पश्येद्वाम' तु वामाक्षी निजपुण्यप्रकाशकम् ॥ १५॥ मातृप्रभृतिवृद्धानां नमस्कारं करोति यः । तीर्थयात्राफलं तस्य तत्कार्योऽसौ दिने दिने ॥१५॥ अनुपासितवृद्धानामसेवितमहीभुजाम् । अवारमुख्यासुहृदां रे'धर्मार्थतुष्टयः ॥ १६ ॥ इति " । प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् । अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं' यथाशक्ति नम
व्यासनकासनादि यथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कार्य । विवेकिना हि पूर्वं सद्गुरुपाचे सम्यक्त्वमूलः श्रावकधर्मो यथाशक्ति द्वादशव्रतात्मकः प्रतिपत्तव्यस्तथा सति सर्वांगीणविरतेः संभवाद्विरतेश्च महाफलत्वादविरतेश्च निगोदादीनामिव मनोवाकायव्यापाराभावेऽपि बहुकर्मबंधादिमहादोषात् । सया चोक्तं-" भाविना 'भविना येन स्वल्पापि विरतिः कृता । स्पृहयंति सुरास्तस्मै स्वयं तो 'कर्तुमक्षमाः ॥ १ ॥ अकुर्वतोऽपिकवळाहारमेकेंद्रियोगिनः। यत्रोपवासपुण्याव्यास्तत्तत्रांविरतेः' फलम् ॥ २ ॥सावधं चित्तवाकायैरकुर्वतोऽपि जन्मिनः ।
श्रीश्राद्धविधिप्रकरणम्
33