SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अथ श्रादस्वरूपमाह नामाई चउभेओ, सट्ठो भावेण इत्थ अहिगारो। तिविहो 'अ'भावसट्ठो, दंसणवयउत्तरगुणेहिं ॥४॥ व्याख्या-नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्रादः, तत्र नामश्रादोऽन्वर्थशून्यश्रादनामधारी ईश्वरादिनामधारकदारिद्रदासादिवत् १ स्थापनाश्रादो लेप्यमयादिः २ द्रव्यश्रादो भावशून्य श्राद्धक्रियाकर्दभयकुमारवंधनार्थचंदमयोतनृपादिष्टकपटश्रावकीभूतगणिकावत् ३ भावश्रादो भावपूर्वकश्राद्धक्रियानिष्ठः ४ । अत्र च भावश्राद्धेनाधिकारो नामश्रादादीनां नामगवादीनामिवेष्टसाध्यासाधकत्वात् । भाववादश्च त्रिविधो, दर्शनेश्राद्धो व्रतश्राद्ध उत्तरगुणश्राद्धश्च । तत्र दर्शनश्राद्धः केवळसम्यत्वधारी श्रेणिकादिवत् १ । व्रतश्रादः सम्यक्त्वमूळाणुव्रतधारी सुरसुंदरकुमारभार्या इव, तासांवतः पंचके मुनिनोपदिश्यमानेरहःस्थतभा इालुना मुनेःपंचस्वंगेषु पंचपंच लकुटमहारान् दास्ये इय॑चिति, मुनिना त्वांधाणुव्रते सदृष्टांतमक्ते ताभिः स्वीकृते रुष्टा अपि एता मानमारयिष्यंतीति हृष्टःस एकैकं प्रहारंन्यूनीचक्रे ताभिचैवं पंचाणुव्रती स्वीचक्रे, ततः स धिग् दुातं मयेति भृशं सानुशयःक्षमयित्वा मुनेःपार्षे सपियो व्रतं लात्वा स्वर्गतः २। उत्तरगुणाःत्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सम्यक्त्वाणुव्रतसहितान्येतानि धरन्नुत्तरगुणश्रादः सुदर्शनश्रेष्ठ्यादिवत् ३ । अथवा सम्यक्त्वमूलद्वादशव्रतधारी व्रतश्रादः, उत्तरगुणवादस्तपूर्वोक्तगुणयुक्तः सर्वसचित्तपरिहारैकाहारत्रिविधचतुर्विधाहारमत्याख्यानब्रह्मचर्यभूमिशयनमतिमादिविशेषाभिग्रहवान् मानंदकामदेवकार्तिकश्रेष्ठ्यादिवत्। एकद्वयादिवतभावेऽपि चव्रतश्रादत्वं स्यात्,तत्र च दादशवतानामेकदिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंगयोजितैरुत्तरगुणाविरतरूपभेदद्वययुतैः श्राद्धभंगकसर्वाग्रमित्युक्तं। "तेरसकोडिसयाई,चुलसीइजुयाई बारस य लरका । सत्तासीइ सहस्सा, दुभिसया तह दुरग्गा य ॥ १॥" ननु त्रिविधं त्रिविधेनेति भेदोऽत्र कुत्रापि किं न योजितः ? उच्यते, गृहिणा स्वयं पुत्रादिभिर्वा प्राक् पारधारंभादानुमतेनिषेदमशक्यत्वात्, यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमंगारिणस्तद्विशेषविषयं । तथाहि-यः खलु प्रविजिषुरेव पुत्रादिसंततिपालनाय विलंबमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयंभूरमणादिगतमत्स्यमांसादि। नृक्षेत्राद्वहिः स्थळाहिंसादिकं वा कचिर्दवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोतीत्यल्पविषत्वादत्र न विवक्षितं । महाभाष्येऽप्युक्तं-" केई भणंति गिहिणो, तिविहं तिविहिएण नत्थि संवरणं । तं न जओ निदिद्वं, पन्नत्तीए विसेसेउ ।। १ । पुताई संततिनिमित्तमित्तमेकारसिं पवण्णस्स । जंपति केइ गिहिणो दिरकाभिमुहस्स तिविहंपि ॥ २॥ जइ किंचिदप्पओअणमप्पप्पं वा विसेसिअं वत्थु । पच्चरकेज न दोसो. सयंभुरमणादिमच्छन्न ॥३॥" "अप्पओअणंति" अप्रयोजनं काकमांसाादि, अप्पष्पं' अप्राप्यं नृक्षेत्राहिदतिदंतचित्रकचमादिकं विशिष्टं। ननु आगमेऽन्यथा श्रावकभेदाःभयंते । यदुक्तं श्री स्थानांगे-“चउबिहा समणोवासगा पनत्ता, तंजहा-अम्मापियसमाणे १ भायसमाणे मित्तसमाणे ३ सवत्तिसमाणे ४ । अथवा चउन्विहा समणोवासगा पन्नत्ता, तंजहाआयसमाणे १ पहागासमाणे २ थाणुसमाणे ३ खरंटयसमाणे ४।" एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिभवतरंति? । उच्यते, व्यवहारनयमतेन भावभावका एवैते तथा व्यवहियमाणत्वात् , निश्चयनयमतेन पुनः सपत्नीखरंट समानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको शेषांस्तु भावश्रावकाः। तदुक्तं-चिंतइ जइ कज्जाइं, न दिखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सट्ठो ॥१॥ हिअए' ससिणेहो चिअ, मुणीणमंदायरो विणयकम्मे । भायसमो साहूणं, पराभवे होइ सुसहाओ ॥ २॥ मित्तसमाणो माणा इसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ थम्भहि अं ।।३॥ यद्धो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरइ । सट्ठो सवत्तिकप्पो साहूजणं तणसमं गणइ ॥ ४॥" तथा द्वितीयचतुष्के-"गुरुभणिओ सुत्तथ्यो, बिंबिज्जइ अवितहो मणे जस्स । सो आयससमाणो, सुसावओ वनिओ समए ॥१॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेण । अविणिच्छियगुरुवयणो, सो होइ' पडाइआतुल्लो ॥२॥ पडिवनमसग्गाहं, न मुअइ गीअत्थसमणुसिट्ठोवि । थाणुसमाणो एसो, अपओसी मुणिजणे नवरं ।। ३ ।। उम्मग्गदेसओ निन्हवोसि मृढो. सि मंदधम्मोसि । इअ संमंपि कहतं खरंटए'सो' खरंटसमो॥४॥ जह सिढिलमसुइदव्वं, छुप्पंत पिहु'नरं खरंटेइ । एवमणुसासगं पिहु दूसंतो भन्नइ खरंटो ॥ ५॥ निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लोवि । ववहारओ उ। सट्टा, वयंति जं जिणगिहाईसु ॥६॥" शसयोरैक्यात् 'स्रवति मुंचति दानशीलतपोभावनादिना शुभयोगेर्नाष्टप्रकारं कर्मेति, शृणोति यतिभ्यः सम्यक सामाचारीमित्यादिर्वा श्रावकशद्वार्थोऽपि भावभावकमेवाश्रित्य घटते । यदाहु:-"स्रवंति यस्य 'पावानि' पूर्वबद्धान्यनेकशः । आवतश्च तेर्निन्यं 'श्रावकः सोऽभिधीयते ।। १॥ संपत्तदंसणाई, पइदिअहं । जइजणा'सुणेई अ। सामायारिं परमं, जो खलु तं सावगं विति ॥२॥ श्रद्धालुतां श्राति पदार्थचिंतनानानि पात्रेषु वपत्यनारतम् । किरत्य॑पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमीहुरुत्तमाः ॥३।। यद्वा-श्रद्धालुतां श्राति शृणोति शासनं दानं वपत्यीशु वृणोति दर्शनम् । श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy