Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 39
________________ क्रियते स्वस्त्रावधिमध्ये । नमस्कारसहितोच्चारं विना सूर्योदयादनुकालपत्याख्यानं न शुध्यति । यदि दिनोदयात्माग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेलमपरं कालपत्याख्यानं न शुध्यति, तन्मध्येतु शुध्यतीति वृद्भन्यवहारः। नमस्कारसहितस्य मुहूर्तममाणत्वमैल्पाकारत्वादेव लभ्यते, मुहूर्तानंतरमपि नमस्कारपाठं विना भोजनेऽस्य भंग एव नमस्कारसहितेत्युच्चारणात् । प्रमादपरिजिहीर्षोहि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति । नमस्कारसहितादिकालपत्याख्यानपूर्तिसमये ग्रंथिसहितादि कार्य, ग्रंथिसहितं च बहुवारौषधादिभोजिनां 'बालग्लानादीनाभापि सुसाध्यं (धं), नित्यमप्रमततानिमित्ततया च महाफलं, सकृत् कृतग्रंथिसहितमात्रकपर्दियक्षीभूतमांसमद्याद्यासक्तकुर्विदादरिव । उक्तं च-"जे निच्चमप्पमत्ता, गठिं बंधति गंठिसहिअस्स । सग्गापवग्गसुरकं, तेहिं निबद्धं सगंठिमि ॥१॥ भणिऊण'नमुक्कारं, निच्च विस्सरणवजिथं धना। पारंतिगंठिसहियं गंठिसह कम्मगंठीहिं ।।२।।इअकुणए अन्भासं सिवपुरस्स'जइ'महसि । अणसणसरिसं पुष्णं, वयंति एअस्स' समयन्नू ॥३॥" रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकतांबूलादिव्यापारणमुखशुद्धिकरणादिविधिना प्रथिसाहतप्रत्याख्यानपालेन एकवारभोजिना प्रतिमासमेकोनत्रिंशद् , द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः। भोजनतांबूलजलव्यापारणादौ हि प्रत्यहं घटीट्यघटीद्वयसंभवेमासे एकोनत्रिंशत् , घटीचतुष्टयघटीचतुष्टयसंभवे त्वष्टाविंशतिरुपवासाः। यदुक्तं पबचरित्रे-" भुंजइ अणंतरणं, दुन्निउ वेलाउ जो नियोगणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥१॥ इकपि अह मुहत्तं परिवज्जड जो। चरविहाहारं । मासेण । तस्स ' जायइ, उववासफलं'तु' सुरलोए ॥ २॥ दसवरिससहस्साउ, मुंजइ सो (जो) अन्नदेवया भत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥३॥ एवं ' मुहुत्त वुडी, उपवासे छठअठमाईए । जो कुणइ ' जहाथामं । तस्स' फलं' तारिसं ' भणिकं ॥४॥" एवं ' युक्या ग्रंथिसहितप्रत्याख्यानफलमप्यनंतरोदितं भाव्यं । प्रत्याख्यानं च सर्व पुनः पुनः स्मर्त्तव्यं, स्वस्वविधिपूतौ च 'पूर्ण मेऽमुकपत्याख्यानमित्यादि चिंत्यं । भोजनसमयेऽपि पुनः स्मर्तव्यमैन्यथा जातु भंगाद्यपि स्यात् । अशनादिविभागश्चैवं-अन्नपकानमंडकसक्तुकादि सर्व क्षुधोपशमसमर्थ अशनं १, तक्रोदकमद्यादिपानं २, फलेक्षुपृथुकसुखभक्षिकादि खाद्यं ३, स्वाधं शुंठी-हरीतकीपिप्पली-मरीच-जीरक-अजमक-जातिफल-जावित्री-कसेलक-कत्थक-खदिरवटिका-ज्येष्ठीमधु-तज-तमालपत्र-एला-लवंग-कोठी-विडंग-बिडलवण-अजंक-अजमोदा-कुलिंजण-पिप्पलीमूल-चिणीकबाबा-कच्चूरक-मुस्ता-कंटासेलिओ-कपुर-सुंचल-हरडा-बिभीतक-कुंभठवो-बब्बूल-धव-खदिर-खीजडादिछल्ली-पत्र-पूग-हिंगुलाष्टक-हिंगुत्रेवीसओ-पंचकूल पुष्करमूल-जवासकमूल-बाबची-तुलछी-कपूरीकंदादिकं । जीरकं स्वभाष्यमवचन गरोद्धाराभिमायेण स्वायं, कल्पवृत्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित ४ । सर्व स्वाधं एलाक'रादिजलं च द्विविधाहारमत्याख्याने कल्पते । वेसण-विरिहाली-सोआ-कउठवडी-आमलागंठी-आंबागोली-कउठीपत्र-लिंबूईपत्रप्रमुखं । खाद्यत्वादिना द्विविधाहारे न' कल्पसे, त्रिविधाहारे तु जलमेव कल्पते । तत्रापि फुकानीरं सीकरीक कत्थखदिरचूर्णकसेल्लकपाडलादिजलं च नीतरितं गालितं वा 'नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडाद्यपि स्वाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौन कल्पते । उक्तं च नागपुरीयगच्छपत्याख्यानभाष्ये-“दकापाणाईअं'पाणं तह साइमं गुडाईअं। पढिअं। सुअंमि' तहवि हु तित्ती जणगंति नायरिअं ॥१॥" स्त्रियाः संभोगे चतुर्विधाहारं न भज्यते, बालादनिामोष्ठादिचर्वणे तु भज्यते, द्विविधारेतु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि अन्यथोपवासाचामाम्लादेर्वपुरभ्यंगगडुकरंवबंधनादिनापि भंगप्रसंगात् । नचैवं व्यवहारो लोमाहारस्य निरंतरं संभवेन प्रत्याख्यानाभावस्यैव पसंगात् । अनाहारतया व्यवह्रियमाणानि, यथा-पंचांगनिंब-मूत्र-गुडुची-कडु-किरिआतउं-अतिविष-कुडउ-चीड-मूकडीरक्षा-हरिद्रा-रोहिणि-ऊपलोट-वज-त्रिफला-बाउलछल्लीत्यन्ये । धमासउ-नाहि-आसंधि-रिंगणी एलिओ-गूगुल-हरडादालि-वउणि-बदरी-कंयेरि-करीरमूल-पूंआड-बोड-थेरी-आछी-मंजीठ-बोल-बीओ-कुंचारि-चित्रक-कुंदरु प्रभृत्यनिष्टास्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानि । श्रीकल्पतद्वात्तितुर्यखंडेऽप्युक्तं-"परिवासिअ आहारस्स, मग्गणा को भवे 'अणाहारो । मूरिः-आहारो एगंगिओ, चउव्विहु 'जंवा अईइ तहिं ॥१॥" एकांगिकः शुद्ध एव क्षुधां शमयति, स आहारो ज्ञेयोऽत्र, सोऽशनादिश्चतुर्धा, यद्वा तहिारेऽन्यल्लवणादिकमयति प्रविशति तदप्योहारो ज्ञेय इति । अथैकांगिकं चतुर्विधमाहारं व्याचष्टे-“कूरो नासेई छुहं, एगंगी १ तक्कउदगमज्जाई २ । खादिमफलमसाई ३, साइंमि महुफाणिताईणि ॥२॥" अथ 'जंवा अईइ तहिंति' पदं व्याख्याति-"जं 'पुण 'खुहापसमणे, असमत्थेगंगि होइ। लोणाई । तंपिअ' हो आहारो, आहारजुअं च विजुअं वा ॥३॥" यत्पुनरैकांगिकं क्षुधाप्रशमनेऽसमर्थ परमाहारे उपयुज्यते, तदप्यांहारे संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकं, ताशने लवणहिंगुजीरकादिकमुपयुज्यते । “उदए कप्पूराई, फलिसुत्ताईणि सिंगबेरगुले । न य ताणि खविंति खुहं, उवगारित्ताउ। आहारो ॥ ४॥" उदके कर्पूरादिकं आम्रादिफलेषु सुत्तादीनि द्रव्याणि, शृंगवेरे शुंठ्यां गुड उपयुज्यते, न चैतानि करादिनि क्षुधां क्षपयंति, परमुपकारित्वादाहार उच्यते, "अहवा जं 38 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134