SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ क्रियते स्वस्त्रावधिमध्ये । नमस्कारसहितोच्चारं विना सूर्योदयादनुकालपत्याख्यानं न शुध्यति । यदि दिनोदयात्माग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेलमपरं कालपत्याख्यानं न शुध्यति, तन्मध्येतु शुध्यतीति वृद्भन्यवहारः। नमस्कारसहितस्य मुहूर्तममाणत्वमैल्पाकारत्वादेव लभ्यते, मुहूर्तानंतरमपि नमस्कारपाठं विना भोजनेऽस्य भंग एव नमस्कारसहितेत्युच्चारणात् । प्रमादपरिजिहीर्षोहि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति । नमस्कारसहितादिकालपत्याख्यानपूर्तिसमये ग्रंथिसहितादि कार्य, ग्रंथिसहितं च बहुवारौषधादिभोजिनां 'बालग्लानादीनाभापि सुसाध्यं (धं), नित्यमप्रमततानिमित्ततया च महाफलं, सकृत् कृतग्रंथिसहितमात्रकपर्दियक्षीभूतमांसमद्याद्यासक्तकुर्विदादरिव । उक्तं च-"जे निच्चमप्पमत्ता, गठिं बंधति गंठिसहिअस्स । सग्गापवग्गसुरकं, तेहिं निबद्धं सगंठिमि ॥१॥ भणिऊण'नमुक्कारं, निच्च विस्सरणवजिथं धना। पारंतिगंठिसहियं गंठिसह कम्मगंठीहिं ।।२।।इअकुणए अन्भासं सिवपुरस्स'जइ'महसि । अणसणसरिसं पुष्णं, वयंति एअस्स' समयन्नू ॥३॥" रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकतांबूलादिव्यापारणमुखशुद्धिकरणादिविधिना प्रथिसाहतप्रत्याख्यानपालेन एकवारभोजिना प्रतिमासमेकोनत्रिंशद् , द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः। भोजनतांबूलजलव्यापारणादौ हि प्रत्यहं घटीट्यघटीद्वयसंभवेमासे एकोनत्रिंशत् , घटीचतुष्टयघटीचतुष्टयसंभवे त्वष्टाविंशतिरुपवासाः। यदुक्तं पबचरित्रे-" भुंजइ अणंतरणं, दुन्निउ वेलाउ जो नियोगणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥१॥ इकपि अह मुहत्तं परिवज्जड जो। चरविहाहारं । मासेण । तस्स ' जायइ, उववासफलं'तु' सुरलोए ॥ २॥ दसवरिससहस्साउ, मुंजइ सो (जो) अन्नदेवया भत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥३॥ एवं ' मुहुत्त वुडी, उपवासे छठअठमाईए । जो कुणइ ' जहाथामं । तस्स' फलं' तारिसं ' भणिकं ॥४॥" एवं ' युक्या ग्रंथिसहितप्रत्याख्यानफलमप्यनंतरोदितं भाव्यं । प्रत्याख्यानं च सर्व पुनः पुनः स्मर्त्तव्यं, स्वस्वविधिपूतौ च 'पूर्ण मेऽमुकपत्याख्यानमित्यादि चिंत्यं । भोजनसमयेऽपि पुनः स्मर्तव्यमैन्यथा जातु भंगाद्यपि स्यात् । अशनादिविभागश्चैवं-अन्नपकानमंडकसक्तुकादि सर्व क्षुधोपशमसमर्थ अशनं १, तक्रोदकमद्यादिपानं २, फलेक्षुपृथुकसुखभक्षिकादि खाद्यं ३, स्वाधं शुंठी-हरीतकीपिप्पली-मरीच-जीरक-अजमक-जातिफल-जावित्री-कसेलक-कत्थक-खदिरवटिका-ज्येष्ठीमधु-तज-तमालपत्र-एला-लवंग-कोठी-विडंग-बिडलवण-अजंक-अजमोदा-कुलिंजण-पिप्पलीमूल-चिणीकबाबा-कच्चूरक-मुस्ता-कंटासेलिओ-कपुर-सुंचल-हरडा-बिभीतक-कुंभठवो-बब्बूल-धव-खदिर-खीजडादिछल्ली-पत्र-पूग-हिंगुलाष्टक-हिंगुत्रेवीसओ-पंचकूल पुष्करमूल-जवासकमूल-बाबची-तुलछी-कपूरीकंदादिकं । जीरकं स्वभाष्यमवचन गरोद्धाराभिमायेण स्वायं, कल्पवृत्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित ४ । सर्व स्वाधं एलाक'रादिजलं च द्विविधाहारमत्याख्याने कल्पते । वेसण-विरिहाली-सोआ-कउठवडी-आमलागंठी-आंबागोली-कउठीपत्र-लिंबूईपत्रप्रमुखं । खाद्यत्वादिना द्विविधाहारे न' कल्पसे, त्रिविधाहारे तु जलमेव कल्पते । तत्रापि फुकानीरं सीकरीक कत्थखदिरचूर्णकसेल्लकपाडलादिजलं च नीतरितं गालितं वा 'नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडाद्यपि स्वाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौन कल्पते । उक्तं च नागपुरीयगच्छपत्याख्यानभाष्ये-“दकापाणाईअं'पाणं तह साइमं गुडाईअं। पढिअं। सुअंमि' तहवि हु तित्ती जणगंति नायरिअं ॥१॥" स्त्रियाः संभोगे चतुर्विधाहारं न भज्यते, बालादनिामोष्ठादिचर्वणे तु भज्यते, द्विविधारेतु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि अन्यथोपवासाचामाम्लादेर्वपुरभ्यंगगडुकरंवबंधनादिनापि भंगप्रसंगात् । नचैवं व्यवहारो लोमाहारस्य निरंतरं संभवेन प्रत्याख्यानाभावस्यैव पसंगात् । अनाहारतया व्यवह्रियमाणानि, यथा-पंचांगनिंब-मूत्र-गुडुची-कडु-किरिआतउं-अतिविष-कुडउ-चीड-मूकडीरक्षा-हरिद्रा-रोहिणि-ऊपलोट-वज-त्रिफला-बाउलछल्लीत्यन्ये । धमासउ-नाहि-आसंधि-रिंगणी एलिओ-गूगुल-हरडादालि-वउणि-बदरी-कंयेरि-करीरमूल-पूंआड-बोड-थेरी-आछी-मंजीठ-बोल-बीओ-कुंचारि-चित्रक-कुंदरु प्रभृत्यनिष्टास्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानि । श्रीकल्पतद्वात्तितुर्यखंडेऽप्युक्तं-"परिवासिअ आहारस्स, मग्गणा को भवे 'अणाहारो । मूरिः-आहारो एगंगिओ, चउव्विहु 'जंवा अईइ तहिं ॥१॥" एकांगिकः शुद्ध एव क्षुधां शमयति, स आहारो ज्ञेयोऽत्र, सोऽशनादिश्चतुर्धा, यद्वा तहिारेऽन्यल्लवणादिकमयति प्रविशति तदप्योहारो ज्ञेय इति । अथैकांगिकं चतुर्विधमाहारं व्याचष्टे-“कूरो नासेई छुहं, एगंगी १ तक्कउदगमज्जाई २ । खादिमफलमसाई ३, साइंमि महुफाणिताईणि ॥२॥" अथ 'जंवा अईइ तहिंति' पदं व्याख्याति-"जं 'पुण 'खुहापसमणे, असमत्थेगंगि होइ। लोणाई । तंपिअ' हो आहारो, आहारजुअं च विजुअं वा ॥३॥" यत्पुनरैकांगिकं क्षुधाप्रशमनेऽसमर्थ परमाहारे उपयुज्यते, तदप्यांहारे संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकं, ताशने लवणहिंगुजीरकादिकमुपयुज्यते । “उदए कप्पूराई, फलिसुत्ताईणि सिंगबेरगुले । न य ताणि खविंति खुहं, उवगारित्ताउ। आहारो ॥ ४॥" उदके कर्पूरादिकं आम्रादिफलेषु सुत्तादीनि द्रव्याणि, शृंगवेरे शुंठ्यां गुड उपयुज्यते, न चैतानि करादिनि क्षुधां क्षपयंति, परमुपकारित्वादाहार उच्यते, "अहवा जं 38 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy