SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भगवता श्रीवर्दमानेन शैवलपटलासादिरहितो ' महादोऽचित्तवारिपूर्णः । स्वशिष्याणां । तृबाधितानां । प्राणांतसंकटेऽपि पानाय नानुजज्ञे, एवं क्षुधा शरीरचिंतया च बाधितानामप्यचित्ततिलशकटाचित्तस्थंडिलपरिभोगानुज्ञा न कृताऽनवस्थादोषसंरक्षणार्थ श्रुतज्ञानप्रामाण्यज्ञापनार्थे च, तथाहि-न सामान्य श्रुतज्ञानी बाह्य शस्त्रसंपर्क विना जलायचित्तमिति व्यवहरति, अतो बाह्यशस्त्रसंपर्काद्वर्णादिभिः परिणामांतरापनमेव जलाधचित्तं व्यापार्य। कंकटुकमुद्गहरीतकीकुलकादिरचेतनोऽप्यविनष्टयोनिरक्षणार्थ निःशूकतादिपरिहारार्थ च दंतादिभिने भज्यते । यदुक्तं श्रीओघनियुक्तौ पंचसप्ततितमगाथावृत्ती' ननु कस्मादचित्तवनस्पतियतना? उच्यते, यद्यप्यचित्तस्तथापि केषांचिद्वनस्पतीनामविनष्टा योनिः स्यात् 'गुडूचीमुद्गादीना, तथाहि-गुडूची शुष्कापि जलसेकात्तादात्म्यं भजती दृश्यते, एवं कंकटुकमुद्रादिरपि, अतो योनिरक्षणार्थमचेतनयतनापि न्यायवत्येवेति । एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमं व्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तु नैयत्यकरणादिना स्वीकार्य, यथा आनंदकामदेवादिभिः । तथा संक्षेपाशक्तौ तु सामान्यतो दिनं प्रत्येकन्यादिसचित्तदशद्वादशादिद्रव्यैकद्व्यादिविकृत्यादिनियम कुर्यात् , परं दिनं प्रत्येकसचित्ताभिग्रहिणोऽप्येवं नियमग्रहणे पृथक् पृथक् दिनेषु परावर्तेन सर्वसचित्तग्रहणमपि स्यात् , तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्याभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलं । उक्तं च पणं च रसं, सुराइ मंसाण महिलिआणं च । जाणंताजे विरया, ते दुकरकारए । वंदे ॥१॥" सचित्तेषु च सर्वेष्वपि 'नागवल्लीदलान्येव दुस्त्यजानि, शेषसचित्तानां प्रायः सर्वेषां पासुकीभवनेऽपि स्वादुतादियोगाद्विशिष्य चाम्रादीनां, नागवल्लीदलेषु च निरंतरं जलक्लेदादिना ' नीलीकुंवंडकादिविराधना भूयसी'तत एव तानि पापभीरवो रात्रौ न व्यापारयंति, येऽपि व्यापारयंति तेऽपि सम्यग् दिवा संशोध्यैव, ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि । कामांगत्वात्तेषां, प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसंख्यजीवविराधनासंभवः । यदागमः-"जंभणिों पज्जत्तग। निस्साएवुक्कमंतऽपज्जत्ता । जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता॥१॥" बादरेष्वेकेंद्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तः तत्र तन्निश्रया नियमादसंख्याः पर्याप्ताः स्युरित्याचारांगवृत्त्यादौमोक्तं । एवमेकस्मिन्नपि पत्रादावसंख्या जीवा विराध्यंते, तदाश्रितजलनील्यादि संभवे त्वनंता अपि। जललवर्णादि चासंख्यजीवात्मकमेव । यदार्ष-" एगमि। उदगबिंदुम्मि, जे जीवा जिणवरेहिं । पन्नत्ता । ते। जइ सरिसवमित्ता, जंबूद्दीवे न मायति ॥१॥ अद्दामलगपमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूद्दीवे न'मायंति ॥२" सर्वसचित्तत्यागे चामडपरिव्राजकसप्तशतीशिष्यज्ञातं । तेहि स्वीकृतश्राद्धधर्माः, प्रासुकपरदत्तानपानभोजिनो ग्रीष्मे गंगोपकंठेऽटव्यामटतोऽतितृषार्ताः “सचित्तमदत्तं च'जलं 'सर्वथान गृहीम" इति दृढनियमा' अनशनेन ब्रह्मलोके इंद्रसमाः सुरा जज्ञिरे, एवं सचित्तत्यागे यतनीयं । येन च चतुर्दश नियमाः प्राक् स्वीकृताः स्युः, तेन प्रत्यहं ते संक्षेप्या यथाशक्त्यन्येन वा ग्राह्याः । ते चैवमुक्ताः -"सचित्त-दव्व-विगैई,-वाणह-तंबोल-वत्थ-कुसुमेसु । वाहण-सर्यण-विलेवण,-बंभ-दिसि न्हाण-भत्तेसु । ११॥" मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहं सामान्यतो वैकद्व्यादि तन्नियम्यं । यदुक्तं-“निरवजाहारेणं, निजीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा' सुसावगा' एरिसा हुंति ॥१॥ सचित्तनिमित्तेणं मच्छा गच्छंति सत्तमि पुढविं । सच्चित्तो आहारो, न खमो' मणसावि पत्थेउ ॥ २ ॥” इति सचित्तविकृतिवर्ज यन्मुखे क्षिप्यते'तत्सर्वं द्रव्यं ' क्षिप्रतिपारोट्टिकानिर्विकृतिकमोदकलपनेप्सितापर्पटिकाचूरिमकरंब:रेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यांपत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि। पोलिकास्थूलरोटकमंडकखाखरकघूघरीढोकलकथूलीबाटकणिक्कादीनि पृथक् पृथग नामोस्वादववेन पृथक् पृथग् द्रव्याणि, फलीफलिकादौ तु नामैक्येऽपि भिन्नभिन्नास्वादव्यक्तेः परिणामांतराभावाच्च बहुद्रव्यत्वं । अन्यथा वा विवक्षासंप्रदायादिवशाद् द्रव्याणि गणनीयानि, धातुमयशलाकाकरांगुल्यादिकं द्रव्यमध्ये न गणयंति २ । विकृतयो भक्ष्याः षद्, दुग्ध-दधि-घृत-तैल-गुडे-सर्वपकानभेदात् ३ । 'वाणहत्ति' उपानयुग्म मोचकयुग्मं वा, काष्ठपादुकादि तु. बहुविराधनादिहेतुः श्राद्धस्य न युज्यते ४ । तांबूलं पत्रपूगखदिरवटिकाकत्थकादिस्वादिमरूपं ५ । वस्त्रं पंचांगादिर्वेषः, धौतिकपौतिकरात्रिवस्त्रादिवेषे न गण्यते ६। कुसुमानि शिरःकंठक्षेपशय्योच्छीर्षकाद्योणि, तनियमेऽपि देवपूजादौ कल्पते ७। वाहनं रथाश्वपौष्टिकसुखासनादि ८। शयनं खट्टादि ९। विलेपनं भोगार्थ चंदनजवाधिचोअककस्तूर्यादि, तन्नियमेऽपि देवपूजादौ तिलकहस्तकंकणधृपनादि कल्पते १० । ब्रह्म दिवा'रात्रौ वा' पन्यायाश्रित्य ११ । दिक्परिमाणं सर्वतोऽमुकदिशि वा इयत् क्रोशयोजनार्थवधिकरणं १२ । स्नानं तैलाभ्यंगादिपूर्वकं १३ । भक्तं राधान्यसुखभक्षिकादि सर्व त्रिःचतुःसेरादिमितं, खडवूजादिग्रहणे बहवोऽपि सेराः स्युः १४ । इह सचित्तवद् द्रव्यादीनामपि व्यक्त्या नामग्राहं 'सामान्येन वा यथाशक्ति युक्तिनैयत्यं कार्य । उपलक्षणत्वादन्येऽपि शाकफलधानादिप्रमाणारंभनयत्यादिनियमा यथाशक्ति ग्राह्याः। एवं नियमग्रहणानंतरं यथाशक्ति प्रत्याख्यानं कार्य । तत्र नमस्कारसहितपौरुष्यादिकालपत्याख्यानं सूर्योदयात्माग् यद्युच्चार्यते तदा शुध्यति । नान्यथा । शेषप्रत्याख्यानानि सूर्योदयात् पश्चादपि क्रियते । नमस्कारसहितं च यदि सूर्योदयात प्रागुच्चारितं तदा तत्पूर्तेरन्वपि पौरुष्यादिकालपत्याख्यानं सर्वे श्रीश्राद्धविधिप्रकरणम 37
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy