________________
अचित्तो ॥२॥" चालितं तु पिष्ठ मुहूर्ताद्धर्मचित्तं । ननुपिष्ठायचित्तीभूतं कियदिनान्यचित्तभोजिनः कल्पते ? उच्यते, नात्र दिननियमः सिद्धांते श्रूयते, परं नव्यजीर्णकणादिद्रव्यसरसनीरसादिक्षेत्रवर्षाशीतोष्णादिकालतत्तत्परिणामादिभावविशेषेण पक्षमासायंवधियावद्वर्णगंधरसादिविपरिणाम इलिकादिजीवसंसक्तिश्च न स्यात्तावत्कल्पते । साधनाश्रित्य सक्तुयतना कल्पतितुर्यखंडे त्वेवमुक्ता, यत्र देशादौ सक्तनां संसक्तिः तत्र तेन'ग्राह्या, अनिर्वाहे तद्दिनकृता ग्राह्या स्तथाप्यनिर्वाहे द्वित्रिदिनकताः पृथक् पृथग ग्राह्याः, चतुर्दिनकृतादयस्तु सर्वेऽप्येकत्र ग्राह्यास्तेषामयं विधिः-रजस्त्राणमधः प्रस्तार्य तस्योपरि पात्रकंबलं रुत्वा तत्र सक्तवः प्रकीर्यते, तत ऊर्ध्वमुखं पात्रकबंधं कृत्वा एकस्मिन् पार्थे नीत्वा यास्तत्रोरणिका लग्नास्ता उद्धृत्य कर्परे क्षिप्यंते, एवं नव वारान् मत्युपेक्षणे यदि न दृष्टाःप्राणिनस्तदा भोक्तव्यास्ते, अयदृष्टास्तदा पुनर्नव वारान् मत्युपेक्ष्यास्तथापि चेहशास्ततः पुनर्नव वारानेवं शुद्धौ भोज्याः, अथ न शुद्धास्तदा परिष्ठाप्याः, असंस्तरणे तु तावत्मत्युपेक्ष्यंते, यावच्छुद्धाः स्युः। करणिकाच घरट्टादिपार्थस्थप्रभूततुषरूपे आकरे । तदभावे कर्परादौ । स्तोकसक्तून् क्षिप्त्वाऽनाबाधप्रदेशे स्थाप्यंत इति पकानाद्यांश्रित्य चैवमुक्तं-" वासासु पनदिवसं सीउईकालेसु मासे दिणवीसें । ओगाहिमं जईणं, कप्पइ' आरम्भ पदमदिणा ॥१॥" केचित्वस्या गाथाया अलभ्यमानस्थानत्वं वदंतो यावद गंधरसादिना न विनश्यति तावदवगाहिम शुध्यतीत्याहः। “जइ 'मग्गमासपभिई. विदलं कच्चमि गोरसे पहइ । ता तसजीवप्पत्ति, भणति दहिएवि ददिवरिं ॥२॥'तिदिणुवरि ' इति पाठस्तु सभ्यग् न भाव्यते, 'दध्यहतियातीत' मिति हैमवचनात-"जमिउ पीलिज्जंते, नेहो नहु'होइ
तं विदलं । विदले विहु उप्पानं, नेहजुअं होइ' नो विदलं ॥३॥" पयुषितं द्विदलपूपिकादिकेवलजलराद्धकूरादि तथान्यदपि सर्च कुथिनं पुष्पितौदनपकानादि चाभक्ष्यस्वेन वर्जनीय, दाविंशत्यंभक्ष्यद्वात्रिंशदनंतकायन्यक्तिस्वरूपं 'मत्कृतश्राद्धपतिक्रमणसूत्रवृत्तेर्जेयं । विवेकिना चाभक्ष्यवद् बहुवीजजीवाकुलत्वादिना रिंगणकायमाटीटिंबरुजंबूविल्वापीलुपककरमंदगुंदीफलपिंचूमधूकमकुरवाडउलिहद्वदरकच्चकुठिभडखसखसतिलसच्चित्तलवणायपि वयं । यच रक्ताधनीशच्छायं पकगोल्हकककोडकफणसफलादि यच्च यत्र देशादौ जने विरुद्ध कादतुंबककुष्मांडादि तत्र तदपि त्याज्यमन्यथा जिनधर्मेऽपभ्राजनाद्यांपत्तेः । अभक्ष्यानंतकायिके तु' परगृहादौ पासुकीभूते अपि न ग्राह्ये, निःशूकताप्रसंगवृद्ध्यादिदोषसंभवात् , अतएवो त्कालिकसेल्लरकं राधाकसूरणताकादि पासुकमपि सर्व वयं, प्रसंगदोषपरिहाराय, मूलकस्तु पंचांगोऽपि त्याज्यः, शुख्यादि तु नामस्वादभेदादिना कल्पते, उष्णनीरं तु त्रिदंडोत्कलनावधिमिश्रं । यदुक्तं पिंडनियुक्तौ
" उसिणोदगमणुवत्ते, दंडे 'वासे अपडिअमित्तंमि । मुत्तूणादेसतिगं, चाउलउदगं बहु पसन्नं ॥ १॥"
व्याख्या-अनुद्वत्तेषु त्रिषु दंडेषु उत्कालेषु जलमुष्णं मिश्रं ततः परमंचित्तं, तथा वर्षे दृष्टौ पतितमात्रायां प्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यजलं तद्यावन्न परिणमति तावन्मिश्र, अरण्यभूमौ तु यत्मथमं पतति तत्पतितमात्रं मिश्रं पश्चानिपतत्सच्चित्तं, आदेशत्रिकं मुक्त्वा तंदुलोदकमबहुप्रसन्नं मिश्र, अतिस्वच्छीभूतं त्वचित्तं, अत्र त्रय आदेशा यथा केचिद्वदंति, तंदुलोदके तंदुलप्रक्षालनभांडादन्यत्र भांडे क्षिप्यमाणे त्रुटित्वा भांडपाचे लग्ना बिंदवो यावन्न शाम्यति तावन्मिथ। अपर तु तथैव जाता यावद बुद्धदा न शाम्यति तावत् । अन्येतु यावत्तंदुला न सिध्यंति तावत् । एते त्रयोऽप्यनादेशा रूक्षेतरभांडपवनाग्निसंभवाऽसंभवादिभिरेषु'कालनियमस्याभावात्ततोऽतिस्वच्छीभूतमेवांचित्तं ।'
"तिव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ठिअवासे'मीसगं'छारो ॥२॥"
"तीवोदकं हि धूमधुम्रीकृतदिनकरकरसंपर्कसोष्पतीवसंपर्कार्दचितमतस्तदग्रहणे'न' काचिद्विराधना । केचिदाहुः स्वभाजनेषु तद् ग्राह्यं, अत्राचार्यः पाह-अशुचित्वात् स्वपात्रेषु ग्रहणस्य प्रतिषेधस्ततो गृहिभाजने कुंडिकादौ ग्राह्यं वर्षति मेघे च तन्मिश्रं, ततः स्थिते वर्षेऽतमुहावं ग्रावं, जलं हि केवलं पासुकीभूतमापि प्रहरत्रयाचं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षिप्यते, एवं च स्वच्छतापि स्यादिति, पिंड नियुक्तिवृत्तौ । तंदुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठति त्वंचितानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपिसचित्तानि । प्रामुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्वारादौ
" उसिणोदगं तिदंडुकालअं' फासुअजलं जई कप्पं । नवरिगिलाणाइ कए पहरतिगोवरिवि धरियन्वं ॥१॥
जायइ सचित्तया से, गिम्हासु पहरपंचगस्सुवरि । चउपहरूवरि सिसिरे, वासासु जलं तिपहरूवरिं ॥२॥"
व्याख्या-जायते सचित्तता 'से' तस्योष्णोदकस्य । पासुकजलस्य वा ग्लानाद्यर्थ धृतस्य ग्रीष्मे प्रहरपंचकस्योपरि प्रहरपंचकावं कालस्यातिरूक्षत्वाचिरेणैव जीवसंसक्तिसद्भावात् तथा शिशिरे शीतकाले कालस्य निग्धत्वात्महरचतुष्टया दूर्ध्व सचित्तता स्यात् । वर्षासु पुनः कालस्यातिस्निग्धत्वात्मासुकी भूतमपि जलं प्रहरत्रयाचं सचित्तं, तर्ध्वमपि यदि ध्रियते, तदा क्षारः प्रक्षेप्यो, येन न भूयः सचितं स्यादिति । १२६ द्वारे। यश्चाप्कायादिः स्वभावादेवाचितीस्यान्न बागशस्त्रसंबंधात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिझुंजतेऽनवस्थाप्रसंगभीरुतया । यतः श्रूयते
36
श्रीश्राद्धविधिप्रकरणम