________________
स्पृष्टा अपि नेति ।" योजनशतात्परत आगतानि हरीतकीखारिकिकिसिमिसिद्राक्षाखर्जूरमरिचपिप्पलीजातिफलबदामवायमअखोडनमिजाः जिरंगोजांपिस्तांचीणीकबाबास्फटिकानुकारिसैंधवादीनि, सजिकाबिडलवणादिः कृत्रिमः क्षारः, कुंभका रादिपरिकर्मितमृदादिकमेलालवंगजावित्रीशुष्कमुस्ताकोंकणादिपककदलीफलान्युत्कालितशृंगाटकपूगादीनि च ' प्रासुकानीति व्यवहारी दृश्यते । उक्तमपि श्रीकल्पे-" जोअणसयं तु गंतुं, अणहारेणं तु भंडसंकंती । वार्यागणिधुमेण य, विद्धत्थं ' होई लोणाई ॥ १॥" लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तमंचित्तं भवति । आह-शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह, अनाहारेण यस्य यदुत्पत्तिदेशादिकं साधारणं' तत्ततो व्यवच्छिन्नं स्वोपष्ठभकाहारविच्छेदाद्विध्वस्यते, तच्च लवणादिकं भांडसंक्रात्या पूर पूर्वस्माद भाजनादपरभाजनेषु यद्वा पूर्वस्या भांडशालाया अपरस्यां भांडशालायां संक्रम्यमाणं विध्वस्यते । तथा वातेन वाग्निना वा' महानसादौ धूमेन वालवणादिकं विध्वस्तं भवति । 'लोणाई' इत्यत्रादिशब्दादमी द्रष्टव्या-" इरिआलमणोसिलपिप्पली अ खज्जूरमुद्दिया अभया । आइनमणाइन्ना, तेवि'हु एमेव नायव्वा ।। २॥" हरितालं मनःशिला पिप्पली च ' खजूरः एते प्रतीताः, मुद्रिका द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद् योजनशतगमनादिभिः कारणैरचित्तीभवंतो ज्ञातव्याः, परमे. केत्राचीर्णा अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यते, खर्जूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यते । अथ सर्वेषां सामान्येन परिणमनकारणमाह-" आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउन्हा । भुम्माहारछेए, उवक्कमेणं च परिणामो ॥ ३ ॥ " शकटे 'गवादिपृष्ठेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ'लवणादिभारोपरि मनुष्या निषीदंति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः प्रथिव्यादि आहारस्तदव्यवच्छेदे तस्य परिणामः उपक्रमः शखं. तच त्रिधा. स्वकायपर यतदुभयरूपं, तत्र स्वकायशस्त्रं यथा लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पांडुभूमस्य, परकायशस्त्रं यथाग्निरुदकस्य, उदकं चारिति, तदुभयशस्वं यथा उदकमृत्तिके शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मंतव्यानि । -" उप्पलपउमाई पुण, उन्हेदिलाई जामन धरिति । मोग्गरगजूहिआओ, उण्हे छुढा चिरं हुंति ॥४॥ मगदंति अ पुप्फाइं, उदए छूढाई जाम न धरिति । उप्पलपउमाइं पुण, उदए हा चिरं हुंति ।। ५॥" उत्पलानि पद्मानि च उदकयोनिकत्वा दुष्णे आतपे दत्तानि याम प्रहरमात्रं कालं न धियंते नावतिष्ठते किंतु प्रहरादर्वारोवांचित्तीभवंति । मुद्गरकाणि मृगदंतिकापुष्पाणि युथिकापुष्पाणि । चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवंति, सच्चित्तान्येव तिष्ठतीति भावः । मृगदंतिकापुष्पाणि उदके क्षिप्तानि यामं पहरमपि न धियंते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवति । -"पत्ताणं पुप्फागं, सरडुफलाणं तहेव हरियाणं । बिटमि मिलाणंमी, नायव्वं जीवविप्पजढं ॥ ६॥" पत्राणां पुष्पाणां सरडुफलानार्मबद्धास्थिकफलाना, तथैव हरिताना वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा ने मूलनाले म्लामे सति ज्ञातव्यं जीवविप्रयुक्तमेतत् पत्रादिकमिति । श्रीकल्पवृत्तौ शाल्यादिधान्यानां तु श्रीपंचांगे पष्ठशते सप्तमोदेशके सचित्ताचित्तत्वविभाग एवमुक्तः-" अह भंते ! सालीणं । वहाणं । गोहमाणं जवाणं जवजवाणं एएसिणं धन्नाणं । कोठाउत्ताणं । पल्लाउत्ताणं मंचाउत्ताणं । मालाउत्ताणं 'ओलित्ताणं लित्ताणं पिहिआणं मुहिआणं' लंछिआणं केवइ कालं'जोणी संचिहइ, गोयमा! जहणं अंतो मुडुत्तं'उकोसेणं तिमिसंवच्छराई, तेण परं जोणीपमिला(ली)ई विदंसइ बीए बीए भवति । ‘सालीणति' कलमादीनां 'वीहीणति ' सामान्यतः 'जवजवाणंति ' यवविशेषागा, परयोबंशादिमयः मंचमालयोरयं भेदः, " अहो होइ मंचो'मालो अ घरोवरि होइ । " आयुक्तानां संगृहीतानां, द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां सर्वतो गोमयादिनैव लितानां, मुद्रितानां तथाविधाच्छादनेनाच्छादिताना, लांछितानां रेखादिना कृतलांछनाना, योनिरंकुरोत्पत्तिहेतुः । एवं "अह भंते ! कळायमसूरतिलमुर्गगमासनिफावकुलत्थअलिसंदगईणपलिमंथंगमाईणं एएसिणं नाणं, जहा सालीणं तहा एआणवि, नवरं पंच संवच्चराइंसेसं तं चेव ।" कलायास्त्रिपूटाख्यं धान्यं, अंत्यधान्यत्रयं चपलकतुवरीवृत्तचणकरूपं संभाव्यते । अग्रे गाथासु तयोक्तेः- " अह भंते! अयसिकुसुंभगकोईवकंगुवरेट
गकोईसगर्सणसरिसवमलबीअमाईणं घनाणं, तहेव नवरं सत्तसंवच्छराई । अत्र पूर्वमरिकतागाथा यथा-'जये जवजवगोडमैसार्लिवीहिधणाण कुट्टयाईसु । खिविआणं उक्कोसं, वरसतिगं होइ सजिअत्तं ॥१॥ तिलमुग्गममरकलायमासचवलयलत्थतुर्वरीणं' तह । बट्टचर्णयवल्लाण' वरिसपणगं सजीवत्तं ॥२॥ अयसीलट्टाकंगकोई सगसणे वरहसिद्धत्याकुईवरालयमूळेगबीआणं सतवरिसाणि ॥३॥" कपोसस्य चाचित्तता त्रिवा स्यात, यदुक्तं श्रीकरपाडाव्ये-" सेडगं तिवरिसाई गिण्डंति" सेडुगं त्रिवर्षातीतं विध्वस्तयोनिकमेव ग्रहीतुं कल्पते, सेडुकः कर्पास इति तद्वत्तौ, पिष्टस्य तु मिश्रताघेवमुक्तं पूर्वसरिभिः-" पणदिग मीसो लट्टो, अचालिओ सावणे अ भदवए । चउ आसोए कति, मगसिरपोसेसु तिमि दिणा ।। १ ॥ पणपहर माहफग्गुणि, पहराचत्तारि चित्तवइसाहे । जिवासाले तिपहर, तेणपरं होर
श्रीश्राद्धविधिप्रकरणम
35