SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भुस्कत्तो, कद्दमउवमाइ परिकवइ कोहे । सव्वो सो आहारो, ओसहमाई 'पुणो' भइओ ॥५॥" औषधादिकं तु किंचिदाहारः किंचिदनाहार इत्यर्थः, तत्र शर्करादिकमौषधर्माहारः सर्पदष्टादेर्पत्तिकादिकमौषधर्मनाहारः । “जं वा भुकत्तस्सउ, संकसमाणस्स देइ आसायं । सव्वो सो आहारो, अकामऽणिटुं चऽणाहारो॥६॥" यद्वा द्रव्यं बुभुक्षार्तस्य संकर्षतो ग्रसमानस्य भक्षयत आस्वादं प्रयच्छति स सर्व आहारः । यत्पुनर्रकाममभ्यवहरामीत्येवमनभिलषणीयं अनिष्टं च जिह्वाया अरुच्यं ईदृशं सर्वमनाहारो भण्यते । तच्चानाहारमिदं-" अणाहारो मोअछल्लीमूलं च 'फलं च 'हो' अणाहारो।" पूर्वाद । मोकं कायिकी, छल्ली निंबादित्वक, मूलं च पंचमूलादिकं, फलं च आमलकहरीतकबिभीतकादिकमेतत्सर्वमनाहारो भवतीति चूर्णिः । निशीथचूर्णौ तु या निंबादीनां छल्ली त्वक् , यच्च तेषामेव निंबोलिकादिकं फलं, यच्च तेषामेव मूलमेवमादिकं सर्वमनाहार इति। प्रत्याख्यानोच्चारे च पंचस्थानानि,आद्यस्थाने नमस्कारसहितादिकालपत्याख्यानं'सर्व प्रायश्चतुर्विधाहारं। द्वितीयस्थाने विकृतिनिविकृत्योचामाम्लोच्चारः विकृतिप्रत्याख्यानं चांस्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात्सर्वेषां स्यात् २ - तीयस्थाने एकव्यासनादिद्वित्रिचतुर्विधाहारं ३॥ चतुर्थस्थाने पाणस्सेत्यादि पंचमस्थानके देशावकाशिकव्रतं माग्गृहीतसचित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्यते ५। प्रातः सायं च उपवासाचामाम्लनिर्विकृतिकानि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृतिकादि पौरुष्यादि च द्विविधाहारमपि स्यात् । तदाहुः-"साहणं रयणीए, नवकारसहिअंचविहाहारं। भवचरिमं उववासो, अंबिल तिह चउविहांहारं ॥१॥ सेसा पच्चरकाणा, दुहतिहचउहावि हुंति आहारे । इअ पच्चरकाणेसु, आहारविगप्पणा'नेआ ॥२॥" निर्विकृतिकाचामाम्लादौ कल्याकल्प्यविभागः स्वस्वसामाचारीतो ज्ञेयः सिद्धांतानुसारेण । अनाभोगसहसायाफारव्यक्त्यादिस्वरूपं च प्रत्याख्यानभाष्याद्युक्तं सम्यग् हृदि निधेयमन्यथा प्रत्याख्यानस्य शुद्धत्वाद्यसंभवात् । एवं सूत्रगाथोत्तरार्दै 'पडिक्कमिअत्ति' पदं सप्रसंगं व्याख्यातं, अथाग्रतो व्याख्यायते,-' सईपूईअ' इत्यादि, शुचिरिति मलोत्सर्गदंतधावनजिहालेखनगडूंपकरणसर्वदेशस्नानादिना पवित्रः सनित्यनुवादपरं, लोकसिद्धो ह्ययमर्थ इति नोपदेशपरं, अप्राप्ते हि शास्त्रमर्थवत् , न हि मलिनः स्नायाद् बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे शास्त्रोपदेशसाफल्यं । एवमन्यत्रापि ज्ञेयं । सावद्यारंभेषु हि शास्तृणां वाचनिक्यप्यनुमोदना न युक्ता । यदाहुः-“सावज्जणवजाणं, वयणाणं जो न जाणइ विसेसं । वोत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥१॥" मलोत्सर्गश्च मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः । यतः-मूत्रोत्सर्ग मलोत्सर्ग भैथुनं स्नानभोजने । संध्यादिकर्म पूजां च कुर्याज्जापं च मौनवान् ॥१॥" विवेकविलासेऽपि-मौनी वस्त्रातः कुर्यादिने संध्याद्वयेऽपि च । उदमुखः शकुन्मूत्रे रात्रौ याम्याननः पुनः॥१॥ नक्षत्रेषु समग्रेषु भ्रष्टतेजस्सु भास्वतः । यावर्दोदयस्तावत्मातःसंध्याभिधीयते ॥ २॥ अर्केऽस्तिमिते यावनक्षत्राणि नभस्तले । द्वित्राणि नैवं वीक्ष्यंते तावत्सायं विदुर्बुधाः ॥३॥ भस्मगोमयगोस्थानवल्मीकशकदादिमत । उत्तमद्रुमसप्तार्चिमोर्गनीराश्रयादिमत् ।। ४ ॥ स्थानं चितादिविकृतं तथा कूलंकषातटम् । स्त्रीपूज्यगोचरं वज्य वेगाभावेऽन्यथा न तु ॥ ५॥" युग्मम् ॥ श्रीओघनिर्युक्त्यागमे तु साधुमाश्रित्यैवमुक्तं-"अणावायमसंलोए, परस्संऽणुवघाइए । संमे अXसिरे वावि, अचिरकालेकयंमि अ॥ १॥ विच्छिन्ने दूरमोगाढे, नासन्ने बिलेवन्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥२॥" अनापातोऽसंलोकश्च परस्य यत्र १। उपघातः पिट्टनादिना उड्डाहादिर्यत्र न २। समे अलुठने ३ । अझुसिरे यत्तणादिच्छन्नं न, तत्र हि वृश्चिकादिर्दशति कीटिकादिर्वा प्लाव्यते ४ । अचिरकालकृते द्विमासिके ऋतौ वहयादिना पासुके द्वितीयऋतौ तु तन्मिश्रं स्यात् , यत्र तु वर्षासु ग्राम उषितः, स प्रदेशो द्वादशवर्षाणि स्थंडिलं ५ । विस्तीर्णे जघन्यतोऽपि हस्तमाने ६ । दूरमोगाढे दूरमधोऽवगाह्यग्न्यिादितापेन जघन्यतोऽपि चत्वार्यगुलानि मासुकीकृते ७। अनासने द्रव्यासन धवलगृहारामादीनामासनं न व्युत्सृजति, भावासनं अतिवेगे आसन्नमेव व्युत्सृजति ८ । बिलवर्जिते ९। त्रसपाणबीजरहिते १० । तथा-"दिसिपवणगामसूरिअ, छायाइ पमज्जिऊण 'तिरकुत्तो। जस्सुग्गहुत्ति काउण, वोसिरे 'आयमिज्जा वा ॥३॥ उत्तरपुव्वा पुज्जा, जमाए निसिअरा अहिवडंति । घाणारिसाय पवणे, सूरिअ गामे अवन्नो अ॥४॥ संसत्तग्गहणी पुण, छायाए निग्गयाइ वोसिरए । छायासइ उहूमि वि, वोसिरिअ मुहुत्तगं चिढे ।। ५।। मुत्तनिरोहे चरकू, वच्चनिरोहे अ जीवियं चयइ । उडुनिरोहे कुटुं, गेलनं वा भवे तिसुवि ॥ ६ ॥” इत्यादि । मलमूत्रश्लेष्मादीनां चाप्युत्सर्गे पूर्व–'अणुजाणह जस्सुग्गहो' इति वदेव , व्युत्सर्गादनु च सद्यो ' वोसिरेइत्ति ' त्रिश्चिंतयेत् । श्लेष्मादीनां च धूल्याच्छादनादियतनामपि कुर्यात् , अन्यथा तेष्वसंख्यसंमूर्छिममनुष्यसंमूर्छनविराधनादिदोषः । यदुक्तं प्रज्ञापनोपांगे प्रथमपदे-“कहणं भंते ! सं. मच्छिम मणुस्सा संमुच्छंति, गो० अंतो मणुस्सखित्ते पणयालीसाइ जोयणसयसहस्सेसु अट्ठाइज्जेसु। दीवसमुद्देसु पंनरससु कम्मभूमीस छप्पन्नाइं अंतरदीवेसु गब्भवतिअ मणुस्साणं चेव, उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा 'वंतेसु वा पित्तेसु वा सुक्केसु वा सुक्कसोणिएमु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु वा चेव असुइठाणेसु'सम्मुच्छिममणुस्सा संमुच्छंति, अंगुलअसंखिजभागमित्ताए'ओगाहणाए'असली'मिच्छट्टिी श्रीश्राद्धविधिप्रकरणम् 39
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy