________________
अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतमुहत्तद्धाउआचेव कालं पकरंतित्ति। असुइठाणेसु त्ति' अन्यान्यपि यानि कानिचिन्मनुष्यसंसर्गादंशुचीनि तेषु सर्वेष्विति तद्वत्तौ। दंतधावनाद्यपि निरवद्यस्थाने 'प्रासुकज्ञातमृदुदंतकाष्ठेन दंतदा_हेतुतर्जनीघर्षेण वा दंतादिमलधूल्याच्छादनादियतनयैव कुर्यात् व्यवहारशास्त्रे त्वेवमुक्तं-“दंतदााय तर्जन्या'घर्षयेइंतपीठिकाम् । आदावतः परं कुर्यात् दंतधावनमादरात् ॥१॥याद्यवारिगंडूषाद् बिंदुरेकः प्रधावति । कंठे 'तदा' नरैज्ञेयं शीघ्र भोजनमुत्तमम् ।।२।। अवकाग्रंथि सत्कूर्च मूक्ष्माग्रं च दृशांगुलम् । कनिष्ठाग्रसमस्थौल्यं 'ज्ञातवृक्षं सुभूमिजम् ॥३।। कनिष्ठिकानामिकयोरंतरे दंतधावनम् । आदाय'दक्षिणां दंष्ट्रा वामां वा संस्पृशंस्तले ॥४॥ तल्लीनमानसः स्वस्थो दंतमांसव्यथां त्यजन् । उत्तराभिमुखः' माचीमुखो वा निश्चलासनः ॥५॥ दंतान् मौनपरस्तेन 'घर्षयेद्वर्जयेत्पुनः । दुर्गधं शुषिरं शुष्कं स्वादम्लं लवणं च तत् ॥६॥ चतुर्भिः कलापकम् ॥ व्यतिपाते रवेारे संक्रातौ ग्रहणे नतु । दंतकाष्ठं नवाष्टकभूतपक्षांतषड्धुषु ॥७॥ अभावे दंतकाष्ठस्य मुखशुद्धिविधिः पुनः । कार्यो द्वादशगंडूषैर्जिव्होल्लेखस्तु सर्वदा ॥८॥ विलिख्य रसनां जिहानिर्लेखिन्या शनैः शनैः । शुचिप्रदेशे प्रक्षाल्य दंतकाष्ठं पुरस्त्यजेत् ॥९॥ संमुखं पतितं स्वस्य शांतानां ककुभां च तत् । ऊर्ध्वस्थं च सुखाय स्यादन्यथा दुःखहे. तवे ॥१०॥ ऊर्ध्वं स्थित्वा क्षणं पश्चात्पतत्येतद्यदा पुनः । मिष्टाहारस्तदा देश्यस्तदिने शास्त्रकोविदैः ।।११।। कासश्वासजराजीर्णशोकतृष्णास्यपाकयुक् । तन्न कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ॥ १२॥ केशप्रसाधनं नित्यं कारयेदथ निश्चलः । कराभ्यां युगपत्कुर्यात्स्वोत्तमांगे स्वयं न तत् ॥१३॥ तिलकं 'द्रष्टुमीदर्शो मंगलाय च वीक्ष्यते । दृष्टे देहे शिरोहीने। मृत्युः पंचदशे दिने ॥१४॥" उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दंतधावनादि विनापि शुदिरेव, तपसो महाफलत्वात् । लोकेऽप्युपवासादौ दंतकाष्ठादि विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दंतकाष्ठादि । यदुक्तं विष्णुभक्तिचंद्रोदये"प्रतिपदर्शषष्ठीषु मध्याह्ने नवमी तिथौ । संक्रांतिदिवसे प्राप्ते'न'कुर्यादंतधावनम् ॥ १॥ उपवासे तथा श्राद्धे 'न कुर्यादंतधावनम् । दंतानां काष्ठसंयोगो हति सप्तकुलानि वै ॥२॥ ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ॥ ३ ॥ असकृजलपानात्तु' तांबूलस्य च 'भक्षणात् । उपवासः प्रदूष्येत दिवा स्वापाच्च । मैथुनात् ॥४॥" स्नानमप्युत्तिंगपनककुंथ्वाद्यसंसक्तवैषम्यशुषिराद्यदूषितभूभागे परिमितवस्त्रपूतजलेन संपातिमसत्वरक्षणादियतनया कुर्यात् । उक्तं च दिनकृत्ये- "तसाइजविराहिए'भूमीभागे विसुद्धए । फासुएणं तु 'नीरेणं, इअरेणं गालिएण उ ॥१॥ काऊणं विहिणा हाणंति" । व्यवहारशास्त्रे त्वेवमुक्तं-" नग्नातः प्रोषितायातः सचेलो भुक्तभूषितः । नैव स्नायदिनुव्रज्य वंधून ' कृत्वा च मंगलम् ॥१॥ अज्ञाते 'दुष्प्रवेशे च मलिनैदेषितेऽथवा । तरुच्छन्ने सशेवाले न स्नानं युज्यते जले ॥२॥ स्नानं कृत्वा जलैः शीतैर्भोक्तुमुष्णं न युज्यते । जलैरुष्णैस्तथा शीतं तैलाभ्यंगश्च सर्वदा ॥३॥ स्नातस्य विकृता छाया दंतघर्षः परस्परम् । देहे च शवगंधश्चेन्मृत्युस्तद्दिवसत्रये ॥४॥ स्नातमात्रस्य चेच्छोषो वक्षस्यंघ्रिद्वयेऽपि च । षष्ठे दिने तदा ज्ञेयं पंचत्वं नात्र संशयः ॥५॥रते वांते चिताधूमस्पर्शे 'दुःस्वप्नदर्शने । क्षौरकर्मण्यपि स्नायाद् गलितैः शुद्धवारिभिः ॥६॥ अभ्यक्तस्नाताशिंतभूषितयात्रारणोन्मुखैः क्षौरम् । विद्यादिनिशासंध्यापर्वसु नवमेऽह्निच न कार्यम्।।७।कल्पयेदेकशःपक्षे रोमश्मश्रुकचानखान्। न चात्मदशनाग्रेण ' स्वपाणिभ्यां च नोत्तमः ॥८॥" स्नानं च वषुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तं च द्वितीयेऽष्टकमकरणे-"जलेन देहदेशस्य ' क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यस्नानं तदुच्यते॥१॥" देहदेशस्य त्वङ्मात्रस्यैव, क्षणं नतु प्रभूतकालं, प्रायः शुद्धिहेतुर्नत्वेकांतेन तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धः, प्रक्षालनार्हमलादन्यस्य मलस्य कर्णनासाद्यंतर्गतस्यानुपरोधेनापतिषेधेन, यद्वा प्रायो जलादन्येषां माणिनामनुपरोधेन अव्यापादनेन, द्रव्यस्नानं बाह्यस्नानमित्यर्थः । “कृत्वेदं यो विधानेन देवतातिथिपूजनम् । करोति मलिनारंभी तस्यैतदपि शोभनम् ॥२॥" विधानेन विधिना, अतिथिः साधुः, मलिनारंभी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह-"भावशुद्धेनिमित्तत्वात्तथानुभवसिद्धितः । कथंचिद्दोषभावेऽपि तदन्यगुणभावतः॥३॥" युग्मम् ।। दोषोऽप्कायविराधनादिः, तस्माद्दोषादन्यो गुणः सद्दर्शनशुद्धिलक्षणः । यदुक्तं-"पूआए कायवहो पडिकुठो सोउ किंतु जिणपूआ । सम्मत्तसुद्धिहेउत्ति भावणीआ उ निरवजा ।।१॥" एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं, तेन द्रव्यस्नानं पुण्यायेति यत्मोच्यते तनिरस्तं मंतव्यं । तीर्थविहितेनापि स्नानेन हि देहस्यैव काचिंच्छुद्धिः स्यात् न तु जीवस्यांशतोऽपि । उक्तं च स्कंदपुराणे काशीखंडे षष्ठाध्याये-“मृदो भारसहस्रेण जलकुंभशतेन च । न शुध्यंति दुराचाराः स्नातास्तीर्थशतैरपि ॥१॥ जायते च नियंते च जलेष्वेव जलौकसः । न च गच्छंति ते स्वर्गमविशुद्धमनोमलाः ॥२॥ चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणैः। ब्रह्मचर्यादिभिः कायः शुद्धो गंगां विनाप्यसौ ॥ ३ ॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गंगा तस्य पराङ्मुखी ।। ४ ।। परदारपरद्रव्यपरद्रोहपराङ्मुखः। गंगाप्याह कदागत्य मामयं पावयिष्यति ॥५॥" अत्र ज्ञातं,-यथैकः कुलपुत्रको गंगादौ गच्छन् मात्रोचे, "वत्स! यत्र त्वं स्नासि तत्र मे तुंबमपि स्नापयेः" इत्युक्त्वा तदर्पित, सोऽपि तल्लात्वा तथा कुर्वन् गंगादौ गत्वा गृहे प्राप्तः, तत्तुंबशाकं मात्रा तस्मै परिवेषितं, तेनोक्तं भृशं कटु, मात्रोक्तं, यद्यस्य स्नानशतैः
40
श्रीश्राद्धविधिप्रकरणम्