Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ स्खलितमिहाज्ञानभवं होतव्ये ज्ञानपावके दीप्ते / ज्ञानाद्वैतनयदृशां प्रतिभात्यखिलं जगद्ज्ञानम् . // 482 // ज्ञानक्रियासमुल्लसदनुभवदीपोत्सवाय भवतु सदा / श्रीपूज्यचरणभक्त्या लिखितो दीपोत्सवे लेखः // 483 // हृद्यैस्तात्कालिकैः पद्यैः स्तवः परिणतो ह्ययम् / साक्ष्येव केवलं तस्मिन् ज्ञानात्माऽस्मीति मङ्गलम् // 484 // ॥न्यायखण्डखाद्यऽपरनामामहावीरस्तवः॥ ऐंकारजापवरमाप्य कवित्ववित्त्व-वाञ्छासुद्रुमुपगङ्गमभङ्गरङ्गम् / सूक्तैर्विकासिकुसुमैस्तव वीरशम्भो-रम्भोजयोश्चरणयोर्वितनोमि पूजाम् स्तुत्या गुणाः शुभवतो भवतो न के वा, देवाधिदेव ! विविधातिशयर्द्धिरूपाः तर्कावतारसुभगैस्तु वचोभिरेभिस्त्वद्वाग्गुणस्तुतिरनुत्तरभाग्यलभ्या।। 2 // नैरात्म्यदृष्टिमिह साधनमाहुरेके सिद्ध: परे पुनरनाविलमात्मबोधम्। तैस्तैर्नयैरुभयपक्षसमापि ते वा-गाद्यं निहन्ति विशदव्यवहारदृष्ट्या॥३॥ आत्मा न सिद्ध्यति यदि क्षणभङ्गबाधान्नैरात्म्यमाश्रयतु तद्भवदुक्तिबाह्यः। व्याप्त्यग्रहात् प्रथमतः क्षणभङ्गभङ्गे शोकं स भूमिपतितोभयपाणिरेतु सामर्थ्यतद्विरहरूपविरुद्धधर्मसंसर्गतो न च घटादिषु भेदसिद्धेः / व्याप्तिंग्रहस्तव परस्य यतः प्रसङ्गव्यत्यासवोर्बहुविकल्पहतेरसिद्धिः सामर्थ्यमत्र यदि नाम फलोपधान-मापाद्यसाध्यविभिदाविरहस्तदानीम्। इष्टप्रसिद्ध्यनुभवोपगमस्वभाव-व्याघात इच्छति परो यदि योग्यतां च न त्वद्रुहो भवति चेप्सितसाध्यसिद्धि-मुख्यात् समर्थविषयव्यवहारतोऽपि। भूम्ना स जन्मविषयोऽपि हि योग्यतोत्थो,व्याप्तिस्तु हेतुसहकारिविशेषलभ्या 289
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322