Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ नोच्चैबिभेति यदि नाम कृतान्तकोपा-दुत्प्रेक्ष्य कल्पयति भिन्नपदार्थजालम्। चित्रस्थले स्पृशति नैव तवोपपत्तिं तत्किं शिरोमणिरसौ वहतेऽभिमानम् साङ्ख्यः प्रधानमुपयंत्रिगुणं विचित्रां, बौद्धो धियं विशदयन्नथ गौतमीयः। वैशेषिकश्च भुवि चित्रमनेकमेकं, वाञ्छन् मतं न तव निन्दति चेत् सलज्जः अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्याभावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् / स्याद्वादमाश्रयसि सर्वविरोधिजैत्रं, ब्रूमः प्रसार्य निजपाणिमिति त्वदीयाः // 45 // विश्वं ह्यलीकमनुपाख्यमलं न बौद्ध ! सोढुं विचारमिति जल्पसि यद्विचारात् कः कीदृगेष इति पृष्ट इह त्वदीयैर्यद्वक्ति तद्बठर! भौतविचारकल्पम्॥४६॥ बाह्ये परस्य न च दूषणदानमात्रात् स्वामिन् जयो भवति येन नयप्रमाणैः। प्राज्ञैः कृतैव वसुधावयविप्रसिद्धिदृक्सङ्क्रमादवतरन्ति न दूंषणानि // 47 // ज्ञानाग्रहावृतिनिरावृतिसप्रकम्पाकम्पत्वरक्तिमविपर्ययतन्निदानैः / तद्देशतेतरसभागविभागवृत्तिचित्रेतरैरवयवी न हि तत्त्वतोऽन्यः॥ 48 // दृष्टो ह्यदृष्ट इति को निरपेक्षमाह, देशावृतौ स्फुटमनावृत एव देशी / देशे चलत्यपि चलत्वमसौ न धत्ते, देशभ्रमादवयवी भ्रमभाजनं नो 49 संयोगतद्विरहयोश्च गतिः प्रकारभेदेन तन्निलयतातदभावयोश्च / वृत्तिः स्वरूपनिरतैव च चिनमेकमित्यादि ते नयमतं समयाब्धिफेनः नाणोरपि प्रतिहतिश्च समानयोगक्षेमत्वतः किल धियेति न बाह्यभङ्गः / योग्या च नास्ति नियतानुपलब्धिरुच्चै रात्म्यमित्युपहतं नयवल्गितैस्ते स्याद्वादतस्तव तु बाह्यमथान्तरङ्ग, सल्लक्षणं शबलतां न जहाति जातु / एकत्वमुल्लसति वस्तुनि येन पूणे, ज्ञानाग्रहादिकृतदैशिकभेद एव 52 देशेन दृष्ट इह यः स मया न दृष्टो, देशेन चेति विशदव्यवहार एषः / संयोगतद्विरहवन्ननु देशभेदादेकत्र देशिनि विरुद्धनिवेशमाह // 53 // 293
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322