Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 308
________________ गुणैः पर्यायैर्वा तव जिन समापत्तिघटनादसौ त्वद्रूपः स्यादिति विशदसिद्धान्तसरणिः / अतस्त्वद्ध्यानायाध्ययनविधिनाम्नायमनिशं, समाराध्य श्रद्धां प्रगुणयति बद्धाञ्जलिरयम् // 103 // विवेकस्तत्त्वस्याप्ययमनघ सेवा तव भवस्फुरत्तृष्णावल्लीगहनदहनोद्दाममहिमा / हिमानीसम्पात: कुमतनलिने सज्जनदृशां, सुधापूरः क्रूरग्रहदृगपराधव्यसनिषु // 104 // कुतकैर्ध्वस्तानामंतिविषमनैरात्म्यविषयस्तवैव स्याद्वादस्त्रिजगदगदङ्कारकरुणा / इतो ये नैरुज्यं सपदि न गताः कर्कशरुजस्तदुद्धारं कर्तुं प्रभवति न धन्वन्तरिरपि // 105 // इदमनवमं स्तोत्रं चक्रे महाबल ! यन्मया, तव नवनवैस्तर्कोद्ग्राहै शं कृतविस्मयम्। . तत इह बृहत्तर्कग्रन्थश्रमैरपि दुर्लभां, कलयतु कृती धन्यंमन्यो यशोविजयश्रियम् // 106 / / स्थाने जाने नात्र युक्तिं ब्रुवेऽहं, वाणी पाणी योजयन्ती यदाह। धृत्वा बोधं निर्विरोधं बुधेन्द्रास्त्यक्त्वा क्रोधं ग्रन्थशोधं कुरुध्वम्॥१०७॥ प्रबन्धाः प्राचीनाः परिचयमिताः खेलतितरां, नवीना तर्काली हृदि विदितमेतत् कविकुले / असौ जैनः काशीविबुधविजयप्राप्तबिरुदो, मुदो यच्छत्यच्छः समयनयमीमांसितजुषाम् // 1.08 // . . . 288

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322