Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 307
________________ न श्रेणिकस्य न च सत्यकिनो न विष्णोः, सम्यक्त्वमेकममलं शरणं बभूव / चारित्रवर्जिततया कलुषाविलास्ते, प्राप्ता गतिं घनतमैर्निचितां तमोभिः // 95 // न ज्ञानदर्शनधरैर्गतयो हि सर्वाः, शून्या भवन्ति नृगतौ तु चरित्रमेकम् / न ज्ञानदर्शनगुणाढ्यतया प्रमादः कार्यस्तदार्यमतिभिश्चरणे कदापि।।९६ श्राद्धश्चरित्रपतितोऽपि च मन्दधर्मा पक्षं त्रयोऽपि कलयन्त्विह दर्शनस्य। चारित्रदर्शनगुणद्वयतुल्यपक्षा दक्षा भवन्ति सुचरित्रपवित्रचित्ताः॥ 97 // संज्ञानयोगघटितं शमिनां तपोऽपि श्रेण्याश्रयादिह निकाचितकर्महन्त / बाह्यं तपः परमदुश्चरमाचरध्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम्।।९८ इत्थं विशिष्यत इदं चरणं तवोक्तौ, तैस्तैर्नयैः शिवपथे स्फुटभेदवादे / चिच्चारुतां परमभावनयस्त्वभिन्नरत्नत्रयीं गलितबाह्यकथां विधत्ते 99 अशुद्धिःशुद्धिं न स्पृशति वियतीवात्मनि कदाप्यथारोपात्कोपारुणिमकणिकाकातरदृशाम् / त्वदुक्ताः पर्याया घनतरतरङ्गा इव जवाद्विवर्त्तव्यावृत्तिव्यतिकरभृतश्चिज्जलनिधौ // 100 // न बद्धो नो मुक्तो न भवति मुमुक्षुर्न विरतो, न सिद्धः साध्यो वा व्युपरतविवर्त्तव्यतिकरः असावात्मा नित्यः परिणमदनन्ताविरतचि च्चमत्कारस्कारः स्फुरति भवतो निश्चयनये // 101 // दृशां चित्रद्वैतं प्रशमवपुषामद्वयनिधिः, प्रसूति: पुण्यानां गलितपृथुपुण्येतरकथः / फलं नो हेतु! तदुभयमथासावनुभयस्वभावस्त्वज्ज्ञाने जयति जगदादर्शचरितः ' // 102 / / 298

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322