Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ नाशोद्भवस्थितिभिरेव समाहृताभि-द्रव्यत्वबुद्धिरिति सम्यगदीदृशस्त्वम् एकान्तबुद्ध्यधिमते खलु तद्विधानमात्मादिवस्तुनि विवेचकलक्षणार्थः नाशोद्भवस्थितिमति क्रमशो न शक्तो, द्रव्यध्वनिस्तदिह नो पृथगर्थताभृत्। शब्दस्वभावनियमाद्वचने न भेदः स्वव्याप्यर्मिगबहुत्वनिराकृतेश्च 65 एकत्वसंवलितविध्यनुवादभावात्, बौद्धं बहुत्वमपि नो वचनात्ययाय / प्रत्येकमन्वयितयापि न तत्प्रसङ्गस्तात्पर्यसंघटितसन्निहिताश्रयत्वात् यद्वन्महेश्वरपदन्न विभिन्नवाच्यं, सर्वज्ञतादिषडवच्छिदया परेषाम् / द्रव्यध्वनिस्तव तथैव परं पदार्थवाक्यार्थभावभजना न परैः प्रदृष्टा 67 एवं च शक्तितद्वच्छिदयोभिदातो, द्रव्यध्वनेर्नयभिदैव विचित्रबोधः / काचित् प्रधानगुणभावकथा क्वचित्तु, लोकानुरूपनियतव्यवहारकी 68 द्रव्याश्रया विधिनिषेधकृताश्च भङ्गाः, कृत्स्नैकदेशविधया प्रभवन्ति सप्त आत्मापि सप्तविध इत्यनुमानमुद्रा, त्वच्छासनेऽस्ति विशदव्यवहारहेतोः शक्त्या विभुः स इह लोकमितप्रदेशो, व्यक्त्या तु कर्मकृतसौवशरीरमानः। यत्रैव यो भवति दृष्टगुणः स तत्र,कुम्भादिवद्विशदमित्यनुमानमत्र 70 स्वाहाभुजो ज्वलनमूर्ध्वमपि स्वभावात्,सम्बन्धभेदकलितादथवास्त्वदृष्टात् दिग्देशवर्तिपरमाणुसमागमोऽपि, तच्छक्तितो न खलु बाधकमत्र विद्मः मूर्त्तत्वसावयवतानिजकार्यभावच्छेदप्ररोहपृथगात्मकताप्रसङ्गाः / सर्पा इवातिविकरालदृशोऽपि हि त्व-त्स्याद्वादगारुडसुमन्त्रभृतां न भीत्यै स्युर्वैभवे जननमृत्युशतानि जन्मन्येकत्र पाटितशतावयवप्रसङ्गात् / चित्तान्तरोपगमतो बहुकार्यहेतुभावोपलोपजनितं च भयं परेषाम्॥ 73 // प्रत्यंशमेव बहुभोगसमर्थने तु, स्यात्संकरः पृथगदृष्टगवृत्तिलाभे / मानं तु मृग्यमियतैव हतश्च कायव्यूहोपि योगिषु तवागमिकैः परेषाम् नात्मा क्रियामुपगतो यदि काययोगः, प्रागेव को न खलु हेतुरदृष्टमेव / 295
Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322