Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ सम्बन्ध एव समवायहतेर्न जाति-व्यक्त्योरभेदविरहेऽपि च धर्मिक्लप्तौ स्याद् गौरवं ह्यनुगतव्यवहारपक्षे-ऽन्योन्याश्रयोऽनुगतजातिनिमित्तके च जातेहि वृत्तिनियमो गदितः स्वभावाज्जाति विना न च ततो व्यवहारसिद्धिः उत्प्रेक्षितं ननु शिरोमणिकाणदृष्टेस्त्वद्वाक्यबोधरहितस्य न किञ्चिदेव // 32 // भेदग्रहस्य हननाय य एव दोषः, प्रोक्तः परैस्तव मते ननु सोऽप्यभेदः / त्वदृष्टवस्तुनि न मोघमनन्तभेदाभेदादिशक्तिशबले किमु दोषजालम् एवं त्वभिन्नमथ भिन्नमसच्च सच्च, व्यक्त्यात्मजातिरचनावदनित्यनित्यम्। बाह्यं तथाऽखिलमपि स्थितमन्तरङ्गं नैरात्म्यतस्तु न भयं भवदाश्रितानाम् आत्मा तु तादृगपि मुख्यतयाऽस्ति नित्य-स्तद्भावतोऽव्ययतया गगनादिवत्ते चिन्मात्रमेव तु निरन्वयनाशि तत्त्वं, कः श्रद्दधातु यदि चेतयते सचेताः इष्टस्त्वया नु परमार्थसतोरभेदोऽ-भिन्नैकजात्यमुत वेद्यविधेम॒षात्वम् / इत्थं विचारपदवीं भवदुक्तिबाह्यो, नीतो न हेतुबलमाश्रयितुं समर्थः॥३६॥ आद्ये ह्यसिद्धिसहितौ व्यभिचारबाधौ स्यादप्रयोजकतया च हतिद्धितीये। शून्यत्वपर्यवसितिश्च भवेत्तृतीये स्याद्वादमाश्रयति चेद् विजयेत वादी धीग्राह्ययोर्नहि भिदास्ति सहोपलम्भात्, प्रातिस्विकेन परिणामगुणेन भेदः इत्थं तथागतमतेऽपि हि सप्तभङ्गी, सङ्गीयते यदि तदा न भवद्विरोधः स्याद्वाद एव तव सर्वमतोपजीव्यो, नान्योऽन्यशत्रुषु नयेषु नयान्तरस्य / निष्ठा बलं कृतधिया क्वच नापि न स्व-व्याघातकं छलमुदीरयितुं च युक्तम् कः कं समाश्रयतु कुत्र नयोऽन्यतर्कात्, प्रामाण्यसंशयदशामनुभूय भूयः। ताटस्थ्यमेव हि नयस्य निजं स्वरूपं, स्वार्थेष्वयोगविरहप्रतिपत्तिमात्रात् त्यक्तस्वपक्षविषयस्य तु का वितण्डा, पाण्डित्यडिण्डिमडमत्करणेऽन्यनिष्ठ नग्नस्य नग्नकरतोऽपरनग्नशीर्षे, प्रक्षेपणं हि रजसोऽनुहरेत्तदेतत् // 41 देशेन देशदलनं भजनापथे तु त्वच्छासने निजकरण मलापनोदः / व्याघातकृन्न भजनाभजना जनाना-मित्थं स्थितौ शबलवस्तुविवेकसिद्धेः 292
Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322