Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ व्याप्त्यप्रदर्शनमिदं व्यतिरेकसिद्धा-वप्युच्चकैः क्षतिकरं त्वदनाश्रवस्य / श्वासादिकं ज्वर इवात्रं च पक्षहेतु-दृष्टान्तसिद्धिविरहादधिकोऽपि दोषः आदाय सत्त्वमपि न क्रमयोगपद्ये नित्यानिवृत्त्य बिभृतः क्षणिके प्रतिष्ठाम् यन्न त्वदीयनयवाग्नगरीगरीयश्चित्रस्वभावसरणौ भयतो निवृत्तिः॥२०॥ नाशोऽत्र हेतुरहितो ध्रुवभावितायास्तेनागतं स्वरसतः क्षणिकत्वमर्थे / इत्येतदप्यलमनल्पविकल्पजालैरुच्छिद्यते तव नयप्रतिबन्दितश्च।।२१।। द्रव्यार्थतो घटपटादिषु सर्वसिद्ध-मध्यक्षमेव हि तव स्थिरसिद्धिमूलम् / तच्च प्रमाणविधया तदिदन्त्वभेदा-भेदावगाहि नयतस्तदभेदशालि 22 त्वच्छासने स्फुरति यत् स्वरसादलीका-दाकारतश्च परतोऽनुगतं तु बाह्यम् आलम्बनं भवति सङ्कलनात्मकस्य, तत्तस्य न त्वतिविभिन्नपदार्थयोगात् तद्भिन्नतामनुभवस्मरणोद्भवत्वाद्, द्रव्यार्थिकाश्रयतयेन्द्रियजाद्विति / भेदे स्फुरत्यपि हि यद् घटयेदभिन्नं भेदं निमित्तमधिकृत्य तदेव मानम् दृष्टा सुधीभिरत एव घटेऽपि रक्ते श्यामाभिदाश्रयधियो भजना प्रमात्वे / सा निनिमित्तकतयाध्यवसाय एव, न स्यात् तदाश्रयणतस्तु तथा यथार्था स्वद्रव्यपर्ययगुणानुगता हि तत्ता, तद्व्यक्त्यभेदमपि तादृशमेव सूते / संसर्गभावमधिगच्छति स स्वरूपात्, सा वा स्वतः स्फुरति तत्पुनरन्यदेतत् पर्यायतो युगपदप्युपलब्धभेदं, किं न क्रमेऽपि हि तथेति विचारशाली। स्याद्वादमेव भवतः श्रयते स भेदा-भेदक्रमेण किमु न स्फुटयुक्तियुक्तम् तद्धेम कुण्डलतया विगतं यदुच्चै-रुत्पन्नमङ्गदतयाऽचलितं स्वभावात् लोका अपीदमर्नुभूतिपदं स्पृशन्तो न त्वां श्रयन्ति यदि तत्तदभाग्यमुग्रम् स्वद्रव्यतां यदधिकृत्य तदात्मभावं, गच्छत्यदः कथमहो परजात्यभिन्नम्। तात्पर्यभेदभजना भवदागमार्थः, स्याद्वादमुद्रितनिधिः सुलभो न चान्यैः सामान्यमेव तव देव तदूर्ध्वताख्यं, द्रव्यं वदन्त्यनुगतं क्रमिकक्षणौघे / एषैव तिर्यगपि दिग् बहुदेशयुक्त, नात्यन्तभिन्नमुभयं प्रतियोगिनस्तु॥३०॥ 21
Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322