Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 299
________________ एतावतैव हि परप्रकृतप्रसङ्ग-भङ्गेन सिद्ध्यति कथाश्रितपूर्वरूपम् / शिष्यैविधेयमुचितं विशदस्वभाव-प्रश्नोत्तरं तु तव देव ! नयप्रमाणैः८ स्याद्वादनाम्नि तव दिग्विजयप्रवृत्ते, सेनापतौ जिनपते ! नयसार्वभौम!। नश्यन्ति तर्कनिवहाः किमु नाम नेष्टा-पत्तिप्रभूतबलपत्तिपदप्रचारात् // 9 // जात्यन्तरेण मिलितेन विभो ! समर्थे, क्षेपो न युज्यत इति क्षणिकत्वसिद्धिः। जात्यन्तराननुभवादपि च प्रवृत्तिः, सामान्यतो हि घटते फलहेतुभावात् सङ्ग्राहकेतरविकल्पहतिश्च तत्र, व्यक्तौ विरोधगमने व्यवहारबाधः / व्यावृत्तयोऽप्यनुहरन्ति निजं स्वभाव-माकस्मिकव्यसनिता द्विषतां तवाहो आकस्मिकत्वमपि तस्य भयाय न स्यात्,स्याद्वांदमन्त्रमिह यस्तव बम्भणीति यत् साधनं यदपि बाधनमन्यदीयाः, कुर्वन्ति तत् तव पितुः पुरतः शिशुत्वम् एकत्र नापि करणाकरणे विरुद्धे, भिन्नं निमित्तमधिकृत्य विरोधभङ्गात् / एकान्तदान्तहृदयास्तु यथाप्रतिज्ञं, किञ्चिद्वदन्त्यसुपरीक्षितमत्वदीयाः // 13 // काले च दिश्यपि यदि स्वगुणैविरोधो,बाह्यो न कोऽपि हि तदा व्यवतिष्ठतेऽर्थः सौत्रान्तिको व्यवहरेत् कथमित्थमुच्चै-र्न त्वन्मतद्रुहमहो वृणुते जयश्री: तस्य त्वदागममृते शुचियोगयोगा-चारागमं प्रविंशतोऽपि न साध्यसिद्धिः तत्रापि हेतुफलभावमते प्रसङ्गा-भङ्गात्तदिष्टिविरहे स्थिरबाह्यसिद्धेः // 15 // देशे स्वभावनियमाद्यदि नापराधः, कालेऽपि मास्तु स निमित्तभिदानुचिन्त्या / तैस्तैर्नयैर्व्यवहतिर्यदनन्तधर्मक्रोडीकृतार्थविषया भवतो विचित्रा // 16 // यत् कारणं जनयतीह यदेकदा यत्, तत्सर्वदैव जनयेन्न किमेवमादि / प्राक्पक्षयोः कलितदोषगणेन जाति-व्यक्त्योनिरस्यमखिलं भवतो नयेन तस्यैव तेन हि समं सहकारिणा च, सम्बन्धतद्विरहसंघटनाविरोधः / ध्वस्तस्तवैव जिनराज ! नयप्रमाणै- स्यात् प्रभुः कथमपि क्षणिकत्वसिद्ध्यै 290

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322