Book Title: Shantinath Charitram Author(s): Hargovinddas Publisher: Jain Vividh Sahitya Shastramala View full book textPage 9
________________ [२] यथास्थानं विनिवेशितः, क्वापि क्वापि चैक एव पादो द्वित्रिर्वाऽऽवर्त्य भिन्नाभिन्नार्थभङ्गीकेषु श्लोकेषूपनिर्वद्धः । एवं च संपूर्णस्य प्रथमसर्गस्य पादपूर्त्तिमधिकृत्य षट्सु सर्गेषु विभज्य ग्रन्थमेन समाप्तिमनयद् ग्रन्थकारः । प्रतिश्लोकमिह समस्यारूपेणोपात्तस्य नैषधीयपादस्य भेदेनोपलक्षणाय लध्वक्षरेषु मुद्रणं विहितम् । यद्यपि समस्यापादानामेषामत्रत्यानां निर्णय सागरीय नैषधीयपुस्तकस्थानां च परस्परं कचित्पाठभेदोऽपि दृश्यते, यथा नैषधीये "दिगङ्गनाङ्गावरणं रणाङ्गणे' ( श्लो० १२ ), श्रत्र च "दिशां गणस्यावरणं रणाङ्गणे" (स० १, श्लो० ४८ ); एवं नैषधीये "कुतः परं - ( श्लो० २४ ) अत्र तु " श्रतः परं ' - (स० १, श्लो० ६६ ) इत्यादि, तथाप्यत्रत्यानां केषाञ्चिद् भिन्नपाठानामुल्लेखस्तत्र नैषधीयपुस्तके क्वचिट्टीकायां कुत्रचिच्च टिप्पण्यां पाठान्तररूपेण कृतो लोचनगोचरीभवति, यथा "न शारदः पार्वणशर्वरीश्वरः " (स० १, श्लो १ क्वचिच्च पादस्थानस्यापि व्यत्ययेन निबन्धोऽत्र विलोक्यते; यथा, नैषधीयस्य ( लो० ६१ ) द्वितीयपादोऽत्र (स० २ लो० ११९ ) तृतीय - पादरूपेण, नैषधीयस्य (झी० १०१) तृतीयपादोऽत्र (स० ४, श्लो० ३५ ) प्रथमपादात्मना, नैषधीयस्य ( लो० १०९ ) द्वितीय: पादोऽत्र ( स० ४, लो० ६६) तृतीयपादस्वरूपेण निबद्धः । २ दृश्यन्तां पृष्ठानि २९, ४०, १५३ । ३ क्वचित्समस्यापादरहितोऽपि लोको विलोक्यते, यथा स० २, लो० १०३ | 8 नैषधोयपुस्तके “न शारदः पार्विक शर्वरीश्वरः" (लो० २०) इति पार्वणशब्दस्य स्थाने पार्विक शब्दोऽपि, टीकायां तु सोऽपि निर्दिष्टः ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 190