Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 8
________________ प्रस्तावना । श्रस्य शान्तिनाथचरित्रनाम्नो ग्रन्थस्य प्रणेतारस्त एव महोपाध्यायश्री मेघविजयगण्यः येषां सत्ता समय-तत्तद्ग्रन्थविनिर्माणादिकं वृत्तान्तं तैरेव विरचितस्य, एतस्यामेव च जैनविविधसाहित्यशास्त्र मालायां तृतीयाङ्करूपेण प्राकाश्यमुपनीतस्य सप्तसंधान महाकाव्याभिधानस्य ग्रन्थस्य प्रस्तावनायामहं न्यरूपयम् इति पुनरत्र तदुल्लेख मक्कृत्वा प्रस्तुत ग्रन्थविषयमेव किञ्चिद् वक्तुमुचितमुत्पश्यामि । 1 " अस्मिन् ग्रन्थे महाकविश्रीहर्षप्रणीतस्य सुप्रसिद्धस्य नैषधीयमहाकाव्यस्य समस्यापूर्त्तिद्वारा भगवतः श्री शान्तिनाथस्य जन्मतः प्रभृति निर्वाणावसानं चरित्रं सुललिततया व्यावर्णितम् । अत एव प्रतिसर्ग प्रान्तभागे "इति श्रीनैषधीयमहाकाव्यसमस्यायाम्”" - इत्यादि वदता ग्रन्थकर्त्राऽस्य "नैषधीय समस्या" इत्यप्यभिधानं व्यधायि । मेघदूतादिसमस्याषामिव चात्र न केवल स्तत्रत्यो ऽन्त्यस्तदन्यो वैक एव पादः प्रतिश्लोकं गृहीतः, किन्तु तत्रत्यप्रत्येकश्लोकस्य चतुरोऽपि पादाननुक्रममादायाऽत्र प्रतिश्लोकमेकैकपादो १ केवलमत्र नैषधीयाष्टाविंशस्य लोकस्य चतुर्थपादस्य पूर्त्तिर्नोपलभ्यते, तत्र ग्रन्थकारस्य तदप्रणयनं वा, विशेषतो लेखकस्य प्रमादेन तत्यागं वा विहाय किमन्यत् कारणमभिधातुं शक्यते ? |

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 190