Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

Previous | Next

Page 525
________________ [ २६८ ] -[शद्धेश्वर महातीर्थजिनवरैर्गदितं सुजिनाऽऽगम, विपुलभङ्गसुसङ्गसमन्वितम् । विविधजीवदयारसबन्धुरं, सकललोकहितं प्रणमाम्यहम् ॥ ३॥ प्रभुपदाम्बुजभृङ्गसमोपमो निखिलविघ्नविघातनसोद्यमः । प्रवरशङ्खपुरीस्थजिनानुगः, स मम पार्श्वसुरोऽस्तु सुखप्रदः॥४॥ __ [१५२] श्रीशद्धेश्वरपार्श्वनाथस्तुतिनो वह्विोरुगेन्द्रा न च विषमविषं शाकिनी नातिचण्डा, नो मन्त्रा नैव तन्त्रा न च सकलरिपुर्विग्रहो नो पिशाचाः। नो व्याघ्रो नैव सिंहः प्रभवति पुरुषं व्याधिरेकोऽपि नो तं, श्रीमच्छङ्केश्वरस्थं भुवनपतिनतं यः स्मरेत् पार्श्वनाथम् ॥१॥ टीका-नो वह्निः हे जिन ! तं पुरुषं एकोऽपि व्याधिः न प्रभवतीति क्रियापदम् । कथंन? कः कर्ता?व्याधिः।कं कर्मतापन्नं पुरुषम्। किं विशिष्टं तं, तं कम्? यः श्रीमच्छङ्वेश्वरस्थं पार्श्वनाथं स्मरेत् । स्मरेदिति क्रियापदम् । कः कर्ता ? पुमान् । कथंभूतः सः ? कः यः प्रत्यहं स्मरेत् ? के कर्मतापन्नं पार्श्वनाथम् । कथं. भूतं, श्री मच्छलेश्वरस्थम्-श्रीरस्यास्तीति श्रीमान् , श्रीमाश्चासौ शङ्केश्वरश्च श्रीमच्छङ्केश्वरे तिष्ठतीति श्रीमच्छङ्वेश्वरस्थम् । भुवनपतिनतं पुरुषं वह्निरग्निन प्रभवति पुनस्तं पुरुषं उरगेन्द्रा नागाधिपाः च पुनः विषमविषं शाकिनी न अतिचण्डाः अति. रौद्रा मन्त्रा न नैव तन्त्राः च पुनः सकलरिपुर्विग्रहो न पिशाचा व्याघ्रोऽपि न, सिंहोऽपि न प्रभवतीत्यर्थः । 1 x પાટણની મુ. જયવિજયજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતારી.

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562