________________
[ २६८ ]
-[शद्धेश्वर महातीर्थजिनवरैर्गदितं सुजिनाऽऽगम, विपुलभङ्गसुसङ्गसमन्वितम् । विविधजीवदयारसबन्धुरं, सकललोकहितं प्रणमाम्यहम् ॥ ३॥ प्रभुपदाम्बुजभृङ्गसमोपमो निखिलविघ्नविघातनसोद्यमः । प्रवरशङ्खपुरीस्थजिनानुगः, स मम पार्श्वसुरोऽस्तु सुखप्रदः॥४॥
__ [१५२]
श्रीशद्धेश्वरपार्श्वनाथस्तुतिनो वह्विोरुगेन्द्रा न च विषमविषं शाकिनी नातिचण्डा, नो मन्त्रा नैव तन्त्रा न च सकलरिपुर्विग्रहो नो पिशाचाः। नो व्याघ्रो नैव सिंहः प्रभवति पुरुषं व्याधिरेकोऽपि नो तं, श्रीमच्छङ्केश्वरस्थं भुवनपतिनतं यः स्मरेत् पार्श्वनाथम् ॥१॥
टीका-नो वह्निः हे जिन ! तं पुरुषं एकोऽपि व्याधिः न प्रभवतीति क्रियापदम् । कथंन? कः कर्ता?व्याधिः।कं कर्मतापन्नं पुरुषम्। किं विशिष्टं तं, तं कम्? यः श्रीमच्छङ्वेश्वरस्थं पार्श्वनाथं स्मरेत् । स्मरेदिति क्रियापदम् । कः कर्ता ? पुमान् । कथंभूतः सः ? कः यः प्रत्यहं स्मरेत् ? के कर्मतापन्नं पार्श्वनाथम् । कथं. भूतं, श्री मच्छलेश्वरस्थम्-श्रीरस्यास्तीति श्रीमान् , श्रीमाश्चासौ शङ्केश्वरश्च श्रीमच्छङ्केश्वरे तिष्ठतीति श्रीमच्छङ्वेश्वरस्थम् । भुवनपतिनतं पुरुषं वह्निरग्निन प्रभवति पुनस्तं पुरुषं उरगेन्द्रा नागाधिपाः च पुनः विषमविषं शाकिनी न अतिचण्डाः अति. रौद्रा मन्त्रा न नैव तन्त्राः च पुनः सकलरिपुर्विग्रहो न पिशाचा व्याघ्रोऽपि न, सिंहोऽपि न प्रभवतीत्यर्थः । 1 x પાટણની મુ. જયવિજયજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતારી.