________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[२६७] कलौ सागरे मज्जतां यानपात्रं, घृणानर्थकशालिलावैकदात्रम् । कृपासागरं केवलज्ञानधार, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥४॥ जिनाधीशयोगीश्वरं योगधेयं, जितक्रोधकेलिं भवद्वान्तहेयम् । जरामृत्युसंतापपापापहारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥५॥ बृहद्रोगनीरागनागप्रजान्तं, भयं नो भविदेहिनां यत्प्रसादात् । तमाक्षिप्तदुष्टप्रधृष्टारिवारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥६॥ सुधास्वादसुस्वादवाक्यं सुवाक्यं,
'मिलदेकन्यासमहे(न्दैः ?)प्रगीतम् । जिनश्रीकुचालङ्कतोत्तारहारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥७॥ जिनानां जिनो ज्येष्ठसौख्यप्रदोऽयं,जगद्भूषणं नीलजीमृतछायम्। अनन्ताष्टकर्माद्रिषु वज्रधारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥८॥ इत्थं स्तुतो देव मयाष्टकेन ...... साम्राज्यलक्ष्मीविपुलं सुखं मे, श्रीपार्श्वनाथं सुखसागर!
संप्रदेहा ॥९॥ [१५१]
श्रीशद्धेश्वरपार्श्वजिनस्तुतिः* मदमहीधरदारणसत्पविं, मदनमत्तमतङ्गजसत्सृणिम् । रुचिरशंखपुरीभुवि नायकं, जिनवरं प्रणवीमि सुखप्रदम् ॥१॥ विमतिकर्दमशोषणभास्करा विविधविज्ञवितानसुसेविताः ।। कठिनकर्ममहीरुहसिन्धुरा जिनवरा विभवाय भवन्तु मे ॥२॥ ૧ સાતમા શ્લોકનું આ બીજું ચરણ અશુદ્ધ છે.
૨ આ ચરણ નથી મળતું. તેમજ આ આખા લોકો છંદ પણ બરાબર નથી લાગતો. . * पारगुनी भु. सवियना मानी तत उपरथी तारी.