________________
[ २६६ ]
-[शङ्ग्रेश्वर महातीर्थमुखश्रिया निर्जितचारुचन्द्रं, सद्भूषणाभूषितदिव्यदेहम् । प्रभावतीप्रेमरसैकनाथं, नमामि शद्वेश्वरपार्श्वनाथम् ॥४॥ अनेकदेशाऽऽगतयात्रिकाणां, मनोभिलाषं ददसे समक्षम् । गम्भीरताहारितसिन्धुनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥५॥ कल्पद्रुचिन्तामणिमुख्यभावा इच्छाफलं देहभृतां फलन्ति । यन्नामतस्तं श्रितनाकिनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥६॥ रोगा वियोगा रिपवो गरिष्ठाः, शोकाग्नितोकादिभवाः प्रयान्ति । नाशं यतः शान्ततयोडुनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥७॥ भावप्रभेणाभिहितं यदिदं, स्तुत्यष्टकं दुष्टविघातकारि। तत्वंसदाभिष्टदपार्श्वनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥८॥
[१५०] श्रीसुखसागरविरचित
श्रीशद्धेश्वरपार्श्वनाथाष्टकम् महानन्दकल्याणगेहं सुदेहं, लससिद्धिरामावरं साधुगेहम् । : अनन्तप्रभावं जितद्वेषमाशु, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥१॥ कृतारिष्टशान्तं गुणश्रीनिसान्तं,नितान्तं सदा चारुरम्याङ्गकान्तम् । दलत्क्लेशसंखेदने पार्श्वधारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥२॥ वरानेकवन्दार(रु)भूपालवन्धं, त्रिलोके जनानन्दने कल्पवृक्षम् । ज्वलन्मोहदावनले वारिधारं,स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥३॥
૧ અહીં વિમાના રિની લઘુમાવ્યા છે તેથી છેદભંગ થાય છે. * પાટણની મુ.જસવિજયજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતાર્યું.