Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 633
________________ RECURRENCES AND PARALLELS मुकुलस्य कपित्थेन वेटनानिषधो भवेत्। SR 209 मुकुलं तु यदा हस्तं कपित्थं परिवेष्टयेत् । VD 3-26-61 उपर्युपरिविन्यस्तौ यत्रान्योन्यमधोमुखौ ।। ऊर्वाङगुष्ठौ पताकाख्यौ करौ स मकरः स्मृतः ॥ स नकमकरादीनां कव्यादद्वीपिनामपि। सिंहादीनामभिनये नदीपूरस्य चेष्यते ॥ SR 212, 213 पताकौ तु यदा हस्तौ मूर्त (ऊर्ध्व) हस्तावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः । सिंहव्याघ्रमृगाद्यानां कर्तव्येऽभिनये भवेत् ॥ VD 3-26-64,65 इंसपक्षौ स्वस्तिकत्वं प्राप्तौ यदि पराङ्मुखौ। SR 214 यो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ । VD 3.26.68 पुरोमुखौ समस्कन्धकूपरौ खटकामुखौ । स्थितौ वक्ष:पुरोदेशे वक्षसोऽष्टालान्तरे । चतुरश्राविति प्रोकौ गाद्याकर्षणे करौ। SR 216, 217 वक्षसोऽष्टालस्थौ तु प्राङ्मुखौ खटकामुखौ। समानकूर्परांसौ तु चतुरौ प्रकीर्तितौ । VD3.26-71 प्रसारितोत्तानतलावुच्येते रेचितौ करौ । अथवा रेचितौ प्रोक्तो हंसपक्षौ द्रुतभ्रमौ। SR 235 रेचितौ चापि विज्ञेयो हंसपक्षौ द्वतश्रमौ । प्रसारितोत्तानतलो रेचितावेव संज्ञितौ ॥ VD 3-26-77 नतोन्नती पद्मकोशौ शिथिलौ मणिबन्धयोः । SR 241 मणिबन्धननिर्मुक्तौ शिथिलौ पल्लवौ स्मृतौ । VD3-26-80 पताको डोलितौ तिर्यप्रसृतौ तौ लताकरौ । अनयोः करयोः केशबन्धयोश्च नितम्बयोः । त्रिपताकाकृति केचिदाचार्याः प्रतिजानते । SR 246, 247 तिर्यप्रसारितावेव पार्श्वसंस्थौ तथैव च । लताख्यौ तु करौ ज्ञेयौ मृत्ताभिनयनं प्रति । VD 3.26-82 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642