Book Title: Samvayang Sutram Author(s): Punyakiritivijay Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust View full book textPage 9
________________ सम्पादकीयम् |श्रीसमवाया श्रीअभय० वृत्तियुतम् | // 7 // ॥सम्पादकीयम्॥ ___ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्य-2 देवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। सम् +अव +अय = सम्यक् आधिक्येन अयनमिति समवायः / जीवाजीवादिपदार्थसार्थस्य परिच्छेदो यस्मिन्नसौ समवायः। एकादियावच्छतादिपदार्थसार्थस्य परिच्छेदो अस्मिन् चतुर्थाङ्गेप्ररूपितः / पदार्थानांप्रकटीकरणे विविधा भङ्गाः सन्ति, सङ्ख्यया पदार्थानां प्रकटीकरणे स्मृतिकरणे स्थिरीकरणे च इयंरीतिः सुकरा भवति / पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठाः टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति। श्रीमद्भगवदभयदेवसूरिणावृत्तिकृता इमांसुकरांरीतिं कृत्वा भव्यजीवेषु महानुपकारोकृतः। एकस्य जीवस्य प्ररूपणायां कियन्तः। भेदाः प्रवर्तन्ते तन्नवतत्त्वे प्ररूपितं यथा- 'एगविह दुविह तिविहा' तथाऽत्रापिएकस्यांसंख्यायां कियन्तः पदार्थाः समवतरन्तीति निदर्शितम्। पदार्थबोधरूपसम्यग्ज्ञानेन विरतिं प्रति समवायनं स्यादेवं भव्यजीवाः समवायाङ्गं पठित्वा मोक्षं प्रति समवायनं कुर्युः। मुनिपुण्यकीर्तिविजयोगणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर,मुबई-४००००६. विक्रम सं०२०६३वीर सं०२५३३Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 300