Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 7
________________ नमः परमदेवतायै भूमिका अद्यापि तावदपगतहर्षे भारतवर्षे निरन्तरमनादरणीय संस्कृतशास्त्रे विशेषतो न्यायशास्त्रे नवीनन्यायशास्त्रे वा विगतश्रद्धानामाधुनिकलोकानामन्तिके सुप्रकाशीकृतं नव्यन्यायसामान्यनिरुक्तिग्रन्थस्य महामहोपाध्याय पण्डितप्रवरश्रीमद्गदावरभट्टाचार्योताभिनवव्याख्याया: सविस्तरं चन्द्रकला कलाविलासनामकं टीकाद्वयं सर्वसाधारण गम्यमतिसरलं स्वामिप्रवरातुलनगुणगणभूषण इरिनामदासविरचितंविलोकयता मया सानन्दं सर्वथा वक्तु ं शक्यते - धन्यैव सा विपुल भारतवर्ष भूमि, यंत्र प्रभूतयशसां महतां जनिश्रीः सर्वविदितामरकीर्त्तयस्ते संलेभिरे स्वजननं हरिनामदासाः । इति तत्र लभमानजन्मानो वयमवश्यमेव धन्या इत्यपि वक्तु ं शक्यते । तस्मादस्माकं भाग्यवशादनन्तदुर्गतिं सहमानाऽपि सेयं भारतभूमिरधुनाऽपि स्वपुरातनरत्नीभूर्यादां न जहातीति तां सादरं सभक्तिकञ्च प्रणम्य पुनः पुनस्तावदेव गीयते, विजयतां विजयतामस्माकं भारतवर्ष इति । एतेषां महात्मनां स्वामिप्रवराणां परिचयस्त्व प्रदास्यते । साम्प्रतं नव्यन्यायशास्त्रस्याध्ययनप्रयोजन निदानप्रतिपादनावसर इदमपि किञ्चिद्वक्तव्यं नाप्रसक्तं मन्यते —ये न्यायामृतरसास्वादविधुरान्तराः किञ्चिदाघातशास्त्रान्तरगन्धाः केवलमांग्लोपासनाब लावलेपा नवनीतिनवनीतमपि निस्सारं वर्तमानानुपयोगं च संगिरन्ते; तेऽवश्यं प्रतिबोधनीया इति । विदितमस्तु तेषां यद्वाराणसेयाः पुरातनपण्डितवरेण्याः वैयाकरणाः शास्त्रान्तराभिज्ञाश्चान्यदेशीयाः समधिकविद्याविनयसम्पन्नाः प्राधान्यं संदधाना विद्वांसः समधिगतनव्यन्यायशास्त्रतत्त्वनिवहा एव विश्वविसारिकीर्तयः समासन् । इदानीमपि शास्त्रान्तरकान्तारक्लेशानल सन्तापप्रशमन साधनमनुसन्दधाना व्यन्यायैकान्तशीतल जलधिमेवानुधावन्तो दृश्यन्ते । न ह्यनुदितेऽनल्पकल्पनामरीचिमालिनि भगवति नव्यन्याये कदाचिदपि कस्यचिन्मनस्त्रिमनुजमानससरसि वैदुष्यकमलिनी विहसति । " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 308