Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 9
________________ ( ख ) कारः सम्पादितः । इमे तावत् मिथिलाप्रान्तीयमंगलौनीनामकग्रामे गृहीतजन्मानः समासन् । त्रयोदशशताब्द्यामेवैभिश्चिन्तामणिनामकग्रन्यरचनया नव्यनैयायिकसम्प्रदायप्रवर्तनं कृतमिति तत्पौत्रयज्ञपत्युपाध्यायस्य चतुर्दशशताब्दीपर्यन्तस्थायित्वं विज्ञायास्माभिरवघारितम् । एतेषां गौड़देशीयत्वप्रवादो मया तर्कमाथुरीविवृतिभूमिकायां समुपन्यस्तो नेह वितन्यते । निरुक्तचिन्तामणिग्रन्थस्य पक्षधरमिश्रकृतालोकनामिका टोका वासुदेवसार्वभौमकृता परोक्षानामिका च टीका, एवमन्यान्यमहानैयायिकविरचितापि पूर्व बहुविधा टीका समासीत् । सा सा टीका तु भारतवर्षे समुदिते तदानीन्तनसर्वप्रधानपण्डितप्रवररघुनायशिरोमणिविरचिते चिन्तामणिदीधितिनामकटीकाग्रन्थे प्रबलप्रचण्डझंझावात प्रवहति सति सह मेघैः सौदामिनीव पक्षधरमिश्रादिभिः सहैव विलुप्सेदानी दृश्यते । तैरेव दीविकृद्भिः "न्यायमधीते सर्वस्तनुते कुतुकान्निबन्धमप्यत्र । अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते सुधियः॥ विदुषां निवहैरिहैकमत्या यददुष्टं निरटति यच्च दुष्ट । मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुतां तदन्यथैव ॥" इति वक्तुं पार्यते । दीधिकारा भारतविदितनवद्वीप गंगातटनिकटे गृहीतजन्मानः। तत्रैव मात्रा साकं विराजन्ते स्म । एष तु प्रवादः समूल इव लक्ष्यते यदेकदा बाल्यावस्थो रघुनाथो मात्राज्ञप्तः-"रघुनाथ ! पण्डितप्रवरघासुदेवसार्वभौमस्य पाठशालातः पाकार्थमग्निः समानीयतामिति ।" मातुराज्ञां शिरसि कृत्वा रिक्तपागिरेव रघुनायबालोऽग्निमानेतु तत्र गतः तत्रत्याश्छात्रानग्निमयाचीद-"दोयतां स्तोकं भो भ्रातरोऽग्निः ।" ते छात्रा रिक्तहस्तं तमालोक्य च कथितवन्तः सहसागृह्यतां-गृह्यतां भो ! अग्निरेषः।" तच्छ्रुत्वा सद्यःप्रतिभशिरोमणिझटिति धूलिभरितकरपुटं कृत्वा वक्ति स्म" दोयतां मे हस्ते हुताशनः ।” महानैयायिको वासुदेवसार्वभौमो बालकं तमप्रतिमप्रतिभं निश्चित्य तत एव दिवसात् समाध्यापयितुमारेभे। सार्वभौमादधीत्य न्यायं सर्वं स बालो मैथिलं कञ्चन महाभटमप्रतिपदं पक्षधरमिश्र शुश्राव । निपुणतरं न्यायमधिगन्तुं मिश्रान्मिथिलां ययौ । तत्राकर्णितमनेन सरस्वत्याः प्रधानः पुत्र एष मिश्र इति । तद्गृहे गत्वावलोकितम्-प्रथमे नारेऽष्टौ प्रकाण्डपण्डिता, द्वितीये पञ्च, तृतीये त्रयो नियुक्ता आसन् । तान "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 308