Book Title: Samanyanirukti Chandrakala kalavilas Tika Author(s): Vamacharan Bhattacharya Publisher: Sadhubela Ashram Bhadaini View full book textPage 8
________________ यद्यपि चिन्तामणिकृत्पूर्ववर्तिनस्तावदनेके महान्त एव विपश्चित उदयनाचार्यप्रभृतयोऽनधीतनव्यन्यायशास्त्रा विलक्षणानपूर्वग्रन्थनिचयान् विरचितवन्तो विराजन्ते, स्म, येषामतुलनीयग्रन्थावगतिसुषमाऽद्यापि मेधावृतेव विलोक्यते । तथापि तेषां सर्वेषामेव गौतमीय न्यायशास्त्राभिज्ञतैव तादृशानुपमशास्त्रनिर्माणप्रयोजिका । इयं नूतननीतितत्वसन्ततिकौमुदी न केवलं शास्त्रान्तराज्ञानदरतिमिर मात्रमतिघोरमपहरति, अपि तु समस्तजनताभिमतमुक्तिकुमुदिनीविकासोपयोगितामप्यावहतीति सन्तस्तत्र प्रवर्तन्ते । महामुनिगौतमतन्त्रस्य प्रथमसूत्रेण न्यायपदार्थतत्त्वज्ञानानामपवर्गप्रयोजकताया निर्णीततया तादृशन्यायपदार्थप्रतिपादकस्य नव्यन्यायशास्त्रस्यापि मोक्षक्षमता अवश्यं सम्भवति,? तर्कविद्यामात्रस्यान्वीक्षिकीशब्दवाच्यतायाः कोषकारादिसम्मतत्वेऽपि वेदप्रामाण्यमूलिकाया एव तर्कविद्याया मुक्तिप्रयुक्तिकत्वस्य सर्वसम्मतत्वाद् , आन्वीक्षिकीत्वमात्रस्य मोक्षोपयोगिताप्रयोजकत्वानभ्युपगमाच्च । रामायणेऽयोध्याकाण्डे जावालिमुनिना प्रथमतो नास्तिकतर्कविद्यामधिकृत्यैव श्रीरामचन्द्रैः सह शास्त्रार्थों विहितस्तदनन्तरं श्रीरामचन्द्रनास्तिकविद्याया एव निन्दा कृता न तु समस्तपूज्याया भगवत्या गौतमीयतर्कविद्यायाः, न वा तैः गौतमोयतकविद्यामधीयानाः कथमप्यभिशप्ताः। सुतरामधोत्य गौतमी विद्यामित्यादिवचनममूलमेव, तस्य समूलत्वेऽपि सर्वथाऽनिश्चितवक्त कतयाऽनातोक्ततया चाप्रमाएत्वादस्माभिस्तद्वचनमश्रद्धयमेव । न्यायशब्दार्थस्तु परार्थानुमानं प्रतिज्ञादिपञ्चवाक्यसमुदायो वा तत्प्रतिपादकं शास्त्रं न्यायशास्त्रम् तस्य सर्वशास्त्रकारणीभूतसर्वज्ञ. परमेश्वरोत्पन्नत्वमपि सुबालोपनिषदि द्वितीयखण्डे न्यायो मीमांसा धर्मशास्त्राणीत्यादिना प्रमाणीकृतमिति दृश्यते । भाष्यकृता धात्स्यायनेनापि प्रदीपः सर्वविद्याना. मित्यादिना न्यायशास्त्रस्यैव सर्वशास्त्रतः प्राधान्यं निरूपितम् । तस्मादनुमानप्रमाणरूपयुक्तथा मननमेवान्वीक्षा तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रमिति व्याख्या तस्य तर्कविद्यात्वेऽपि मननस्य मोक्षोपयोगितया अध्यात्मशास्त्रत्वात् सप्रयोजनकत्वं निर्विवादम् । अत एवाद्वैतवादिभिः सर्वप्रधानकविभिः श्रोह(रपि नैषधचरितकाव्ये दशमसर्गे "उद्देशपर्नण्यथलक्षणेऽपि द्विधोदितैः षोडशभिः पदाथै" रित्यादि श्लोकतो मुक्ति प्रार्थयतां न्यायविद्याया एवातुलनीयसहायता वर्णितेति न्यायशास्त्रस्य नवीनन्यायशास्त्रस्य च प्रेक्षावत् प्रवृत्यङ्गत्वं निराबाधं निश्चीयते । तदिदं नव्यन्यायशास्त्रं गौतमीयन्यायशास्त्रप्रतिपाद्यपदार्थप्रतिपादकतया सर्वशास्त्रोपकारकतया च सर्वजनसमादृतं श्रीमद्भिर्महामहोपाध्यायः पण्डितप्रवरैः गंगेशोपाध्यायैरेव विरचितमेतैस्तु नव्यन्यायशास्त्रात्मकचिन्तामणिनामकग्रन्थं निर्माय भारतवर्षस्य महानेवोप "Aho Shrutgyanam"Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 308