Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 11
________________ ( घ ) सार्वभौमस्य सद्वचः" इति लिखितवन्तः। तेन सार्वभौमादयः प्राञ्चो दीधितिटीकारचितवन्तः पण्डितप्रवरा अनुमेया इति वक्त शक्यतेऽस्माभिः । श्रीमन्तो रघुनाथशिरोमणिमहाशयाः स्मृतिशास्त्रविषयेऽपि "मलिम्लुचविवेकनामकमेकं ग्रन्थं निर्मितवन्तः । तद्दर्शनेन दीधिकृतां व्यापकं पाण्डित्यं व्यज्यते । एतेषां दीधितिनिर्माणसमयस्तु पक्षधरमिश्राणां पञ्चदशशताब्दीस्थायितया तस्याः शताब्द्या अन्तिमो भागः । मिश्रेःस्वके ग्रन्थे लिखितम् - बाणैर्वेदयुतैः सशम्भुनयनैः संख्यां गते हायने । श्रीमद्गौड़महीभुजो गुरुदिने मार्गे च पक्षे सिते ॥ षष्ठयां ताममरावतीमधिवसन् यो भूमिदेवालयः। श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखि द्रुतम् ॥ इत्यनेन लक्ष्मणसम्वत्सरम् ३४५ इति मिश्रसमयो ज्ञायते । रघुनाथशिरोमणेर्दीधिति टोकायाः प्रसिद्धटीकाकृतस्तु पूर्व रामकृष्णभट्टाचार्याः ततो मथुरानायतकवागीशः श्रीरामचन्द्रतर्कालङ्कारो मधुसूदनवाचस्पतिः भवानन्दतकंवागीश इत्यादयः। ततो रघुनायशिरोमणितो द्विशतवर्षानन्तरं जगदीशतकालंकारोऽपि दीधितिव्याख्याकारः। परन्तु गदाधरभट्टाचार्यस्य श्रीमतः पण्डित. प्रवरस्य गादाघरीति नामविख्याता टोकैव विशेषत: सर्वेरादरणीया दृश्यते । दाक्षिणात्ये तु केवला गादाधरीटीकैव अधुनापि प्रचलितास्ति । गदाधरभट्टाचार्या एव नव्यन्यायस्य चरमावतारा इत्येवं दाक्षिणात्यैरभिधीयते । दाक्षिणात्यातिरिक्तदेशे जागदीशी टीकापि प्रचलिता वर्तते । गदाधरवंशधरगणकानां गृहे लिखितमस्ति यत् १००६ इतिसंख्याके वंगाब्दे तेषां जन्म, एवं १११० इति संख्याके वंगाब्दे तेषां देहावसानं जातं, तेन तेषां टीकालेखसमयः सार्द्धद्विशतवर्षसमय इत्यस्माभिवक्तुं शक्यते । एते गदाधरभट्टाचार्यमहोदया अपि तदानीन्तनसर्वप्रधानपण्डिता एव श्रासन् । तेषां सामान्य. निरुक्तिप्रभृतिचिन्तामणिदीधितिव्याख्यामवलोक्यानुमातुं शक्यते यत् तदानी तादृशविशिष्टपाण्डित्यं कस्यापि नासीदिति । नव्यन्यायस्य प्राधान्यं तैरेव व्यवस्थापितं, येषां टीकामधीत्याद्यापि भारतवर्षे विख्यातकीर्तय एव पण्डिता माननीया विराजन्ते इमे तु विशेषदीर्घजीविनः, सप्तदशशताब्धाः पश्चादपि किञ्चिद् दिनमेतेषां स्थितिरासीत् । एतेभ्यः कृष्णनगराधिपतिर्महाराजराघवः १६६१ इतीशवीये प्रभूतां भूमि दत्तवान् । एकस्मिन् दिवसे भट्टाचार्याणां तिन्तिलीपत्रसंग्रहं दृष्ट्वा राजा राघवेण पृष्टम् । अनेन पत्रभारेण भवतां किं भविष्यति ? तच्छ्रुत्वा भट्टाचारभिहितम् । अनेन "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 308