Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 18
________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् । * चन्द्रकला प्रतिपाद्ये दुष्टहेतुस्वरूपे स्वरूपसम्बन्धेनान्वयः । तथाच अवयवग्रन्थध्वंसकालीनो यो मत्समवेत कृतिजन्य स्तत्वनिर्णय विजयप्रयोजकत्वप्रकारकज्ञानजन्य जिज्ञासाघोनः ज्ञानानुकूलव्यापारस्तद्विषयतावन्तो दुष्टहेतव इत्यन्वयबोधः पर्यवसितः । यद्यपि ज्ञानेच्छादेरेव सविषयकतया ज्ञानानुकूलव्यापारस शब्दात्मकत्वात्तद्विषयत्वाऽप्रसिया कर्मविहिताख्यातार्थस्य विषयतात्मकत्वाभिधानमयुक्तमित्युच्यते, तथापि याचितमण्डनन्यायेन ज्ञानविषयत्वमादायैव व्यापारस्य सविषयकत्वमिति प्राचीन सिद्धान्तमभिप्रेत्यैव व्यापारविषयताया हेत्वाभासशब्दार्थेऽन्वय इति मन्तव्यमधिकमन्यत्रानुसन्धेयम् । नच शिष्टाचारपरिप्राप्तमंगलस्य ग्रन्थादावदर्शनेन ग्रन्थकर्तुरशिष्टत्वापत्तिरिति साम्प्रतम् ? शंखध्वनेरिवाथशब्दोच्चारणस्यापि मांगलिकत्वात् "ओंकारश्चाथशब्दश्व द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन मांगलिकावुभावि "तिस्मरणात् । केचित्तु प्रत्यक्ष ग्रन्थकृता कृवस्त्र संगलस्य दर्शनात्, तेनैव समस्तचिन्तामणिग्रन्यपरिसमाप्तिसम्भवे अन्तरा मंगलान्तराभावेऽपि न क्षतिरित्याहुः । तावेतावतेत्यादि । एतावत्पदोत्तरं तृतीयार्थः प्रबन्धपदार्थावयवप्रमथाFast अभेदः, प्रबन्धपदोत्तरं तृतीयाथोऽप्यभेदः, तस्य विरूष्येत्यत्र निपूर्वकरूपधात्वर्थीभूते ज्ञानानुकूलव्यापारेऽन्वयः । सपरिकरम् = व्याप्तिपक्षधर्मताविशिष्टम् । अभेदो हेतुपदार्थान्वयी द्वितीयार्थः । हेतुपदोत्तरं द्वितीयार्थस्तु विषयत्वं विषयित्वं वा, तस्यच निरूयेत्यत्रेव ज्ञानानुकूलव्यापाररूपधात्वर्थैकदेशे ज्ञानेऽन्वयः । निरूपयेत्यत्र स्यबर्थो ध्वंसकालीतव्यं, अन्त्रयश्चास्य तदाभासनिरूपणशब्दार्थ दुष्टहेतुविषयक ज्ञानानुकूलव्यापारे । तत्प्रसंगात = सपरिकर हे तुनिरूपितप्रसंगसंगतेः । तत्त्वेति = तत्त्वनिर्णय विजयरूपं यत् सपरिकर हेतु प्रयोज्यकार्यम्, तत्कारित्वाच्चेत्यर्थः । उभयत्र पचम्यर्थस्तदाभासनिरूपणशब्दार्थान्त्रयि ज्ञानजन्यजिज्ञासाधीनत्वम् । तदाभासनिरूपणशब्दोत्तरं द्वितीयार्थी विषयत्वं विषयित्वं वा, तस्य चाव्यवहितोत्तरकालकर्त्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलव्यापारात्मक प्रतिपूर्वक ज्ञाधात्वर्थप्रतिशैकदेशे बोधेन्ययः । निरुक्तप्रतिज्ञायाश्चाख्यातार्थकृतावनुकूलत्वसम्बन्धेनान्वयः । तथाच एतावदभिन्नप्रबन्धामिनं यत्सपरिकर हेतुविषयकज्ञानानुकूलव्यापारात्मकं विरूपणं तद्ध्वंसकालीन यः सङ्केतनिरूपितप्रसंगसङ्गतिज्ञानजन्यजिज्ञासाधीनस्तत्वतिणयविजयरूपतत्कार्यकारित्वसंगतिज्ञानजन्यजिज्ञासावीनो दुष्टहेतु विषयक ज्ञानानुकूलव्यापारस्तद्विषयकाव्य वहितोत्तरकालकर्तव्यत्वप्रकारक शिष्य समयेतबोधानुकूलव्यापारानुकूलकृतिमान् मूलकार इत्यन्वयबोध इति भावः । " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 308