Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 14
________________ स्याभिनवः पन्था जगति प्रशंसनीयोऽपि जगदीशतर्काल कारेणाभिप्रायान्तरमभ्युपेत्य तादृशनिवेशस्तावदुपेक्षित एव । ततो विशिष्टान्तराऽघटितत्वकल्पेऽपूर्व न च चतुष्टयप्रदर्शनपूर्वकं स्वसजातीयविशिष्टान्तराऽवटितत्वमभ्युपगच्छतां मतं दूषितम् । तदनन्तरमत्रवदन्तिकल्पपरित्यागबीजं प्रदर्श्य परे वित्यादिना नवीनरीत्याऽत्रवदन्तिकल्पोक्तं . दूषणं निराकृतम् । ततो याहंशपक्षसाध्य केल्यादिलक्षणस्य साधुव्याख्यानमाख्याय दशाविशेष इत्यादिमूलदीधितिर्मतान्तरापेक्षया सर्वथा समीचीनेति समर्थितम् । हरिनामदासस्वामिप्रवरेण प्रतिपदव्यावृत्ति प्रदश्य सरला गादाधरीव्याख्यारूपा चन्द्रकलानामिका सर्वसाधारणबोधगम्यका टोका विरचिता, कलाविलासनामकटीकाप्रतिपाद्यविषयाः पूर्वतः प्रचलिता श्रपि नवीनसरलभाषया नवकल्पनया प्रकाशिताः । सा द्वितीयाऽपि टीका सर्वेषां समादरणीया भविष्यतीत्यत्र नास्ति सन्देह इति घक्त शक्यते । विशेषतः कलाविलासनामिकायां टीकायां परीक्षार्थिपरमजिज्ञास्यविषयाणां सुनिपुणतया निरूपणमस्ति । निरुक्तया टीकया सर्वेषां विशेषतः परीक्षार्थिनां विद्यार्थिनां महानुपकारो भविष्यति । चन्द्रकलाऽपि चन्द्रकलेव न्यायाज्ञानान्धकारं समूलं नाशयतीति मन्ये । दृश्यते तावञ्चन्द्रकलाटीका सर्वेषामेवोपकाराय प्रमवतीति । न केवलं सम्भाव्यते निश्चितमेवैतद् यनिरुक्तटोकाद्वयमेव अतिदुरूहस्यापि सामान्यनिरुक्तिग्रन्यस्यास्य बोधगम्यतां सम्पादयिष्यतीत्यास्तां विस्तरः ।। माता मे चरणप्रान्ते, यस्य नत्वान्तिमे दिने । मुक्तिं प्राप सतापाय नमस्तस्मै यशस्विने ॥ धर्मशास्त्रमहाशस्रधर्माज्ञाननाशिने । मात्रा सह तया पित्र शशिभूषणशर्मणे ॥ ततः श्रीगुरवे तस्मै भारतख्यातकीर्तये । वामाचरणधीराय नमो . न्यायकचक्षुषे ।। बाणाधिनागविधुमानमिते शकादे, कृष्णाश्विनप्रतिपदीन्द्रगुरोर्दिने च । वाराणसी प्रतिवसन्नयभूमिकां स, धीरस्तनोतिविमलामधिसाधुटीकाम् ।। श्रीवामाचरणभट्टाचार्यः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 308