________________
स्याभिनवः पन्था जगति प्रशंसनीयोऽपि जगदीशतर्काल कारेणाभिप्रायान्तरमभ्युपेत्य तादृशनिवेशस्तावदुपेक्षित एव । ततो विशिष्टान्तराऽघटितत्वकल्पेऽपूर्व न च चतुष्टयप्रदर्शनपूर्वकं स्वसजातीयविशिष्टान्तराऽवटितत्वमभ्युपगच्छतां मतं दूषितम् । तदनन्तरमत्रवदन्तिकल्पपरित्यागबीजं प्रदर्श्य परे वित्यादिना नवीनरीत्याऽत्रवदन्तिकल्पोक्तं . दूषणं निराकृतम् । ततो याहंशपक्षसाध्य केल्यादिलक्षणस्य साधुव्याख्यानमाख्याय दशाविशेष इत्यादिमूलदीधितिर्मतान्तरापेक्षया सर्वथा समीचीनेति समर्थितम् । हरिनामदासस्वामिप्रवरेण प्रतिपदव्यावृत्ति प्रदश्य सरला गादाधरीव्याख्यारूपा चन्द्रकलानामिका सर्वसाधारणबोधगम्यका टोका विरचिता, कलाविलासनामकटीकाप्रतिपाद्यविषयाः पूर्वतः प्रचलिता श्रपि नवीनसरलभाषया नवकल्पनया प्रकाशिताः । सा द्वितीयाऽपि टीका सर्वेषां समादरणीया भविष्यतीत्यत्र नास्ति सन्देह इति घक्त शक्यते । विशेषतः कलाविलासनामिकायां टीकायां परीक्षार्थिपरमजिज्ञास्यविषयाणां सुनिपुणतया निरूपणमस्ति । निरुक्तया टीकया सर्वेषां विशेषतः परीक्षार्थिनां विद्यार्थिनां महानुपकारो भविष्यति । चन्द्रकलाऽपि चन्द्रकलेव न्यायाज्ञानान्धकारं समूलं नाशयतीति मन्ये । दृश्यते तावञ्चन्द्रकलाटीका सर्वेषामेवोपकाराय प्रमवतीति । न केवलं सम्भाव्यते निश्चितमेवैतद् यनिरुक्तटोकाद्वयमेव अतिदुरूहस्यापि सामान्यनिरुक्तिग्रन्यस्यास्य बोधगम्यतां सम्पादयिष्यतीत्यास्तां विस्तरः ।।
माता मे चरणप्रान्ते, यस्य नत्वान्तिमे दिने । मुक्तिं प्राप सतापाय नमस्तस्मै यशस्विने ॥ धर्मशास्त्रमहाशस्रधर्माज्ञाननाशिने । मात्रा सह तया पित्र शशिभूषणशर्मणे ॥ ततः श्रीगुरवे तस्मै भारतख्यातकीर्तये । वामाचरणधीराय नमो . न्यायकचक्षुषे ।।
बाणाधिनागविधुमानमिते शकादे, कृष्णाश्विनप्रतिपदीन्द्रगुरोर्दिने च । वाराणसी प्रतिवसन्नयभूमिकां स, धीरस्तनोतिविमलामधिसाधुटीकाम् ।।
श्रीवामाचरणभट्टाचार्यः
"Aho Shrutgyanam"