________________
( च ) हन्तेदानीमस्माकं दुःखकारणं यदसौ स्वामिप्रवरो जगतीतले नास्ति । किन्तु स्वर्गमलंकृतवानिति । अनेन श्रीमता हरिनामदासस्वामिप्रवरेण सह प्रयागतो) कुम्भावसरे मम प्रथमपरिचयो जातः ततो वाराणस्यामस्य पाण्डित्यमतुलनीयं न वेति टोकाद्वयमवलोकयतामेव विदुषां वेदितव्यं भविष्यतीति । तत्र नाधिकमस्माकं वक्तव्यमस्ति । १९३७ संख्यके वैक्रमसम्बत्सरे पौषकृष्णदशम्यां टीकाद्वयकर्ता सिन्धुप्रान्तीयसक्खरनगरे लब्धजनिः । २००६ संख्यके तु संम्बत्सरे मंगलवासरे पौषकृष्णाष्टम्यां ब्रह्मतामवापेति विज्ञायते ।
सामान्यनिरुक्तिग्रन्थस्य संक्षिप्त विवरणं तावनिम्नलिखितमुपन्यस्यते । प्रथमतो मूलकृता हेतुवदाभासन्ते ये ते हेत्वाभासा इतिव्युत्पत्तिमवलम्ब्य हेत्वाभासशब्दस्य दुष्टहेत्वर्थकतां स्वीकृत्य के हेत्वाभासा इति शिष्य जिज्ञासानिवर्तनतात्पर्यकं साध्यज्ञाने प्रमात्वनिश्चयरूपतत्वनिर्णयप्रयोजकतया परकीयहेतो. दुष्टत्वोद्भावनेन स्वस्यापि विजयो भवतीति विजयप्रयोजकतया च हेत्वाभास. निरूपणं प्रतिज्ञातम् । ततो दोषलक्षणं विना दुष्ट लक्षणस्यासम्भवाद् दोषाणां लक्षणत्रयमिदमभिहितम् । तदनन्तरं दशाविशेषे इत्यादिग्रन्थेन जरन्नैयायिकमतसिद्धं हेतौ सत्प्रतिपक्षितत्वादिव्यवहारविषयत्वं कथंचिनिरुच्य ते च सव्यभिचारेत्यादि. ग्रन्थेन हेत्वाभासानां विभागोऽभिहितः ।
दीधितिकृता च हेत्वाभासनिरूपण प्रयोजनप्रदर्शनपूर्वकं दोषलक्षणाभिधानकारणप्रदर्शनपूर्वकञ्च लक्षणघटकप्रत्येकपदार्थव्याख्यानमाख्याय प्रथमलक्षणप्रतिपदव्यावृत्तीरभिधाय प्रथमलक्षणपरित्यागबीजमभिहितम् । ततो द्वितीयलक्षणे मेयत्त्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणायाभिनवप्रतिभया विशिष्टान्तराऽवटितत्वं लक्षणघटकयदूपविशेषणमभिहितम् । तदनन्तरं समुदितलक्षणे दोषमभिधाय स्वयमेवात्र वदन्तीत्यादिना हेत्वाभाससामान्यलक्षणं निरूपितम्। ततो हेत्वाभासलक्षणानां पक्षधरमिश्रादिसम्मतव्याख्यानं बहु दूषितम् । तदनन्तरं दशाविशेषे, इत्यादि मूल ग्रन्थो नूतनरीत्या व्याख्यातः ।
गदाधरभट्टाचार्येण तु प्रतिपदव्यावृत्तिप्रदर्शनपूर्वकं दीधिति व्याख्याय दोधितिकारव्याख्यातलक्षणे दोषं प्रदर्श्य स्वयमव्यापकोभूतविषयिताशून्यत्वं लक्षणघटकनिश्चये विशिष्टद्वयाघटितत्वञ्च तादृशे यद्रूपे निवेशितम् । तादृशनिवेशमालम्ब्यैव गोलोकोनामिका पत्रिका प्रसिद्धा वर्तते । मिथिलायामपि विशिष्ट. द्वयाघटितत्वनिवेशस्य प्राधान्यं निश्चित्य प्रायशो मैथिलमहानैयायिकास्तनिवेशविशेष एव महान्तं परिश्रमं कृतवन्त इति श्रूयते । निरुक्तनिवेशद्वये भट्टाचार्य
"Aho Shrutgyanam"