________________
पत्रभारमात्रेणेवास्माकं भोजनं सम्पद्यते, सुतरामेतेषां संग्रहोऽस्माभिः क्रियते । तदनन्तरमेव श्रुतवता तेन राज्ञा यया भट्टाचार्याणां भोजनचिन्ता कथमपि न भवेदिति तथैव तेन कृतभूमिदानेन विहितमिति प्रवादोऽपि वर्तते ।
भट्टाचार्यस्तु अन्यान्यीकाकारापेक्ष्या नवीनप्रतिभया सामान्यनिरुक्तिदोधितिटीकाया व्याख्या विरचिता । चिन्तामणिग्रन्थान्तरेऽपि एताहशी व्याख्या कैरपि नावलोकिता । ग्रन्थेऽस्मिन् अव्यापकोभूतविषयिताशून्यत्वविशिष्टद्वयाघटितत्वकल्पयोभट्टाचार्यविरचितयोनूतनत्वमिदानीमपि सर्वजनप्रसिद्धम् । तादृशबुद्धिवैभवविरचितगादाधरीतिविख्यातनामकटीकायाः साम्प्रतमपि टीकाद्वयमस्माभिर्वी. क्ष्यते । निरुक्तटीकाद्वयसङ्कलनकर्ता श्रीमदुदासीनप्रवर : श्रीमान् पण्डितप्रवरः पण्डितप्रियो हरिनामदासः सिन्धुप्रान्ते सक्खरनगरे लब्धजन्मेति सुपतिविदितम् ।
विदितवेदितव्यरिदमस्माकमन्तिकेऽस्य जन्मरहस्यं वर्णितं यत् तदतीव दैवयोगसम्पन्नमित्यस्माभिः संक्षेपेण समुपन्यस्यते । यद्यपि निरुक्तटीकाद्वयकर्तुः स्वामिप्रवरस्य पित्रोः पुरा पुत्रसन्ततिविरहजं दुःवं सदैवासीत्, तथापि तौ धर्मपरायणौ सिन्धुनदमध्ये विराजमाने प्रसिद्ध श्रीसाधुबेलातीर्थे धर्मव्याख्यानमाकर्णयितुं प्रतिदिनमेव नियमतो गच्छतः स्म । एकस्मिन् दिवसे तत्रैव तीर्थेऽस्य पितरौ भागवतीप्रतिमां प्रणम्य मनसि कृतसंकल्पौ तावदेवं सभक्तिं कथितवन्तौ, भगवन् ? यद्यावयोः पुत्रसन्ततिरुत्पद्यते तावाभ्यामवश्यमेवैकः पुत्रः श्रीसाधुबेलातीर्थस्वामिने सम्प्रदास्यत, इति । अहो भाग्यम् , अतः परं भगवतो महतानुग्रहेणैयानयोश्चत्वारः पुत्राः समुत्पन्नाः । येषां द्वितीयपुत्रोऽयं टीकाद्वयकारः स्वामिप्रवरो हरिनामदासः । संसारदशायां नारायणदासनाम्ना प्रसिद्धः। योऽयमुपनयनसंस्कारानन्तरमेव तदानीन्तनश्रीसाधुबेलातीर्थस्वामिने जयरामदासमहोदयाय पितृभ्यां सम्प्रदत्तस्तदीयशिष्यतामावहन् , विराजते स्म । तदनन्तरं दीक्षितमिमं मेधाविनं प्रतिभासम्पन्नञ्चावलोक्यास्याध्ययनार्थ कृतयत्नेन तेन जयरामदासस्वामिना प्रसिद्धविद्वान् श्रीमान् पण्डितप्रवरोगुरुप्रसादमहाराजो नियुक्तः। स एव पण्डितप्रवरस्तावदिमं टीकाद्वयकारमध्यापयामास । लब्धविद्यश्चायमू
जयरामे महाराजे स्वामिनि त्रिदिवं गते । तस्य सिंहासनारूढो दर्शनज्ञानवान् स्वयम् ।। व्योमव्योमनभोनुनेत्रविमिते सम्वत्सरे वैक्रमे , चिन्तानन्तसुधां निपीयमहतीमानन्दसंवर्द्धनः । स्वामिश्रीहरिनामदासविबुधः कान्तः स धीरप्रियो , न्यायक्षीरमहोदधीदममृतं मध्नाति टीकाद्वयम् ।।
"Aho Shrutgyanam"