Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 13
________________ ( च ) हन्तेदानीमस्माकं दुःखकारणं यदसौ स्वामिप्रवरो जगतीतले नास्ति । किन्तु स्वर्गमलंकृतवानिति । अनेन श्रीमता हरिनामदासस्वामिप्रवरेण सह प्रयागतो) कुम्भावसरे मम प्रथमपरिचयो जातः ततो वाराणस्यामस्य पाण्डित्यमतुलनीयं न वेति टोकाद्वयमवलोकयतामेव विदुषां वेदितव्यं भविष्यतीति । तत्र नाधिकमस्माकं वक्तव्यमस्ति । १९३७ संख्यके वैक्रमसम्बत्सरे पौषकृष्णदशम्यां टीकाद्वयकर्ता सिन्धुप्रान्तीयसक्खरनगरे लब्धजनिः । २००६ संख्यके तु संम्बत्सरे मंगलवासरे पौषकृष्णाष्टम्यां ब्रह्मतामवापेति विज्ञायते । सामान्यनिरुक्तिग्रन्थस्य संक्षिप्त विवरणं तावनिम्नलिखितमुपन्यस्यते । प्रथमतो मूलकृता हेतुवदाभासन्ते ये ते हेत्वाभासा इतिव्युत्पत्तिमवलम्ब्य हेत्वाभासशब्दस्य दुष्टहेत्वर्थकतां स्वीकृत्य के हेत्वाभासा इति शिष्य जिज्ञासानिवर्तनतात्पर्यकं साध्यज्ञाने प्रमात्वनिश्चयरूपतत्वनिर्णयप्रयोजकतया परकीयहेतो. दुष्टत्वोद्भावनेन स्वस्यापि विजयो भवतीति विजयप्रयोजकतया च हेत्वाभास. निरूपणं प्रतिज्ञातम् । ततो दोषलक्षणं विना दुष्ट लक्षणस्यासम्भवाद् दोषाणां लक्षणत्रयमिदमभिहितम् । तदनन्तरं दशाविशेषे इत्यादिग्रन्थेन जरन्नैयायिकमतसिद्धं हेतौ सत्प्रतिपक्षितत्वादिव्यवहारविषयत्वं कथंचिनिरुच्य ते च सव्यभिचारेत्यादि. ग्रन्थेन हेत्वाभासानां विभागोऽभिहितः । दीधितिकृता च हेत्वाभासनिरूपण प्रयोजनप्रदर्शनपूर्वकं दोषलक्षणाभिधानकारणप्रदर्शनपूर्वकञ्च लक्षणघटकप्रत्येकपदार्थव्याख्यानमाख्याय प्रथमलक्षणप्रतिपदव्यावृत्तीरभिधाय प्रथमलक्षणपरित्यागबीजमभिहितम् । ततो द्वितीयलक्षणे मेयत्त्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणायाभिनवप्रतिभया विशिष्टान्तराऽवटितत्वं लक्षणघटकयदूपविशेषणमभिहितम् । तदनन्तरं समुदितलक्षणे दोषमभिधाय स्वयमेवात्र वदन्तीत्यादिना हेत्वाभाससामान्यलक्षणं निरूपितम्। ततो हेत्वाभासलक्षणानां पक्षधरमिश्रादिसम्मतव्याख्यानं बहु दूषितम् । तदनन्तरं दशाविशेषे, इत्यादि मूल ग्रन्थो नूतनरीत्या व्याख्यातः । गदाधरभट्टाचार्येण तु प्रतिपदव्यावृत्तिप्रदर्शनपूर्वकं दीधिति व्याख्याय दोधितिकारव्याख्यातलक्षणे दोषं प्रदर्श्य स्वयमव्यापकोभूतविषयिताशून्यत्वं लक्षणघटकनिश्चये विशिष्टद्वयाघटितत्वञ्च तादृशे यद्रूपे निवेशितम् । तादृशनिवेशमालम्ब्यैव गोलोकोनामिका पत्रिका प्रसिद्धा वर्तते । मिथिलायामपि विशिष्ट. द्वयाघटितत्वनिवेशस्य प्राधान्यं निश्चित्य प्रायशो मैथिलमहानैयायिकास्तनिवेशविशेष एव महान्तं परिश्रमं कृतवन्त इति श्रूयते । निरुक्तनिवेशद्वये भट्टाचार्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 308