Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
( ग >
विजित्य पक्षधर मिश्रदर्शनमेवासम्भवीति । शिरोमणिस्तान् सर्वान् विजित्य पक्षघरमुपेयिवान् ! तं नवागतं बालमालोक्य विलक्षमेकाक्षं पक्षधरः पप्रच्छ—
"आखण्डलः सहस्राक्षो, विरूपाक्ष त्रिलोचनः । अन्ये द्विलोचनाः सर्वे को भवानेकलोचनः ॥ त्वरितमुत्तरितं कल्पकशिरोमणिना
आखण्डलः सहस्राक्षः, शङ्करस्तु त्रिलोचनः । यूयं विलोचनाः सर्वे, वयं न्यायैकलोचनाः ॥ इत्यायुक्तिप्रत्युक्तिभ्यामेकाक्षत्वं निरूपितं भवति, प्रसिद्धमपि तत् ।
पुनर्मिश्रैरभिहितम्
वक्षोजपानकृत्कारण ! संशये जाग्रति स्फुटम् । कस्मादकस्मादपलप्यते ॥
सामान्यलक्षणा
अस्वोत्तरं सामान्यलक्षणायन्ये "अत्र वदन्ति" कल्पे मिश्रमतदूषणावसरे
सम्यक्प्रदत्तम् ।
पुनरपि दीधितिकृद्भिरभिहितम्
कुशद्वीपनलद्वी पनवद्वीपनिवासिनः ।
तर्कसिद्धान्तसिद्धान्त शिरोमणिमनीषिणः ॥ इति ।
तदाकर्य विज्ञाय च कुशाग्रतरं तं मिश्राः सम्यगध्यापितवन्तः । ततः शिरोमणिमहाभागाः मिथिलायाः स्वदेशं नवद्वीपं प्रति प्रस्थिताः । तदा सरस्वतीप्रधानतनयपक्षधर मिश्रमहोदयानामगणितान्तेवासिनस्तैः सार्द्ध नवद्वीपमागताः ।
सम्बत्सरानन्तरं श्रीमन्तो मिश्रपादा अपि नवद्वीपे निवासार्थं समुपस्थितास्तेषा देहावसानमपि तत्रैव जाह्वव्यां जातमिति प्रसिद्धमत एव नवद्वीपनिवासिनां प्राचीन विदुषामिदानीं प्रस्तरमूर्तिः श्रीमतां मिश्रमहोदयानां संस्थापिता भविष्यतीति राजकीयरघुना प्रस्तावितमिति श्रूयते । परमत्र विवादः । परमत्राविवादो -- यत् श्रीमतोः पक्षधर मिश्र सार्वभौमयोर्मतं तयोर्जीवतोः शिरोमणिभिः स्वव्याख्यायां व्यवस्थाप्य भृशं दूषितमिति । दीधिकृद्भिरेव स्वमतं विस्तार्य नव्यन्याये नवयुगः प्रवर्तितः ।
श्रीमन्मथुरानाथस्य तात श्रीरामतर्कालङ्कारमहोदया उदयनाचार्यकृतात्मतत्त्वविवेकस्य रघुनाथ शिरोमणिप्रणीतां टीकां व्याकत" प्रवृत्त प्रारम्भे एव "हृदि कृत्वा
ܕ
"Aho Shrutgyanam"

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 308