SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ( ग > विजित्य पक्षधर मिश्रदर्शनमेवासम्भवीति । शिरोमणिस्तान् सर्वान् विजित्य पक्षघरमुपेयिवान् ! तं नवागतं बालमालोक्य विलक्षमेकाक्षं पक्षधरः पप्रच्छ— "आखण्डलः सहस्राक्षो, विरूपाक्ष त्रिलोचनः । अन्ये द्विलोचनाः सर्वे को भवानेकलोचनः ॥ त्वरितमुत्तरितं कल्पकशिरोमणिना आखण्डलः सहस्राक्षः, शङ्करस्तु त्रिलोचनः । यूयं विलोचनाः सर्वे, वयं न्यायैकलोचनाः ॥ इत्यायुक्तिप्रत्युक्तिभ्यामेकाक्षत्वं निरूपितं भवति, प्रसिद्धमपि तत् । पुनर्मिश्रैरभिहितम् वक्षोजपानकृत्कारण ! संशये जाग्रति स्फुटम् । कस्मादकस्मादपलप्यते ॥ सामान्यलक्षणा अस्वोत्तरं सामान्यलक्षणायन्ये "अत्र वदन्ति" कल्पे मिश्रमतदूषणावसरे सम्यक्प्रदत्तम् । पुनरपि दीधितिकृद्भिरभिहितम् कुशद्वीपनलद्वी पनवद्वीपनिवासिनः । तर्कसिद्धान्तसिद्धान्त शिरोमणिमनीषिणः ॥ इति । तदाकर्य विज्ञाय च कुशाग्रतरं तं मिश्राः सम्यगध्यापितवन्तः । ततः शिरोमणिमहाभागाः मिथिलायाः स्वदेशं नवद्वीपं प्रति प्रस्थिताः । तदा सरस्वतीप्रधानतनयपक्षधर मिश्रमहोदयानामगणितान्तेवासिनस्तैः सार्द्ध नवद्वीपमागताः । सम्बत्सरानन्तरं श्रीमन्तो मिश्रपादा अपि नवद्वीपे निवासार्थं समुपस्थितास्तेषा देहावसानमपि तत्रैव जाह्वव्यां जातमिति प्रसिद्धमत एव नवद्वीपनिवासिनां प्राचीन विदुषामिदानीं प्रस्तरमूर्तिः श्रीमतां मिश्रमहोदयानां संस्थापिता भविष्यतीति राजकीयरघुना प्रस्तावितमिति श्रूयते । परमत्र विवादः । परमत्राविवादो -- यत् श्रीमतोः पक्षधर मिश्र सार्वभौमयोर्मतं तयोर्जीवतोः शिरोमणिभिः स्वव्याख्यायां व्यवस्थाप्य भृशं दूषितमिति । दीधिकृद्भिरेव स्वमतं विस्तार्य नव्यन्याये नवयुगः प्रवर्तितः । श्रीमन्मथुरानाथस्य तात श्रीरामतर्कालङ्कारमहोदया उदयनाचार्यकृतात्मतत्त्वविवेकस्य रघुनाथ शिरोमणिप्रणीतां टीकां व्याकत" प्रवृत्त प्रारम्भे एव "हृदि कृत्वा ܕ "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy