________________
नमः परमदेवतायै
भूमिका
अद्यापि तावदपगतहर्षे भारतवर्षे निरन्तरमनादरणीय संस्कृतशास्त्रे विशेषतो न्यायशास्त्रे नवीनन्यायशास्त्रे वा विगतश्रद्धानामाधुनिकलोकानामन्तिके सुप्रकाशीकृतं नव्यन्यायसामान्यनिरुक्तिग्रन्थस्य महामहोपाध्याय पण्डितप्रवरश्रीमद्गदावरभट्टाचार्योताभिनवव्याख्याया: सविस्तरं चन्द्रकला कलाविलासनामकं टीकाद्वयं सर्वसाधारण गम्यमतिसरलं स्वामिप्रवरातुलनगुणगणभूषण इरिनामदासविरचितंविलोकयता मया सानन्दं सर्वथा वक्तु ं शक्यते
-
धन्यैव सा विपुल भारतवर्ष भूमि, यंत्र प्रभूतयशसां महतां जनिश्रीः सर्वविदितामरकीर्त्तयस्ते
संलेभिरे स्वजननं हरिनामदासाः ।
इति तत्र लभमानजन्मानो वयमवश्यमेव धन्या इत्यपि वक्तु ं शक्यते । तस्मादस्माकं भाग्यवशादनन्तदुर्गतिं सहमानाऽपि सेयं भारतभूमिरधुनाऽपि स्वपुरातनरत्नीभूर्यादां न जहातीति तां सादरं सभक्तिकञ्च प्रणम्य पुनः पुनस्तावदेव गीयते, विजयतां विजयतामस्माकं भारतवर्ष इति ।
एतेषां महात्मनां स्वामिप्रवराणां परिचयस्त्व प्रदास्यते । साम्प्रतं नव्यन्यायशास्त्रस्याध्ययनप्रयोजन निदानप्रतिपादनावसर इदमपि किञ्चिद्वक्तव्यं नाप्रसक्तं मन्यते —ये न्यायामृतरसास्वादविधुरान्तराः किञ्चिदाघातशास्त्रान्तरगन्धाः केवलमांग्लोपासनाब लावलेपा नवनीतिनवनीतमपि निस्सारं वर्तमानानुपयोगं च संगिरन्ते; तेऽवश्यं प्रतिबोधनीया इति । विदितमस्तु तेषां यद्वाराणसेयाः पुरातनपण्डितवरेण्याः वैयाकरणाः शास्त्रान्तराभिज्ञाश्चान्यदेशीयाः समधिकविद्याविनयसम्पन्नाः प्राधान्यं संदधाना विद्वांसः समधिगतनव्यन्यायशास्त्रतत्त्वनिवहा एव विश्वविसारिकीर्तयः समासन् । इदानीमपि शास्त्रान्तरकान्तारक्लेशानल सन्तापप्रशमन साधनमनुसन्दधाना व्यन्यायैकान्तशीतल जलधिमेवानुधावन्तो दृश्यन्ते । न ह्यनुदितेऽनल्पकल्पनामरीचिमालिनि भगवति नव्यन्याये कदाचिदपि कस्यचिन्मनस्त्रिमनुजमानससरसि वैदुष्यकमलिनी विहसति ।
" Aho Shrutgyanam"