Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 7
________________ ॥ श्रीः॥ निवेदनम् । अयि निखिलसहृदयधुरीणा निश्शेषविद्यानिष्णाता महानुभावाः ! साहित्यापरपर्यायमलङ्कारशास्त्रमेवालङ्कारायमाणमशेषाणां शास्त्राणामिति सुविदितचरं तत्रभवताम् । एतदेव हि शास्त्रान्तरचमत्कारजातनिवेदयत्युपास्यमानम् । वापीकूपतड़ाकाद्यखिलजलाशयसम्पाद्यमर्थ जलनिधिरिवेदं सर्वेषां शास्त्राणां चमत्कारोद्धोधं समुपगमयति स्वं सेवमानानामित्येव साहित्या भिधानमलकुरुते । हितेन सह वर्तमानत्वमेव साहित्यमितीदमपि तथाभूतम् । अलङ्कारशास्त्रमिति व्यपदेशबीजमपि तदेवैतस्य । साहित्यप्रधानमलङ्कारशास्त्रमिति न केवलं व्यपदेशः, अपि तु तथाभूतम् । एतदेकमुपासाना भवन्ति निश्चितनिःशेषतन्त्रस्वतन्त्रा लब्धाभिलषितार्थसार्थाश्च । एषां च साहित्यदर्पणो नाम निवन्धो निबध्नाति सचेतसां चेतांसि,अलङ्करोतिच चमत्कारं सुचेतसां चेतस्सु । यद्यपि सन्ति काव्यप्रकाशादयः परेऽपि परःशतं निबन्धाः, निवहन्ति चमत्कारं च परी प्रौढिम् , तदपि तेषां दुरधिगमत्वाज झटिति च तेभ्यः फलालाभान्न तथाभूताः । एष पुनर्निबन्धो नातिदुरधिगमो न च झटिति चमत्कारानावहः । अनेकत्र च सञ्चीयसञ्चीय लभ्यानि फलान्ये कस्यैवैतस्योपासितारो लभन्ते, तत्सार्थयति स्वकीयं सुगृहीताभिधानमेषः । एनमुपास्य न चिन्तामणिं कामयते, न वामन्दारम् । एष हन्त कालमहिना दुर्व्याख्याभिर्विच्छायीक्रियमाणोऽ. तथाभूत इव जात इत्येव पुनः स्वरूपमेनं नेतुकामेन मया प्रतिपदमनुसृत्य सार्थकतान्त्रीतान्येतदीयान्यक्षराणि सर्वाणि । अथायं पुनः स्ववर्णसद्भावं प्रपन्नः सहृदयहृदयालङ्कारो भवितुमर्हतीत्यत्र निकषस्थानानि श्रीमन्त इति । सहृदयचरणांनुगतस्य, शिवदत्तशर्मणः.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 910