Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
उक्तंच
'धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥' इति । किञ्च-काव्यात् धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दसावादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग् ज्ञातः स्वर्गे लोके च कामधुग्भवती' त्यादिवेदवाक्येभ्यश्च सुप्रसिद्भव, अर्थप्राप्तिश्च प्रत्यक्षसिद्धा, कामप्राप्तिश्चार्थद्धारैव, मोक्षप्रातिश्चैतज्जन्यम्सेफलाननुसन्धानात ,
- अदं तत्त्वम्-काव्यादनुष्टेये कर्मणि कर्तव्यताऽवगम इति स्वतस्तत्र प्रवृत्तिः, अन्यत्र पुनर्निवृत्तिः, तत्र कर्तव्यताऽधगमाभावात् । इत्येवं कर्तव्यकरमानुष्ठानद्वारा परित्याज्यकर्मपरित्यागद्वारा च धर्मस्तस्मादर्थस्तस्मात् कामश्चेति । तत्तदभिलाषपरित्यागपुरःसरं चानुष्ठेयेषु कर्मसु कर्त्तव्यतामात्रबुद्धया प्रवृत्ती मोक्षः । उक्तं च 'धादर्थश्च कासचे ति अनाश्रितः कर्मफलं कार्य कर्म करोति यः । युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्टिकीम् ॥' इति च । तर्कवागीशा अप्याहुः कृत्यं विहितं कर्म, अकृत्यं निषिद्धं कम, तयोः प्रवृत्तिनिवृत्ती यत्नविशेषौ, तयोरुपदेशसज्जनकं ज्ञानं स एव द्वारं व्यापारस्तेन । तथाहि-काव्याद्विहिते कर्मणि कर्तव्यताज्ञानं ततस्तत्र प्रवृत्तिस्ततस्तदनुष्ठान ततो धर्मस्तस्मादर्थकामौ । विहितकर्मफलत्यागान्निविद्धाननुष्ठानाच मोक्षः । 'व्यापारेण व्यापारिणो नान्यथासिद्भिः।' इति न्यायेन 'काव्यस्य धादिजनकत्वमिति भावः ।' इति ॥
स्थूणानिखननन्यायन तसेवार्य द्रढषितुं प्राचामनुमतिं दर्शयति-उक्तं चेत्यादिना। उक्तं 'पूज्यपादै रिति शेषः । चापि। किमित्यपेक्ष्याह-'साधु सम्यविहितम् । काव्यनिषेवणं काव्यस्य निषेवणं श्रवणाद्यनुष्ठानम् [क] साधुकाव्यनिषेवणमिति पाठे तु साधु यत् काव्यं तनिषेवणमित्यर्थः । साधुत्वं च दोषशून्यत्वे सति गुणालङ्कारशालित्वे सति वाक्यविशेषस्य रससमनुगृहीतत्वम् । धर्मार्थकाममोक्षेषु धर्मादिविषय इत्यर्थः । च पुनः । कलासु कलाविषये। कलाश्च नृत्यगीतादिरूपाश्चतुष्षष्टिविधाः । वैलक्षण्यमसदृशताम् । 'विशिष्टज्ञान भिति विवृतिकाराः । ज्ञानस्य लोकोत्तरं वैभवमित्यपरे । च । कीर्तिम्। प्रीतिमुद्रेगमपकृत्यामोदाधानम् । करोति । साधुकाव्यनिधेवणकर्तृको धर्मादिकलाविषयकवलक्षण्याधायकः कीर्तिप्रमोदोत्पादनहेतुभूतश्च ज्ञानानुकूलो व्यापारः सम्पद्यते इति भावः अत्र श्लोकछन्दः ॥' इति ॥
एतदेव प्रकारान्तरतः सिद्धान्तयति-किञ्चेत्यादिना । किन। काव्यात् । धर्मप्राप्तिधर्मसिद्धिः । भगवन्नारायणचरणारविन्दस्तवादिना भग 'ऐश्वर्थस्य समग्रत्व धनस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षग्णां भग इतीरणा ॥' इत्यात्मकं वैभवमस्यास्तीति, सोऽसौ नारायणः । नराणां जीवानामयं समूह इति, तस्यायनमुद्गमः स्थिति यम्साद् यत्र वेति तथोक्तः । अत्र व्यधिकरणो बहुव्रीहिः । यद्वा नारोऽयनं यस्य सः । अयनं निवासः] तस्य चरणारविन्दे तयोः स्तवादि तेन (कणा)। 'एकः शब्दः 'ॐ' इत्यादिस्वरूपः । सुप्रयुक्तः सुष्ठु प्रयोग प्रति नीतः । सम्यक । ज्ञातः । स्वर्ग परलोके। च तथा लोकेऽस्मिलोके । कामधुक। भवति सम्पद्यते ।' इत्यादिवेदवाक्येभ्य इत्यादीनि वेदवाक्यानि तेभ्यः । वेदवद्वाक्यानीति वेदवाक्यानि । च तथा। सुप्रसिद्धा। एव । अर्थप्राप्तिरर्थस्य धनस्य प्राप्तिरिति तथोक्ता । च । प्रत्यक्षसिद्धा। 'काव्यद्वारा यस्मिन् कस्मिन्नपि श्रीमति स्तुते इति शेषः । कामप्राप्तिः । च। अर्थद्वारा। एव। यद्यपि निधनानामपि सहृदयानां शृङ्गारविषयककाव्यभावनया कामप्राप्तिः प्रत्यक्षसिद्धेति वक्तुं शक्यते, तथाऽपि काव्यतः सम्पत्तिपुरःसरभिति विशेषाभिधानम् । 'काव्यालापांश्च वर्जयेत् ।' इति स्मृल्या न काव्यमानस्य निषेधः, किन्तु निविद्धस्य शृङ्गारमात्रप्रधानस्येति । भगवद्भक्तिमदेव काव्यमुपादेयमिति मन्वानेन केनापि पुनर्यदुक्तम् 'अत एव शाकुन्तले दुव्यन्तस्य, नैषधीये नलस्य, किराताजनायेऽर्जुनस्य च भगवद्भक्तिवर्णनं कृतम् । यत्त-भामिनीक्लिासे शुङ्गारोल्लासे 'गुरुमध्यगता मया नताङ्गी निहता नोरजकोरकेण मन्दम् ।' इत्यादिना पण्डितराजैः स्वप्रेयसीवर्णनं कृतं, तत्त तेषां गङ्गाप्रसादादेव शोभतेतराम् ।' इति । तन्नैकान्तमवदातम् , तत्रापि वेदान्तरहस्य एव वर्णनपर्यवसानात् । वस्तुतस्तु-न सर्वत्र महाकविभिरेक एव रसो निरूप्यते, न वा सर्व एवाधिकारसाधारणाः । अत एव सर्व एव क्रमेण सर्वत्रैव यथासमयं वर्ण्यन्ते, रामायणादिषु सर्वत्र सर्वेषां रसानां तथैवोपलम्भात् । इति बोध्यम् । एतज्जन्यधर्मफलाननुसन्धानादेतस्माद्भगवन्महिमवर्णनप्रधानात् का-यालक्षणया
१ व्यापारवदसाधारणं कारणं करणम् । व्यापारश्च यं जनयित्व यस्य यजनकत्वं स तदीयः, असाधारणं कारण
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 910