Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 18
________________ साहित्यदर्पणः। [ प्रथम:मोक्षोपयोगिवाक्येषु व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते । परमानन्दसन्दोहजनकतया सुखादेव पुनः काव्यादेव । ननु तर्हि परिणत बुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय' इत्यपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् । तत्पठनाद्युपायद्वारा जन्यो यो धर्मस्तस्य फलम् । 'धर्मादर्थश्च कामश्चे' त्यायुक्त्याऽर्थकामसम्पादनहेतुत्वं तदननुसन्धान तदभिलाषविचाराभावस्तस्मात् । च । मोक्षोपयोगिवाक्येषु । व्युत्पत्त्याधायकत्वात् 'प्रबोधचन्द्रोदयादीना' मिति शेषः । व्युत्पत्तिस्तत्तन्मामिकतासम्पादनहेतुभूतः संस्कारविशेषः । मोक्षप्राप्तिः 'प्रत्यक्षसिद्धेति पूर्वेणान्वयः । अत्र व्युत्पत्तिशब्दः शक्त्यभ्यासयोरप्युपलक्षक इति बोध्यम् । अभ्यासमन्तरेण व्युत्पत्तेरेवानुपस्थानात् । व्युत्पतेश्च शक्तिसहचरितत्वात् । शक्त्यादीनां च स्वरूपमाह रुद्रटः “मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य । अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति । पुंसा सहजातत्वादनयोस्तु ज्यायसी सहजा॥ स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् । उत्पाद्या तु कथञ्चिद् व्युत्पत्त्या जन्यते पर या ॥ छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् । युक्तायुक्तविवेकव्युत्पत्तिरियं समासेन ॥ विस्तरतस्तु किमन्यत्ततइह वाच्यं न वाचकं लोके। न भवति यत्काव्याङ्ग सर्वज्ञत्वं ततोऽन्यैषा ॥ अधिगतसकलज्ञेयः सुकवेः सुजनस्य सन्निधौ नियतम् । नक्तं दिनमभ्यसेदभियुक्तः शक्तिमान्काव्यम् ॥” इति। अत एव काव्यस्योत्पत्तिं प्रत्यपि शक्त्यादित्रयस्यैव कारणत्वेऽपि न तस्य पृथक् प्रपञ्चः । किन्तु, इदमधिगंतव्यम्-काव्यं पादप इव, शक्ति/जमिव, अभ्यासो जलमिव, व्युत्पत्तिः पुनम॒त्स्नेवेति। तदाहुः-'प्रतिभैव श्रुताभ्याससहिता कविता प्रति। हेतुम॒दम्बुसम्बद्धबीजव्यक्तिलतामिव ॥' इति। तथा च-काव्यद्वारा पुरुषार्थाः सिध्यन्ते कलावैलक्षण्यादि सम्पद्यते। इति निष्कृष्टम् । न च 'काव्यादुपनिषदादिव्युत्पत्तिमात्रं, ततस्ततत्त्वानुमननं, ततो मोक्ष इति काव्यापेक्षयोपनिषदादेरेव प्रधानतया मोक्षलाभं प्रति काव्यस्यान्यथासिद्धतैव जागरूकेति वाच्यम् , स्वातन्त्र्येणापि रामायणादिकाव्यानुष्ठानेन मोक्षलाभदर्शनात् । अथ-काव्यादेवेत्येवकारव्यवच्छेद्यमर्थं दर्शयति-चतुर्वर्गप्राप्तिरित्यादिना । हि यतः । वेदशास्त्रेभ्यः । नीरसतया 'तेषा' मिति शेषः । दुःखात् । एव न तु सुखात् । परिणतबुद्धीनां परिणता परिपक्वा बुद्धिर्ज्ञानं येषां तेषाम् । एव । चतुर्वर्गप्राप्तिः । जायते । परमानन्दसन्दोहजनकतया परमानन्दानां सन्दोहस्तदात्मको रस इति भावस्तस्य तदनुभवस्य जनकं तद्वत्सम्पादक तत्तया । पुनः । सुकुमारमतीनाम् । अपि किं पुनः परिणतबुद्धीनाम् । सुखात् । एव न तु दुःखात् । काव्यात् काव्यद्वारा। एव न तु वेदादिशास्त्रेभ्यः । 'मोक्षप्राप्ति' रिति शेषः । तथा च-रसास्वादार्थमपि प्रवर्तमानस्य कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशपर्यवसायि सत्काव्यं ( क) सर्वार्थान् सम्पादयति । इति निष्कृष्टम् ॥ ननु चतुर्वर्गसिद्धयर्थं सुकृतिनः प्रेक्षावन्तो वेदशास्त्राण्यनाश्रित्य कथमनाप्तवाक्ये काव्ये प्रवर्तिष्यन्त इत्यभिप्रायेणाशङ्कते-नन्वित्यादिना ॥ ननु । 'तर्हि यदि वेदशास्त्रेभ्योऽपि पुरुषार्थसम्पत्तिरित्यर्थः । तर्हि काव्यस्य चतुर्वर्गसाधनवाधिकारेऽपी'ति न्याख्यानं तु न रुचिरम् । 'सत्सु वेदशास्त्रे विति मूलं विस्मृत्यैव तत्सत्त्वात् । सत्स्वाप्तेषु विद्यमानेष्विति वा भावः । वेदशास्त्रेषु । परिणतबुद्धिभिः (कर्तृभिः)। किमिति । काव्ये काव्यविषये यत्नः श्रमः। करणीयः।' इत्यपि । न । वक्तव्यम् । यतः-कटुकौषधोपशमनीयस्य कटुकं रसास्वादोपघातुकं यदौषधं तेनोपशमनीयउपशमयितुमुचितस्तस्य । अत्र कटुकशब्द: 'काकेभ्यो दधि रक्ष्यता मिति काकशब्द इवोपलक्षकः, तेन तिक्तकषायादीनामप्युपादानम् । रोगस्य । सितशर्करोपशमनीयत्वे 'सती'ति शेषः । कस्य । वा। रोगिणः। साधीयसी, च-कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालि । 'यथा ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादौ 'ज्योतिष्टोमेन स्वर्गकामस्य यज्विनः स्वर्ग: प्राप्यते।' इत्यादौ वा ज्योतिष्टोमस्यापूर्व जनयित्वैव स्वर्गप्रापकत्वमिति तस्यापूर्व व्यापारः । स च जनकतासम्बन्धेन तनिष्ठ एव । इत्यपूर्वेग व्यापारेण तद्वतो ज्योतिष्टोमस्य यथा स्वर्ग प्रति नान्यथासिद्धत्वं, तत्रावश्यक्लुप्तनियतपूर्ववर्तिन एव कार्यस्य सम्भवे तद्भिन्नं तत्सहभूतं सर्वमन्यथासिद्धम् । तथा काव्यस्य निरुक्तोपदेश एव व्यापारः तेन तद्वतोऽस्यापि चतुर्वर्ग प्रति नान्यथासिद्धत्वम् । इति बोध्यम् ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 910