________________
साहित्यदर्पणः।
[ प्रथम:मोक्षोपयोगिवाक्येषु व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते । परमानन्दसन्दोहजनकतया सुखादेव पुनः काव्यादेव । ननु तर्हि परिणत बुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय' इत्यपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् । तत्पठनाद्युपायद्वारा जन्यो यो धर्मस्तस्य फलम् । 'धर्मादर्थश्च कामश्चे' त्यायुक्त्याऽर्थकामसम्पादनहेतुत्वं तदननुसन्धान तदभिलाषविचाराभावस्तस्मात् । च । मोक्षोपयोगिवाक्येषु । व्युत्पत्त्याधायकत्वात् 'प्रबोधचन्द्रोदयादीना' मिति शेषः । व्युत्पत्तिस्तत्तन्मामिकतासम्पादनहेतुभूतः संस्कारविशेषः । मोक्षप्राप्तिः 'प्रत्यक्षसिद्धेति पूर्वेणान्वयः । अत्र व्युत्पत्तिशब्दः शक्त्यभ्यासयोरप्युपलक्षक इति बोध्यम् । अभ्यासमन्तरेण व्युत्पत्तेरेवानुपस्थानात् । व्युत्पतेश्च शक्तिसहचरितत्वात् । शक्त्यादीनां च स्वरूपमाह रुद्रटः “मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य । अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति । पुंसा सहजातत्वादनयोस्तु ज्यायसी सहजा॥ स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् । उत्पाद्या तु कथञ्चिद् व्युत्पत्त्या जन्यते पर या ॥ छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् । युक्तायुक्तविवेकव्युत्पत्तिरियं समासेन ॥ विस्तरतस्तु किमन्यत्ततइह वाच्यं न वाचकं लोके। न भवति यत्काव्याङ्ग सर्वज्ञत्वं ततोऽन्यैषा ॥ अधिगतसकलज्ञेयः सुकवेः सुजनस्य सन्निधौ नियतम् । नक्तं दिनमभ्यसेदभियुक्तः शक्तिमान्काव्यम् ॥” इति। अत एव काव्यस्योत्पत्तिं प्रत्यपि शक्त्यादित्रयस्यैव कारणत्वेऽपि न तस्य पृथक् प्रपञ्चः । किन्तु, इदमधिगंतव्यम्-काव्यं पादप इव, शक्ति/जमिव, अभ्यासो जलमिव, व्युत्पत्तिः पुनम॒त्स्नेवेति। तदाहुः-'प्रतिभैव श्रुताभ्याससहिता कविता प्रति। हेतुम॒दम्बुसम्बद्धबीजव्यक्तिलतामिव ॥' इति। तथा च-काव्यद्वारा पुरुषार्थाः सिध्यन्ते कलावैलक्षण्यादि सम्पद्यते। इति निष्कृष्टम् । न च 'काव्यादुपनिषदादिव्युत्पत्तिमात्रं, ततस्ततत्त्वानुमननं, ततो मोक्ष इति काव्यापेक्षयोपनिषदादेरेव प्रधानतया मोक्षलाभं प्रति काव्यस्यान्यथासिद्धतैव जागरूकेति वाच्यम् , स्वातन्त्र्येणापि रामायणादिकाव्यानुष्ठानेन मोक्षलाभदर्शनात् ।
अथ-काव्यादेवेत्येवकारव्यवच्छेद्यमर्थं दर्शयति-चतुर्वर्गप्राप्तिरित्यादिना ।
हि यतः । वेदशास्त्रेभ्यः । नीरसतया 'तेषा' मिति शेषः । दुःखात् । एव न तु सुखात् । परिणतबुद्धीनां परिणता परिपक्वा बुद्धिर्ज्ञानं येषां तेषाम् । एव । चतुर्वर्गप्राप्तिः । जायते । परमानन्दसन्दोहजनकतया परमानन्दानां सन्दोहस्तदात्मको रस इति भावस्तस्य तदनुभवस्य जनकं तद्वत्सम्पादक तत्तया । पुनः । सुकुमारमतीनाम् । अपि किं पुनः परिणतबुद्धीनाम् । सुखात् । एव न तु दुःखात् । काव्यात् काव्यद्वारा। एव न तु वेदादिशास्त्रेभ्यः । 'मोक्षप्राप्ति' रिति शेषः । तथा च-रसास्वादार्थमपि प्रवर्तमानस्य कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशपर्यवसायि सत्काव्यं ( क) सर्वार्थान् सम्पादयति । इति निष्कृष्टम् ॥
ननु चतुर्वर्गसिद्धयर्थं सुकृतिनः प्रेक्षावन्तो वेदशास्त्राण्यनाश्रित्य कथमनाप्तवाक्ये काव्ये प्रवर्तिष्यन्त इत्यभिप्रायेणाशङ्कते-नन्वित्यादिना ॥
ननु । 'तर्हि यदि वेदशास्त्रेभ्योऽपि पुरुषार्थसम्पत्तिरित्यर्थः । तर्हि काव्यस्य चतुर्वर्गसाधनवाधिकारेऽपी'ति न्याख्यानं तु न रुचिरम् । 'सत्सु वेदशास्त्रे विति मूलं विस्मृत्यैव तत्सत्त्वात् । सत्स्वाप्तेषु विद्यमानेष्विति वा भावः । वेदशास्त्रेषु । परिणतबुद्धिभिः (कर्तृभिः)। किमिति । काव्ये काव्यविषये यत्नः श्रमः। करणीयः।' इत्यपि । न । वक्तव्यम् । यतः-कटुकौषधोपशमनीयस्य कटुकं रसास्वादोपघातुकं यदौषधं तेनोपशमनीयउपशमयितुमुचितस्तस्य । अत्र कटुकशब्द: 'काकेभ्यो दधि रक्ष्यता मिति काकशब्द इवोपलक्षकः, तेन तिक्तकषायादीनामप्युपादानम् । रोगस्य । सितशर्करोपशमनीयत्वे 'सती'ति शेषः । कस्य । वा। रोगिणः। साधीयसी, च-कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालि । 'यथा ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादौ 'ज्योतिष्टोमेन स्वर्गकामस्य यज्विनः स्वर्ग: प्राप्यते।' इत्यादौ वा ज्योतिष्टोमस्यापूर्व जनयित्वैव स्वर्गप्रापकत्वमिति तस्यापूर्व व्यापारः । स च जनकतासम्बन्धेन तनिष्ठ एव । इत्यपूर्वेग व्यापारेण तद्वतो ज्योतिष्टोमस्य यथा स्वर्ग प्रति नान्यथासिद्धत्वं, तत्रावश्यक्लुप्तनियतपूर्ववर्तिन एव कार्यस्य सम्भवे तद्भिन्नं तत्सहभूतं सर्वमन्यथासिद्धम् । तथा काव्यस्य निरुक्तोपदेश एव व्यापारः तेन तद्वतोऽस्यापि चतुर्वर्ग प्रति नान्यथासिद्धत्वम् । इति बोध्यम् ॥