________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
किश्व - काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्
( अन्यत्र च - )
विष्णुपुराणे च
'नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा ॥ कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ॥' इति ।
'त्रिवर्गसाधनं नाट्यम् ' इति ।
'काव्यालापाश्च ये केचिद् गीतकान्यखिलानि च । शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः ॥' इति । ३ यतस्तेन तत्स्वरूपं निरूप्यते ॥ २ ॥
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शितम् । सितशर्करा प्रवृत्तिः । न । स्यात् किन्तु गर्दभस्य केवलं न सितशर्करां भोक्तुं प्रवृत्तिः, अन्येषां पुनः सर्वेषां भवत्येवेति भावः । तथा च-काव्यस्यानाप्तवाक्यत्वेऽपि वेदाद्यपेक्षयोपादेय वैशिष्टयं निर्बाधम् । इति सिद्धम् ॥
एवं काव्यस्य युक्तिसिद्धामुपादेयतां प्रदश्यं वाचनिकामपि प्रदर्शयति किश्चेत्यादिना ।
किश्च । काव्यस्य । उपादेयत्वमहेयत्वम् । अग्निपुराणे । अपि । उक्तं ' व्यासपादै ' रिति शेषः । तद्वाक्यं दर्शयति-' लोके प्रारब्धवशादुच्चानुच्चगतिकेऽस्मिन् भूमण्डलात्मके भुवन इत्यर्थः । नरत्वं मनुष्यशरीरधारित्वम् । दुर्लभम् । तत्र नरत्वे । च । विद्या 'पराऽपरा वेति शेषः । दुर्लभा । तत्र विद्यायामपि सत्यामित्यर्थः । च । कवित्वं विचक्षणत्वम् । दुर्लभम् । तत्र कवित्वे जातेऽपीत्यर्थः । च । शक्तिः । प्रतिभा स्वतो ज्ञानोद्रेकविशेषः । दुर्लभा । ' व्युत्पत्तिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः । ' इति शेषः । तथा च - कवित्वस्य दुर्लभतां प्रतिपादयता भगवता व्यासेन सुप्रतिपादितमेतस्योपादेयत्वम् । इति निष्कृष्टम् ।' इति । ( अन्यत्र । च उक्तमिति पूर्वेणान्वयः) । ' त्रिवर्ग-साधनं त्रिवर्गस्य साधनमुपायभूतमित्यर्थः । नाट्यं नाटकम् । एतेन नाटकं त्रिवर्गस्यैव साधनमिति न मन्तव्यम् ' किन्तु मोक्षस्यापि तथाऽभिधानं पुनस्तद्वारा त्रिवर्गस्य सिद्धेः प्रत्यक्षसिद्धत्वं परं दर्शयितुम् । ननु'ज्ञानादृते न मुक्तिः' इति ज्ञानमेव मोक्षसाधनमिति चेत्, तदुत्पादनद्वारेति गृहाण । इति । भरतेनाप्युक्तम्- 'धर्म्य यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाय्यमेतद्भविष्यति ॥' इत्यादि । विष्णुपुराणे । च 'उक्त' मिति पूर्वेणान्वयः । किमित्यपेक्ष्याह- 'ये । केचित् । च पुनः । काव्यालापाः काव्यसम्बन्धिवाक्यजातमिति भावः । अखिलानि । च गीतकानि गीतानि । शब्दमूर्तिधरस्य । महात्मनः विष्णोः । एते । अंशाः । तथा च काव्य सम्बन्धिवचनगानादीनां शब्दब्रह्मांशभूतत्वमेवेति तदिव काव्याद्युपासनीयमिति निष्कृष्टम् ।' इति ।
इत्येवं काव्यस्य फलान्यभिधाय तस्य स्वरूपमभिधातुमुपक्रमते - ३ यत इत्यादिना ।
३ यतो यस्मात् कारणात् 'ईदृशफलं काव्य' मिति शेषः । तेन । तत्स्वरूपं तस्य काव्यस्य स्वरूप लक्षणम् । स्वं लक्ष्य पदार्थो रूप्यते लक्ष्यते इतरभेदकतयाऽनेनेति तथाभूतम् । निरूप्यते ॥ २ ॥
तदेव विवृणोति - तेनेत्यादिना ।
तेन । हेतुना । तस्य । काव्यस्य । स्वरूपं लक्षणम् । निरूप्यते । एतेन 'निरूप्यते' इति प्रतिज्ञाविधानेनेत्यर्थः । व । अभिधेयम् । दर्शितम् । तथा च - "सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥' इति न्यायाच्छास्त्रादौ सम्बन्धप्रयोजनाभिधानपुरःसरं तदभिधेयं निरूपणीयमित्यपेक्षाय काव्येनास्य सम्बन्धः, चतुर्वर्गाद्यस्य फलम् काव्यस्वरूपं पुनरत्राभिधेयम् । इति निष्कृष्टम् ॥
२