________________
साहित्यदर्पणः ।
[प्रथम:तत् किंस्वरूपं काव्यमित्यपेक्षायां कश्चिदाह-'तददोषौ शब्दार्थों सगुणावनलकृती पुनः कापि' इति । एतच्चिन्त्यम् । तथाहि-यदि दोषरहितस्यैव काव्यत्वं, तदा
"न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः। धिधिक शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ १॥"
. अथात्र प्राचां लक्षणानि समालोचयति-तदित्यादिना ।
तत् काव्यम् । किंस्वरूपं किंलक्षणम् । काव्यम् । इत्यपेक्षायाम् । 'सत्या'मिति शेषः । कश्चित् काव्यप्रकाशकारः । आह--'अदोषौ निर्दोषौ । सगुणौ गुणसम्पन्नावित्यर्थः । क्वचिनिर्दोषत्वेऽपि सगुणताया अदर्शनातहणार्थमेतद्विशेषणम् । क्वापि क्वचित्सति सम्भव इत्यर्थः । अनलकृती अलङ्कारशून्यौ। शब्दार्थो । तत् काव्यम् । अत्र 'बेदाः प्रमाण 'मितिवदुद्देश्यविधेयभावः । तथा च-निर्दोषौ सगुणौ तथा प्रायः सालङ्कारौ शब्दार्थों काव्यम् । इति निष्कृष्टम् । अत्र केचिदाहु:-'शब्दो वाऽर्थो वा दोषशून्यत्वे सति गुणविशिष्टत्वे सति कचित्सालङ्कारः काव्यं, न तु तदुभयं मिलितमेव, आस्वादव्यजकताया उभयत्राप्यविशेषात् । श्रुतं काव्य, बुद्ध काव्यभित्युभयविधव्यवहारदर्शनाच ।' इति । अन्ये तु 'नात्र शब्दो वाऽर्थो वेति शब्दार्थों, किन्तु शब्दश्चार्थश्चेति शब्दार्थो । अतः शब्दार्थान्यतरत् काव्यमित्यथस्य 'शब्दार्थों काव्य'मित्यत उपलब्धरसम्मवान शब्दो वाऽर्थो वा काव्यमिति वळू युज्यते । अन्यथा-'मातापितभ्यां जगतो नमः' इत्यादावपि नमसोऽपि मातापित्रोरन्यतरेण सम्बन्धः स्यात् । तदुक्तं तर्कालङ्कारैः- 'सहृदयश्लाघ्यो शब्दार्थों काव्यम् । सहृदयैः 'लाध्यते यः शब्दोऽर्थश्च तदुभयं मिलितं काव्यम् ।' इति ।' इति । एतत् सामान्येन काव्यलक्षणम् । चिन्त्यम् । तथाहि यदि। दोषरहितस्प दोषशून्यस्य । शब्दार्थोभयस्य शब्दार्थयोरन्यतरस्यैव वेति शेषः । एव । काव्यत्वं काव्यव्यपदेशशालित्वम् । स्वीक्रियते' इति शेषः । तदा तर्हि
"यद् यस्माद्धेतोः । मे मम रावणस्थेत्यर्थः । 'रावणस्येत्यभिधानेन खनामोच्चरनपि 'जिहेमी'ति व्यज्यते । अरयः शत्रवः शत्रुबाहुल्यमिति यावत् । एतेन नेक एव न वा द्वावेव शत्रू इत्याश्चर्यमित्यावेद्यते । 'सन्ती'ति शेषः । अयमित्ययमित्यर्थः । एव 'प्रथम' मिति शेषः। न्यकारो धिक्कारः । ह्येव । यद्वा-यत्-अरयः, इत्ययमेव से न्यकार इत्यन्वयः । तत्र तेवरिषु मध्ये इत्यर्थः । अपि । अलौ। द्वेषातिशयाद्रामस्यादसा निर्देशः । तापसस्तपस्वी । तपोऽस्थास्तीति तथोक्तः । 'अण् च ।' ५।२।१०३ इत्यग् । 'अरिः' इति वचनविपरिणामेनान्वेति । स तापसः ।अपि 'अरि'रिति शेषः । अत्र मत्सन्निधावित्यर्थः । एव न तु मनागपि दूरे। इत्ययं पुनर्यकार इति शेषः । राक्षसकुलं राक्षसानां तापसभक्षकतया जन्मना प्रसिद्धानां कुलं वंशस्तत्, न तु तेषामेकं द्वौ त्रीन् वेति भावः । 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीब' मिति मेदिनी। निहन्ति निश्शेषेण हन्ति (हिनस्ति ) न तु मारयित्वा क्वचिद्विलीनः, न वा दूरेअवतिष्ठते, न वा कमप्यवशेषयति । 'इत्ययं पुनर्यकार' इति शेषः। अहो एवं न्यक्कारपरम्पराग्रस्तत्वेऽपीति भावः । रावणो रावयत्याक्रन्दयति लोकमिति तथाभूतः । जीवति । इत्ययं पुनर्यकार इति शेषः । शक्रजितं शक्र जितवानिति तं तथोक्तम् । धिग्रधिक् । खात्मापेक्षया पुत्रस्य तरुणत्वादिन्द्रजेतृत्वेन प्रसिद्धत्वाच न्यकाराधिक्यम् । प्रबोधितवता प्रकृष्टं बोधं प्राप्तवता, न तु सुप्तवता । प्राबूबुधदिति प्रबोधितवांस्तेन, प्रबोध्यत इति प्रबोधितं प्रबोध इत्यर्थः, तदस्यास्तीति तेनेति वा तथोक्तेन । 'नपुंसके भाव क्तः ।' ३।३।११४ इति क्तः । कुम्भकर्णेन कुम्भाविव कर्णी यस्य तेन । एतेनैतस्य महाकायत्वं भयङ्करदर्शनत्वं च व्यज्यते । 'प्रकृत्यादिभ्य उपसख्यानम् ।' इति तृतीया । वाऽपि । किम् । जीवन रावणोऽपि यं न विजेतुं प्रभवति, न च यं शक्रजित् , तं कुम्भकर्णो विजयेतेति केवलाशति, अस्मदादिभिरजितोऽपि कुम्भकर्णेन प्रबुद्धेनानायासम्भक्ष्यत इति पूर्वमैव प्रसिद्धम् , सम्प्रति तु तत्सर्वं विलीनमिति वा भावः । स्वर्गग्रामटिकाविलुण्ठनवृथोच्छू नैः खर्ग इन्द्रराजधान्येव ग्रामटिका क्षुद्रो ग्रामस्तस्या विलुण्टनं विशेषेण लुण्ठनमनाथाया इव रित्कारपूर्वकमाभरणापहरणं तेन वृथोच्छूना आध्मातास्तैः । ग्रामयत्याह्वयति निवासाय पान्था