________________
११
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । इत्यस्य श्लोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात, प्रत्युत ध्वनित्वेनोत्तमकाव्यताऽस्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।।
निति ग्रामटः, स्त्री चेद ग्रामटी, अल्पा ग्रामटीति ग्रामटिका । 'शकादिभ्योऽटन् ।' * इत्यटन् । 'पिप्पल्यादश्च ।' * इति ङीप् । 'अल्पे ।' ५।३।८५ इति कः । 'केऽणः ।' ७।४।१३ इति ह्रखत्वम् । उद्योतकारावाहुः-“ग्रामशब्दादल्पार्थे 'तद्धिताः ।' ४।१।७६ इति बहुवचनबोध्यष्टिकच् प्रत्ययः ।" इति । एभिः। भुजैः । किं न किमपि फलमित्यर्थः । खकीयं राक्षसकुलं संहर्त प्रवर्त्तमाने भगवति रामचन्द्रे रावणस्य स्वभर्सनपरमिदं हनुमन्नाटके पद्यम् । शार्दूलविक्रीडितं छन्दः । तल्लक्षणं यथा-“सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।" इति ॥ १ ॥'
___ इत्यस्य । श्लोकस्य । विधेयाविमर्शदोषदुष्टतया विधेयस्याविमर्शोऽविमृष्टत्वमुपेक्षेति यावत् , तादृशोऽविमृष्टविधेयांशनाम्नाऽभिधास्यमानोऽसौ दोषस्तेन दुष्टस्तस्य भावस्तत्ता तयेति तथोक्तया । काव्यत्वं काव्यलक्षणाक्रान्तत्वम् । न । स्यात् । प्रत्युत। ध्वनित्वेन । ध्वन्यतेऽस्मिन्निति ध्वनिस्तस्य भावो ध्वनित्वं तेन तथोक्तेन । अस्य 'न्यक्कारोह्ययमेव' इति श्लोकस्य । उत्तमकाव्यता न तु मध्यमकाव्यता, व पुनरधमकाव्यतायाश्चर्चेति भावः । अङ्गीकृता 'इदमुत्तममतिशयिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः ।' इति स्वेनापि स्वीकृतेत्यर्थः । तस्मात् । अव्याप्तिर्लक्ष्ये लक्षणासम्भवरूप इत्यर्थः । लक्षणदोषः। 'अवतिष्ठत' इति शेषः ।
अत्रेदमवधेयम्-'अनुवाद्यसनुक्त्वा तु न विधेयमुदीरयेत् । नालब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥' इत्युद्देश्यविधेययो: पौर्वापर्य्य नियतं, तदन्यथात्वे पुनर्दोषः, अत एव 'पर्वतो. वह्निमान्' 'वेदाः प्रमाणम्' इत्यभिधीयते, न तु वह्निमान् पर्वतः' 'प्रमाण वेदाः' इति । प्रकृते-स्वस्य शत्रुसद्भावाद्यभिधानमुद्देश्यम् , विधेयं पुनर्धिक्करणम् , शत्रुसद्भावायुद्दिश्यैव धिक्कारस्य विधानात्; तदनेनैव क्रमेण बन्धोऽपि युज्यते स्म, किन्तु अनान्यथेति वाक्यगतो विधेयाविमर्शः । तथा-भुजानां वैयर्थ्य विधेयं, तच्च वृथापदेनानुवाद्यमानं प्रत्याय्यत इति पदगतोऽयम्। तस्मादुभयथा सम्भवता विधेयाविमर्शन दोषेण ग्रस्तस्यास्य श्लोकस्य 'तददोषौ' इत्युक्तदिशा काव्यत्वं न स्वीकार्यम्, किन्तु ध्वनिशालितयोत्तमकाव्यता स्वीकृतेति स्फुट लक्षणासमन्वयः । ध्वनिश्च वाच्यापेक्षया व्यङ्गयस्यातिशयितत्वम् , तच्च प्रकृते ईर्ष्याजन्यस्वावमाननेन निर्वेदरूपम् । अत्रायं तावत् क्रमः-काव्यं त्रिविधम् . उत्तममध्यमाधमभेदात् । तदाहुः प्रकाशकाराः 'इदमुत्तममतिशयिनि व्यङ्गये वाच्या निर्बुधैः कथितः । अतादृशि गुणीभूतव्यङ्गय व्यङ्गये तु मध्यमम् । शब्दचित्रवाच्यचित्रमव्यङ्गयमवरं स्मृतम् ॥' इति । काव्यं चतुर्विधमिति केचित् । तदाहः पण्डितराजाः-'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा । शब्दार्थों यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्गस्तदाद्यम् ॥ यत्र व्यङ्गयमप्रधानमेव सच्चमत्कारकारणं तद् द्वितीयम् । यत्र व्यङ्गयचमत्कारसमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ॥ यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ॥' इति॥ काव्यं त्रिविधं, शब्दार्थतदुभयचित्रभेदात् , तस्य पुनः प्रत्येकं त्रैविध्यम् , उत्तममध्यमाधमभेदात् ; इति पुनर्वयम् । तदुक्तम्'शब्दरम्यं सुबोधार्थ मुख्य, गूढं तु मध्यमम् ।' 'अवरं शब्दवैशा विचित्रार्थस्य वा स्थितिः । व्यङ्गयेऽतिशयिते वाच्यं मुख्यं, मध्यममन्यथा । अव्यङ्गयमवरं भिनमेवं शब्दार्थसुन्दरम् ॥' इति । काव्यमनेकविधम्, उत्कृष्टत्वानुत्कृष्टत्वयोरानन्यात् । इति कविराजानामभिप्रायः । अत एव न तथाऽभिधानं तेषां सङ्गच्छते । अस्तु । प्रकृते भूयसी व्यञ्जकतेति काव्यस्योत्तमत्वम् । अत एवाहुर्च निकाराः-'सुपतिवचनसम्बन्धैत्तथाकारकशक्तिभिः । कृत्तद्धितसमासैश्च द्योत्यो लक्ष्यक्रमः क्वचित् ॥' अलक्ष्यक्रमो ध्वनिरात्मा रसादिभिः सुब्विशेषैस्तिविशेषैर्वचनविशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति । 'च' शब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते । यथा-'न्यक्कारो ह्ययमेव' इत्यत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र-'मे यदरयः' इत्यनेन सुप्सम्बन्धवचनानामभिव्यजकत्वम्, १ 'तत्राप्यसौ तापसः।' इत्यत्र तद्धितनिपातयो:२, 'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र
१ 'मे' इति शत्रुसद्भावे सम्बन्धानौचित्यम् 'अरय' इति बहुवचने तत्र क्रोधो व्यज्यते । २ 'तपोऽस्यास्तीति तापस इति मत्वर्थीयोऽण प्रत्ययः, तेन तस्य पौरुषकथावैधुयॊचित्यं, 'तत्रापी' ति निपातशब्देनात्यन्तासम्भावनीयत्वं द्योत्यते।