________________
साहित्यदर्पणः।
[प्रथमःननु कश्चिदेवांशोऽत्र दुष्टो, न पुनः सर्व एवेति चेत् तर्हि-मत्रांशे दोषः, सोऽकाव्यावप्रयोजको, यत्र ध्वनिः स उत्तम काव्यत्वप्रयोजकः इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्य मकाव्यं वा किमपि न स्यात् ।
नच कश्चिदेवांशं काव्यस्य दूषयन्ति श्रुतिदुष्टत्वादयो दोषाः, किं तर्हि सर्वमेव काव्यम् । तथाहि-काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते । अन्यथा नित्यदो. षानित्यदोषत्वव्यवस्थाऽपि न स्यात् । तिङ्कारकशक्तीनाम्३, 'धिधिक शकजितम्' इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् ४ । एवंविधस्य व्यञ्जकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति, यत्र हि व्यङ्गचावभासिनः पदस्यैकस्यैव तावदाविर्भावा स्तत्रापि काव्ये काऽपि बन्धच्छाया, किमुत यत्र तेषां बहूनां समवायः । यथाऽनन्तरोदिते ५ श्लोके । अत्र हि-'रावण' इत्यस्मिन् पदेऽर्थान्तरसमितवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यजकप्रकाराणामुद्भासनम् ।' इति । एवं सति शब्दानां व्यञ्जकभूयस्त्वे वाच्यातिशायिनी चमत्कृतिरप्रतिहताऽवतिष्ठते, तेन च-एतस्योत्तमत्वमपि निधिमिति न तिरोहितं विदुषाम् , 'तददोषो' इति निर्दोषत्व एव काव्यत्वस्वीकारे काव्यत्वमेव माभूत्, एतस्याविमृष्टविधेयांशत्वेन ग्रस्तत्वात् । तस्मात् प्रथमं स्वोक्तिविरोधः, आलङ्कारिकसिद्धान्तेन पुनरेतस्य ध्वनित्वेनोत्तमकाव्यत्वमिति स्फुटमव्याप्तिलक्षणदोषावस्थानम् । यदि वा 'तददोषा' वित्यकाव्यत्वमेव स्वीकार्य, तर्हि 'इदमुत्तमः' इत्युत्तमकाव्यत्वघटकलक्षणस्य सम्भवतः प्रत्याख्यान कथम् ? इत्युभयविघातोपस्थानालक्षणानैकान्त्यम् ।
नन्वविमृष्ट विधेयांशत्वं नाम दोषस्तावदास्तामांशिकः, न ततः सर्वे काव्यं दुष्टम् ; इत्यास्त एवात्र काव्यत्वमित्याशकयोत्तरयति-नन्वित्यादिना ।
ननु । अत्रास्मिन् 'न्यकारो..' इत्युदाहृते पद्य इत्यर्थः । कश्चित् 'न्यकारो ह्ययमेवे' ति 'वृथोच्छूनै' रिति वेत्यर्थः । एव। अंशः। दुष्टो विधेयाविमर्शदोषग्रस्तः । न । पुनः । 'पुनरप्रथमे भेदे' इत्यमरः । सर्वः समस्तपद्यात्मकः । एव । 'अंश' इति शेषः । 'दुष्ट' इति पूर्वेणाऽन्वयः । इतीत्येवम् । चेत् 'उच्यते' ति शेषः । तर्हि । यत्र यस्मिन् । अंशे । दोषो विधेयाविमर्शसद्भावः । सः 'अंश' इति शेषः । अकाव्यत्वप्रयोजकः काव्यत्वाभावप्रयोजकः । 'स्वोक्रियेते' ति शेषः । यत्र यस्मिन्नशे इत्यर्थः । ध्वनिः । स ध्वनिमानंश इत्यर्थः । उत्तमकाव्यत्वप्रयोजकः । इतीत्येवम् । अंशाभ्यां विधेयाविमर्शदुष्टध्वनियुक्ताभ्यां भागाभ्यामित्यर्थः । उभयतः स्वस्वानुकूल्येनेत्यर्थः । आकृष्यमाणं व्यावय॑मानम् । इदं 'न्यक्कारो..' इति पद्यमिति भावः । काव्यम् । वाऽथवा । अकाव्यम् । किमपि । न नैव । स्यात् । द्यावापृथिव्योरन्तराले त्रिशङ्कोरिव काव्यत्वाकाव्यत्वयोरन्तरालेऽवलम्बमानस्यास्यापि पद्यस्य दुष्प्रतिष्ठेति भावः ।
ननु-'आंशिकदोषातिरिक्तौ शब्दार्थो काव्यं, तथा च-'न्यक्कारो ह्ययमेव..' इत्यत्र दोषसद्भावस्यांशिकतया 'अदोषौ शब्दार्थों काव्य' मिति लक्षणं निरवद्यम्' इति चेत् । इत्थमेवाङ्गीक्रियेत यदि दोषाः कञ्चिदेवांशं दूषयेयुः, नच तथेत्याह-नचेत्यादिना । नच श्रुतिदुष्टत्वादयो दुःश्रवत्वादयः । दोषाः । काव्यस्य । कश्चित् । एव । अंशम् । दूषयन्ति इति वाच्य' मिति वाच्यम् । वादी सोलुण्ठनं पृच्छति-किम् । तर्हि । सिद्धान्त्युत्तरयतिसर्वम् । एव । काव्यम् । 'श्रुतिदुष्टत्वादयो दोषा दूषयन्ती'ति पूर्वेणान्वयः । तदेव सिद्धान्तयति-काव्यात्मभू
३ 'अत्रैवे' ति मदधिष्ठितो देशोऽधिकरणं 'निहन्ती' त्यस्य च निश्शेषेण हन्यमानतया राक्षसकुलं च कर्मेति तदिदमसम्भाव्यमानमुपनतमिति पुरुषकारासम्पत्तिव॑न्यते । 'जीवत्यहो रावणः' इति मत्कर्तृकाया जीवनक्रियाया एवं सर्वथाऽनौचित्येऽपि जीवनत्यागस्यापि दैवाधीनत्वं स्वस्मिंश्च जीवति राक्षसकुलकमिकायास्तापसकर्तकाया निहननक्रियायाः सर्वथाऽसम्भावनीयाया अपि सम्भाव्यमानत्वेनोपस्थानं खदौर्भगविलसिताभिधानं च ध्वनयति, 'रावण' इति च स्वार्थ जहत् पराधीनत्वस्वाकर्मण्यत्वादि द्योतयदर्थान्तरे सङ्क्रमितम् । ४ 'धिधि' गिति निपातस्य क्रोधातिशयव्यञ्जकत्वं, 'शुक्रजित' मिति कृतश्च देवराजाभिभाविन्या ओजस्विताया वैयर्थ्याभिव्यञ्जकत्वं 'प्रबोधितवता किं कुम्भकर्णेने त्युपसर्गादीनां 'दैवं बलं स्याङ्कल' मिति स्वपुरुषार्थवैयर्थ्याभिव्यञ्जकत्वम्, 'वर्गग्रामटिका' इति तद्धितादीनां स्वपौरुषस्मारकत्वं ततश्चामर्षातिशयाभिव्यञ्जनम् । ५ प्रागुक्त 'न्यक्कारो ह्ययमेव' इत्यत्रेत्यर्थः ।