________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । यदुक्तं ध्वनिकृता
"श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः। ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहताः ॥” इति ।
तस्य । रसस्य चमत्कार विशेषस्यर्थः । अनपकर्षकत्वेऽपकर्षकर्तृत्वाभावे सति । तेषां श्रुतिदुष्टत्वादीनाम् । दोषत्वं दोषात्मनाऽवस्थीयमानत्वम् । अपि । न अङ्गीक्रियते 'अपकर्षकत्वे पुनस्तेषामांशिकत्वेऽपि सर्वदूषकत्व' मिति शेषः । अन्यथा प्रकारान्तरेण नित्यदोषानित्यदोषत्वष्यवस्था । अपि । न। स्यात् । अयं भावः--ननु यत्रांशे दोषः, तत्र तावानंशो दूष्यते, यत्र पुनः सर्वतोव्यापी, तत्र सर्वथा दुष्टत्वमिति नियमसिद्धम् । अथ आंशिकदोषश्च न 'अदोषा' विति काव्यत्वं व्यावर्त्तयते, किन्तु सर्वतोव्यापीति चेत् किनाम दोषत्वमिति गवेषणीयम्, तथा सति रसापकर्षकत्वमेवेति अन्ततः सिद्धान्तः । रसस्यैव काव्यात्मत्वम् । आत्मभूतस्य रसस्य यावद् येन नापकर्षस्तावन्न तस्य दोषत्वं, येन चापकर्षस्तस्य दोषत्वम् ; सर्वतोव्यापिनः पुना रसस्यापकर्षकत्वेनैव दोषत्वे तथासिद्धेऽपि तस्यांशिकत्वव्यवहारोऽनवधानमूल: । अत एव तर्कवागीशाः प्राहुः--'परम्परया रसदूषकत्वेनैव तेषां सर्वदूषकत्वमव्याहतमेव ।' इति । न च काव्यस्य सर्वमप्यंशं दूषयन् दोषः काव्यत्वं व्याहन्तुमीष्टे । अत एवाहुष्टिप्पणीकारा:-'यदि सर्वत्र दोषः काव्यस्य सर्वमेवांशं दूधयन्न काव्यत्वमेवोत्पादयेत्तर्हि 'तुरङ्गकान्तामुखहव्यवाहज्वालेव' इत्यत्र वडवाग्निज्वालारूपस्यार्थस्य विप्रकृष्टतया भानात् क्लिष्टाख्यार्थदोषापत्तिः । एवं च काव्यत्वं न स्यात् परं समुद्रान्तीनायां वडवानलज्वालाया कदाचित् सम्भाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वोत्प्रेक्षणात् को नामास्य काव्यत्वंनिवारयितुमीष्टे ।' इति । न चापकर्षकत्वं नाम सर्वथा तिरोधायकत्वं व्याघातकत्वं वा, एवं च-रसस्यानुभूयमानत्वे ऽपि दोषतादवस्थ्यस्वीकारे न काऽपि क्षतिः । अत एवोक्तं टिप्पणीकारैः-'क्वचिद्रसे भासमानेऽपि दोषत्वमङ्गीक्रियते एव, यथा-भगवद्भर्तहरिसङ्कलितवैराग्यशतकस्य 'अहो वा हारे वा कुसुमशयने वा दृषदि वा' इति श्लोके मिथ्यात्वेन परिभाव्यमानं जगदालम्बनम् , तपोवनादिकमुद्दीपनम् , सर्पहाराद्योः समदर्शनमनुभावः, मतिधृतिहर्षाव्यभिचारिभावाः, निर्वेद: स्थायिभावः, एवं शान्तरसनिष्पत्तौ सत्यामपि 'क्वचित्पुण्यारण्ये' इति यदभिहितं तद्विकल्पप्रतिपादकमभेदवासनाविरुद्धमनुचितमवभासते । धारारूढसर्वसाम्यविगलितभेदाभिमानग्रन्थेहि सर्वत्र सर्व शिवमयं पश्यतस्तपोवने नगरावस्करकूटे च विमलात्मलाभतृप्ततया समानदृशः क्वचित्पुण्यारण्यादिवचनमनुचितोच्चारणमेव।' इति । वस्तुतस्तु-नात्र शान्ताभिव्यक्तिः, न वा रसानौचित्यम्' किन्तु शङ्करविषयकरत्यभिव्यक्तिः । शान्तोदाहरणतातु प्राचां गौरवैकजीव्या । दोषश्च निरवधि स्वरूपसन्नित्यः सावधि पुनरनित्यः । अत एवाहुः-'दोषो गुणत्वं भजते, दोषत्वंवा निरस्यति।' इति 'वक्राद्यौचित्यवशाद दोषोऽपि गुणः क्वचित् क्वचिन्नोभौ' इति च । ननु यदि रसापकर्षकतयैव दोषाणां दोषत्वं, न पुनरन्यथेति सिद्धान्ते यावद्रससत्त्वं तावत् काव्यस्य काव्यत्वं, दोषाणां दोषत्वाभावश्च; यावत् पुना रसाभावस्तावत् काव्यस्य काव्यत्वाभावो, दोषाणां पुनर्दोषत्वम् , इति स्वत एव निर्दोषयोः शब्दार्थयो: काव्यत्वम् । इत्युच्येत ? तर्हि नित्या दोषा एते, एते पुनरनित्या इति विभागो न सम्पद्येत । अथ नित्याः सचेतसा सर्वथा परिहार्य्याः, न पुनरनित्या अपि तथा परिहार्याः । क्वचित्तेषामुपादेयतायाअपि सम्भवात् । नित्यानां च दोषाणां रसापकर्षकत्वेऽपि काव्यत्वाभावो वक्तुमशक्यः । नापकृष्टं किञ्चित्सर्वथा स्वरूपतोऽपहीयते । तस्मात्-नित्यानामप्यमीषां काव्यात्मभूतस्य चमत्कारप्राणस्य रसस्यापकर्षकत्वेऽपि तेषां सद्भावः, तस्मिन्नपि काव्यत्वमव्याहतमेवेति सुष्ठूक्तं कविराजैः 'तस्मादव्याप्तिलक्षणदोषः' । इति ।
___ दोषाणां नित्यानित्यत्वाप्रामाणिकत्वनिरासायाचार्य्यसम्मतिं दर्शयति-यदुक्तमित्यादिना । यद् यस्मात् कारणात् । ध्वनि कृता ध्वन्यालोकनिर्मात्रेत्यर्थः । उक्तम् । किमित्यपेक्षायामाह-'ये । श्रुतिदुष्टादयः श्रुतिदुष्टत्वादयो दुःश्रवाश्लीलत्वादय इति यावत् । 'स्त्रियाम् '।४।१।३ । इतिवद्भावप्रधानो निर्देशः । अनित्याः । दोषाः । च । दर्शिताः । ते 'सर्वेऽपोति शेषः । ध्वन्यात्मनिर्ध्वन्यमानोऽर्थ एवात्मा यस्य तस्मिन् । एव । शृङ्गारे शृङ्गारादावित्यर्थः, अत्र शृङ्गारपदस्योचितरसोपलक्षकत्वात् । तथा च वीरशान्ताद्भुतादेरपि परिग्रहः । हेयाः। इती त्येवम् । उदाहताः॥'इति।