________________
साहित्यदर्पणः ।
[प्रथम:किश्चैवं काव्य प्रविरलविषय, निर्विषयं वा स्यात् , सर्वथा निर्दोषस्यैकान्तमसम्भवात् ।
ननु ईषदर्थे नत्रः प्रयोग इति चेत् ! तर्हि ईषद्दोषौ शब्दाथो काव्य' मित्युक्त निर्दोषयोः काव्यत्वं न स्यात्, 'सति सम्भव ईषद्दोषा' विति चेत् ? एतदपि काव्यलक्षणे न वाच्यम्, रत्नादिलक्षणे कीटानुवेधादिपरिहारवत् । नहि कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः, किन्तूपादेयतारतम्यमेव कर्तुम् ; तद्वदव श्रुतिदुष्टत्वादयोऽपि काव्यस्य । उक्तं च-कीटानुविद्धरत्नादिसाधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ॥” इति ।
निर्दोषयोरेव शब्दार्थयो: काव्यत्वस्वीकारे आपत्त्यन्तरं दर्शयति-किश्चेत्यादिना ।
विश्च । एवम 'अदोषौ शब्दार्थों काव्य' मित्येवमेव स्वीकारे इत्यर्थः । काव्यम । प्रविरलविषयं प्रबिरलावेव विषयो यस्य तत् , दुःसम्पाद्यमित्यर्थः । वाऽथवा । निर्विषयं निर्गतो विषयो यस्य तत् स्यात् । कुत इत्याहसर्वथा सर्वप्रकारेण निर्दोषस्य । एकान्तमेकपदम् । असम्भवात् । तदुक्तं भगवता 'सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ।' इति ।
ननु तही षद्दोषौ शब्दार्थों काव्य' मित्येव स्यात्, का पुनः क्षतिः? इति चेनेत्याह-नन्वित्यादिना ।
नन । ईषदर्थे ईषत् स्वल्पमर्थस्तत्र, किञ्चिदित्यर्थे इति यावत् । नत्रः 'अदोषो' इत्यत्र दोषपदेन समस्यमानस्य 'नजि' त्यव्ययस्येत्यर्थः । प्रयोगः । ‘स्यात्' इति शेषः । 'नजभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे । ईषदर्थे च सादश्ये तद्विरुद्धतदर्थयोः ॥' इति मेदिनी । इतीत्येवम् चेद यदि । 'विवक्ष्यते' इति शेषः । तर्हि 'ईषहोषौ । शब्दार्थो । काव्यम् ।' इतीत्येवम् । उक्ते । 'सतीति' शेषः । निर्दोषयोः। 'शब्दार्थयो' रिति शेषः । काव्यत्वम् । न । स्यात् । अतोऽव्याप्तितादवस्थ्यमेवेति भावः । ननु-सम्भवे 'सदोषतायाः' इति शेषः । सति । ईषदोषौ । 'शब्दार्थों काव्य' मिति शेषः । इतीत्येवम् । चेत् । 'तही 'ति शेषः । एतत 'ईषदोषौ शब्दार्थों सति सम्भवे काव्यम्' इति । अपि । काव्यलक्षणे 'निरूप्यमाण' इति शेषः । रत्नादिलक्षणे । कीटानुवेधादिपरिहारवत् कोटेनानुवेधादि तस्य परिहारस्तेन तुल्यम् । आदिपदं मालिन्यादिलक्षकम् । अनुवेधोऽनुस्यूतत्वम् । न नैव । वाच्यम् । तदेवोपपादयति-हि यथा । निपातानामनेकार्थत्वात् । कीटानवेधादयः। रत्नस्य । अत्र रत्नपदं सदशोपलक्षकम् । तथा च-रत्नादरित्यर्थः । रत्नत्वं रत्नत्वादीत्यर्थः । अत्रापि रत्नपदस्य सदृशोपलक्षकत्वात् । व्याहन्तुम् ईशाः समर्थाः । न नैव ‘भवन्तीति शेषः । किन्तु उपादेयतारतम्यमुपादेयस्य रत्नादेस्तारतम्यमीषदुत्कृष्टात्युत्कृष्टत्वम् । (कर्म)। एव न तु स्वरूपतश्चयुतिम् । कर्तुम् । ईशा इति पूर्वेणान्वः । तद्वत्तथा। अत्र । श्रुतिदुष्टत्वादयः। अपि । काव्यस्य । 'न काव्यत्वं व्याहन्तुमीशाः, किन्तूपादेयतारतम्यमेव कर्तु' मिति शेषः ।
अत्र प्राचां सम्मतिं दर्शयति-उक्तं चेत्यादिना।
उक्तं प्रतिपादितम् । 'आलङ्कारिकाचार्यै रिति शेषः । चा पीत्यर्थः । किमित्याह यत्र येष । टरेष' दःश्रवत्वादिभिर्दोषैर्दूषितेष्विति भावः । अपि 'काव्ये' विति शेषः । कीटानविद्धरत्नादिसाधारण्येन । साधारण्य समानता । 'साधारण: समानश्चे' त्यमरः । काव्यता काव्यत्वम् । मताऽङ्गीकृता 'तो' ति शेषः । रसाधनगमो रसाइशृङ्गारहास्यादयस्तदादेरनुगमोऽनुस्यूतत्वमिति तथोक्तः । स्फुटः ॥ अयं भावः-चमत्कारप्राणभूतशृङ्गारादिशालितया दोषवत्स्वपि वाक्येषु तथा काव्यत्वं, यथा चमत्कारविशेषशालितया कीटानुस्यूतादिवपि रत्नादिषु । इति ।'
आहुर्विवृतिकाराः केचित्तु “अदोषा" विति च्युतसंस्कृत्यभवन्मतयोगक्लिष्टत्वादयो ये शाब्दबोधविघटका दोषास्तरसामान्याभाववन्तावित्यर्थः । एते रसबोधप्रतिबन्धकाः । दोषान्तरं तु काव्यापकर्षकम् । इत्याहुः तन्न, व्यतिरेकध्वनेरुदाहरणे 'धन्याऽसि या कथयसि... सख्यः शपामि ... ॥' इत्यत्र 'शपामी' ति च्युतसंस्कृतित्वदोषसत्त्वात् , 'निश्शेषच्युतचन्दनं ... ।' इत्यादावञ्जनस्यात्यन्तासत्त्वबोधाभिप्रायेण प्रयुक्तस्य 'दूर' मित्यस्य समासे गुणीभूतत्वेन सहान्वयेनाभवन्मतयोगत्वदोषसत्त्वाचाव्याप्तेः, अध्याहार्ण्यक्रियाऽन्वयेन तदुपपत्तावप्यभिमतान्वयाभावेन तद्दोषतादवस्थ्यात् ।" इति ।